मूलम्
मही पादाघाताद् व्रजति सहसा संशयपदं।
पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह-गणम्।।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा।
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता।। १६।।

पदच्छेदः-
मही पादाघाताद् व्रजति सहसा संशयपदं।पदं विष्णोः भ्राम्यद्-भुज-परिघ-रुग्ण-ग्रह-गणम्।।
मुहुः द्योः दौःस्थ्यं याति अनिभृत-जटा-ताडित-तटा।जगद् रक्षायै त्वं नटसि ननु वामा एव विभुता।।

अन्वयः
जगद् रक्षायै त्वं नटसि (तदा), सहसा पादाघाताद् मही संशयपदं व्रजति, विष्णोः पदं भ्राम्यद्-भुज-परिघ-रुग्ण-ग्रह-गणम् भवति, अनिभृत-जटा-ताडित-तटा द्योः मुहुः दौःस्थ्यं याति ।ननु विभुता वामा एव ।। १६।।

सरलार्थः-
जगतः रक्षणार्थं त्वं नटसि।तदा तव पादाघातेन पृथ्वी संशयं प्राप्नोति।तव भुजाः परिघवत् भ्रमन्ति।तेन विष्णुपदे स्थिताः ग्रहगणाः पीडिताः भवन्ति। तव विकीर्णाः जटाः स्वर्गस्य तटेषु आघातान् कुर्वन्ति।तदा स्वर्गलोक: अपि मुहुः मुहुः अस्थिरः भवति।विभुत्वम् एवम् एव विचित्रा अस्ति ननु!१६


शिवस्तोत्राणि   शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=मही_पादाघाताद्...&oldid=6171" इत्यस्माद् प्रतिप्राप्तम्