मुग्धेऽर्धसम्पत्त्यधिकरणम्

मुग्धेऽर्धसम्पत्ति: परिशेषात्।३.२.१०
विषय: -
विशय:- जीवस्य चतस्र: अवस्था: प्रसिद्धा:- जागरितं, स्वप्न:, सुषुप्ति: इति शरीरस्थस्य जीवस्य।चतुर्थी शरीरादवसृप्ति:।पञ्चमी न श्रूयते, स्मर्यते वा।तत्र मूर्च्छावस्थाया: समावेश: कुत्र?
पू.प.चतसृषु अवस्थास्वेव अन्यतमावस्था मूर्च्छा, पञ्चम्या: अश्रवणात्।
वे.-मूर्च्छा एतासु चतसृषु न समाविष्टा भवति।अत: परिशेषात् पञ्चमी अवस्था गणनीया।
पू.- चतसृषु अस्या: समावेश: कुतो न स्यात्?
वे.- एकमेकं ब्रूम:।
१ मुग्धो न जागरितावस्थ: इन्द्रियैर्विषयानीक्षणात्,सुप्तवत्।३.२.१०
पू.- इषुकार: जागरित: सन् अपि इष्वेकाग्रचित्त: अन्यान् विषयान् नेक्षते।तद्वद् मूर्च्छायां स्यात्।
वे.- न, अचेयमानत्वात् (?)
इषुकार: वदति, ‘‘अहमेतावन्तं कालम् इषुमेव लभमान: आसम्’’ मुग्ध: संज्ञालाभोत्तरं वदति, ‘अहम् एतावन्तं कालम् अन्धे तमसि मग्न: आसम्, न मया किमपि चेतितम्’’।
२ मुग्धस्य शरीरं धरण्यां पतति।इषुकारस्य शरीरं ध्रियते।
पू.- तर्हि मुग्ध: स्वप्नावस्थ: स्यात्।
वे.-
२ मुग्ध: न स्वप्नावस्थ:, नि:संज्ञत्वात्।यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम्।यथा कश्चन उदयन: ३.२.१०
३.१ मुग्ध: न मृत:, प्राणोष्मणो: सद्भावात् यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं यथा जीवद्देवदत्त:। ३.२.१०
३.२ मुग्ध: न मृत:,पुनरुत्थानाच्च यत्र पुनरुत्थानं तत्र अमृतत्वं यथा जागरितो देवदत्त:। ३.२.१०
न हि यमं गत: यमराष्ट्रात् पुनरागच्छति।
पू.प. मुग्ध: सुप्तावस्थ: स्यात् नि:संज्ञत्वसहितजीवितत्वात्।
वेदान्ती- तदपि न युज्यते, वैलक्षण्यात्।मुग्धसुषुपत्यो: वैलक्षण्यम् इत्थम्-

मुग्धस्य सुप्तस्य
१ उच्छ्वास: विषम: सम:
२ देह: सवेपथु: अवेपथु:
३ वदनम् भयानकम् प्रसन्नम्
४ नेत्रे विस्फारिते निमीलिते
५ प्रबोधनम् मुद्गराघातेनापि न शक्यम् पाणिपेषणमात्रेण शक्यम्
६ निमित्तम् मुसलसम्पातादि श्रमादि
७ लोके प्रसिद्धि: ‘मुग्ध:’ इति ‘सुप्त:’ इति

पू.प.-तर्हि मुग्धता इति अवस्था का?
वे.- परिशेषात् ‘अर्धसम्पत्ति: मुग्धता’ इति मन्यामहे।
पू.प.-सुप्तस्य या सम्पत्ति: सा कृत्स्ना अपि मुग्धस्य उपपद्यते यथा-
१ अत्र स्तेनोऽस्तेनो भवति।(बृ.४.३.२२)
२ नैवं सेतुमहोरात्रो तरतो न जरा न मृत्यु:न शोको न सुकृतं न दुष्कृतम्।(छा.४.४.१)
एषा सुप्तस्य सम्पत्ति:।सा मुग्धस्य अपि सम्भवति। कथं तर्हि उच्यते, अर्धसम्पत्ति: इति?
वे.-‘मुग्धेऽर्धसम्पत्ति:’ इत्यस्य नायमभिप्राय: यत् ब्रह्मणा सह जीवस्य अर्धं सम्पादनं भवति। अत्र अभिप्रायस्तु एवम्, ‘मुग्धेऽर्धसम्पत्ति: सुषुप्तपक्षस्य भवति, अर्धसम्पत्ति: अवस्थान्तरस्य भवति’ इति।
पू.प.- कथमेतत्?
वे.-मुग्धे सुप्तेन सह यत्साम्यं भवता दर्शितं, सा सुषुप्तपक्षस्य अर्धा सम्पत्ति:।यच्च वैषम्यं दर्शितं सा अर्धा सम्पत्ति: अवस्थान्तरपक्षस्य।
पू.प.- किमेतत् अवस्थान्तरम्?
वे.-द्वारमेतत् मरणस्य।यदि कर्म सावशेषं तर्हि वाङ्मनसू प्रत्यागच्छत:।यदि कर्मभोग: समाप्त:, तर्हि प्राणोष्माणै उत्क्रामत:।तस्मदेषा मुग्धावस्था अर्धसम्पत्ति: इति ब्रह्मविदो वदन्ति।
पू.प.- परं पञ्चमी काचिदवस्था न प्रसिद्धा।
वे.-कादाचित्की इयमवस्था।अत: न प्रसिद्धा स्यात्।तथापि लोकायुर्वेदयो: प्रसिद्धा।अत्र सम्पत्ति: अर्धा एव अत: पृथङ् न गण्यते।

तृतीयाध्याये द्वितीय: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्