मूलम्
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्।। ३५।।

पदच्छेदः -
महेशात् न अपरः देवः महिम्नः न अपरा स्तुतिः।अघोरात् न अपरः मन्त्रः न अस्ति तत्त्वं गुरोः परम्।।

अन्वयः-
महेशात् अपरः देवः न अस्ति । महिम्नः अपरा स्तुतिः न अस्ति ।अघोरात् अपरः मन्त्रः न अस्ति । गुरोः परम् तत्त्वं न अस्ति ।।

सरलार्थः-
शिवस्य अपेक्षया श्रेष्ठः देवः नास्ति।महिम्नस्तवस्य अपेक्षया श्रेष्ठा स्तुतिः नास्ति।अघोरेभ्यः इति एतस्य मन्त्रस्य अपेक्षया श्रेष्ठः मन्त्रः नास्ति। गुरोः अपेक्षया श्रेष्ठं तत्त्वं नास्ति।३६


शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=महेशान्नापरो...&oldid=6187" इत्यस्माद् प्रतिप्राप्तम्