मूलम्
माता रामो मत्पिता रामचन्द्रः । स्वामि रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुः नान्यं । जाने नैव जाने न जाने ॥३०॥

पदच्छेदः
माता रामः मत्पिता रामचन्द्रः । स्वामी रामः मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रः दयालुः न अन्यं । जाने न एव जाने न जाने ॥३०॥

अन्वयः
(मम) माता रामः। मत्पिता रामचन्द्रः ।(मम)स्वामी रामः।मत्सखा रामचन्द्रः।मे सर्वस्वं दयालुः रामचन्द्रः।(अहम्) अन्यं न ।जाने, न जाने न एव जाने ॥३०॥

सरलार्थः
मम माता रामः। मम पिता रामचन्द्रः ।ममस्वामी रामः।मम सखा रामचन्द्रः।मम सर्वस्वं दयालुः रामचन्द्रः।अहम् अन्यं सर्वथा न जानामि॥३०॥

सन्धिविग्रहः ३०

सन्धिः विग्रहः सूत्रम्
रामो मत्पिता रामस् मत्पिता ससजुषो रुः।८.२.६६

हशि च।६.१.११२

रामो मत्सखा रामस् मत्सखा ससजुषो रुः।८.२.६६

हशि च।६.१.११२

रामचन्द्रो दयालुः रामचन्द्रस् दयालुः ससजुषो रुः।८.२.६६

हशि च।६.१.११२

दयालुर्न दयालुस् न ससजुषो रुः।८.२.६६
नान्यं न अन्यं अकः सवर्णे दीर्घः।६.१.९९
नैव न एव वृद्धिरेचि।६.१.८७

समासविग्रहः ३०
मत्पिता
मम पिता मत्पिता।... षष्ठी।२.२.८

रामचन्द्रः
रामः चन्द्रः इव रामचन्द्रः।...उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६

मत्सखा
मम सखा मत्सखा।... षष्ठी।२.२.८


सर्वस्वम्
सर्वं स्वं सर्वस्वम्।... विशेषणं विशेषेण बहुलम्।२.१.५७

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=माता_रामो_...न_जाने&oldid=7210" इत्यस्माद् प्रतिप्राप्तम्