मिथ्यात्वस्य प्रथम-पञ्चमलक्षणयो: वैलक्षण्यम्?
प्र.- मिथ्यात्वस्य प्रथमं लक्षणं तथा पञ्चमं लक्षणमित्यत्र किं वैलक्षण्यम्?
उ.-
प्रथमं लक्षणं | पञ्चमं लक्षणम् |
---|---|
सत्प्रतियोगिक-असत्प्रतियोगिक-भेदद्वयं मिथ्यात्वम् | सत्प्रतियोगिकभेद: मिथ्यात्वम्। |
अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह: लघूत्तरप्रश्ना: