मात्राशी स्यात्
विषयः
मात्राशी स्यात्।च.सू.५.१
विशयः-
अत्र कर्ता कः इति संशयः।द्वौ विकल्पौ सम्भवतः - स्वस्थः मनुष्यः अथवा प्रत्येकं मनुष्यः। स्वस्थः मात्रावदाहारं कुर्यात् इति ग्रन्थकर्तुः अभिप्रायः अस्ति अथवा प्रत्येकं मनुष्यः मात्रावदाहारं कुर्यात् इति ग्रन्थकर्तुः अभिप्रायः अस्ति? प्रथमे पक्षे स्वीकृते आतुरस्य कृते मात्राशी स्यात् इति नियमः न स्यात्।द्वितीये पक्षे स्वीकृते स्वस्थस्य कृते अपि आतुरस्य कृते अपि मात्राशनस्य नियमः स्यात् ।
पूर्वपक्षः -
सर्वेषां कृते मात्रावदाहारः अनिवार्यः। अतः अत्र मनुष्यः इति कर्ता ग्राह्यः।तेन स्वस्थानाम् आतुराणाम् अपि तत्र समावेशः भवति।
उत्तरपक्षः-
स्वस्थः इति कर्ता अत्र ग्राह्यः।स्वस्थम् अधिकृत्य एतत् प्रकरणम् आरब्धम्। अतः अधिकरण-तन्त्रयुक्त्या स्वस्थः एव अत्र कर्ता उचितः।
पूर्वपक्षः-
तथा अङ्गीकृतं चेत्, आतुरस्य कृते मात्राशनस्य नियमः न स्यात्।
उत्तरपक्षः-
इष्टापत्तिः एव सा।यतो हि आतुरस्य आहारस्य मात्रा न निर्धार्यते।क्वचित् मात्रातः अधिकम् अशनम् आतुराय दीयते, क्वचित् मात्रातः न्यूनम् अशनम् आतुराय दीयते अतः आतुरस्य कृते मात्राशनस्य नियमः नापेक्षितः।
पूर्वपक्षः-
आतुरस्य न्यूनमात्रम् अधिकमात्रं वा अशनं कदा उपदिश्यते?
उत्तरपक्षः-
क्षीरसौहित्यमर्हति (च.सू.१९.४७)इत्यत्र मात्रातः अपि अधिकं क्षीरपानम् उपदिष्टम्।सामावस्थायां मात्रातः अपि न्यूनम् अशनम् उपदिश्यते, यतो हि अल्पाहारे सति आमपाचनं भवति- अन्नाभावे पचेद् दोषान्।एवम् आतुरस्य मात्राशी स्यात् इति नियमः कर्तुं न युज्यते।
निर्णयः-
मात्राशी स्यात् इत्यत्र कर्ता स्वस्थः अभिप्रेतः।
भिषग् भिषजा सह