महासुभाषितसंग्रह ६००१-७०००
६००१-१ इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
६००१-२ सम्वादः प्रणवेन यस्य दलता कायैकतायां तयोर् ऊर्ध्वद्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च ।।
६००२-१ इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः ।
६००२-२ स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ।।
६००३-१ इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन्मा स्म भून् नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः ।
६००३-२ अप्यक्ष्णोर्मुदमुद्गिरन्ति कुमुदैरामोदयन्ते दिशः संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यङ्क्तुं प्रकाशिष्यते ।।
६००४-१ इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।
६००४-२ कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सुन्दर्याः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ।।
६००५-१ इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनं ।
६००५-२ पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ।।
६००६-१ इन्दुस्त्वद्यशसा जितोऽवनिपते भासांनिधिस्तेजसा कन्दर्पो वपुषा सुधाजलनिधिर्वाचो विलासेन च ।
६००६-२ तथ्यं ते जयशीलमेतदधुना त्वद्दानमद्दैन्ययोर् मध्ये कं नु विजेष्यतीति विषये दोलायते मे मनः ।।
६००७-१ इन्दूदयश्चन्दनमिन्दुवक्त्रश्चैत्रस्तथा यस्य महाय संपत् ।
६००७-२ वपुश्च शृङ्गारमयं स मन्ये संतापकस्त्वं हरवह्नियोगात् ।।
६००८-१ इन्दोः कलाकलापेन पङ्क्तिक्रमनिवेशिना ।
६००८-२ सर्वदुःखापनोदाय बालकानां कृता भुजाः ।।
६००९-१ इन्दोः कान्तिं जडतरकरान्मत्तनागाद्गतिं वा त्रस्तान्नेत्रे हरसि हरिणात्तत्र किं नाम चित्रं ।
६००९-२ एतच्चित्रं पुनरिह जगज्जैत्रकन्दर्पचाप- श्रीसर्वस्वं यदपहरसि प्रेयसि भ्रूविलासैः ।।
६०१०-१ इन्दोः किं द्रुहिणस्य वा सुरपतेः किं वा कृतान्तस्य वा किं भूतेश दिशास्थि भूषणगणेश्वाकृष्य देयं मया ।
६०१०-२ इत्थं मण्डनमन्दिरोदरचरव्याहारतो भीकराथ्भीता यस्य सुराः प्रसाधनविधौ पायात्स वः शंकरः ।।
६०११-१ इन्दोः संक्षयरक्षिणाक्षतसुधा किं वेधसा निर्मिता किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः ।
६०११-२ किं तारुण्यवसन्तकान्तिललिता शृङ्गारसिक्ता लता किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ।।
६०१२-१ इन्दोरगतयः पद्मे सूर्यस्य कुमुदेंऽशवः ।
६०१२-२ गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरं ।।
६०१३-१ इन्दोरस्य त्रियामायुवतिकुचतटीचन्दनस्थासकस्य व्य्ॐअश्रीचामरस्य त्रिपुरहरजटावल्लरीकोरकस्य ।
६०१३-२ कंदर्पक्षोणिपालस्फटिकमणिगृहस्यैतदाख ण्डलाशा- नासामुक्ताफलस्य स्थगयति जगतीं कोऽपि भासां विलासः ।।
६०१४-१ इन्दोरिवास्य पुरतो यद्विमुखी सापवारणा भ्रमसि ।
६०१४-२ तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतं ।।
६०१५-१ इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः ।
६०१५-२ स्थानमिव तुच्छमेतथ्कलङ्करूपेण परिणमति ।।
६०१६-१ इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् दिङ्नागानां मदजलमसीभाञ्जि गण्डस्थलानि ।
६०१६-२ अद्याप्युर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ।।
६०१७-१ इन्दोश्चन्दनबिन्दुनैव दशनच्छायं तदीयं मुखं चक्रं लोचनभल्लमार्जनविधौ शाणस्य तत्कुण्डलं ।
६०१७आ-२ भिन्नानां कुचकन्दरा स्मितसुधाकुल्येव मुक्तावली पादाब्जे ध्वनदिन्द्रनीलवलयं रोलम्बमालैव सा ।।
६०१७आ-१ इन्दौ निन्द्या चकोरैरसमयति निशाजागरः पुण्डरीकैः भृङ्गैः शीधुन्यसङ्गः शरदि समधिका ग्लानिरिन्दीवरैश्च ।
६०१७-२ भ्रूभङ्गे यस्य वैराकरयुवतिदृशामेकमेवोपमानं पश्याम्यश्रान्तबाष्पप्रकरमयझरीगूदचाराश्चमर्यः ।।
६०१८-१ इन्द्रं द्व्यक्षधरं त्वमन्थमुदधिं पञ्चाननं पद्मजं सिन्धुं स्वादुजलं शिवं सितगलं कामं च सद्विग्रहं ।
६०१८-२ शैलान्पक्षधरांस्तथैव च हयांल्लक्ष्मीपतिं पिङ्गलं दृष्टं सर्वमिदं क्वचिन्न रघुराड्दत्तं स्वयं हारितं ।।
६०१९-१ इन्द्रं वै षण्ढमाहुर्मलिनमुडुपतिं माधवं गोपसूनुं व्यासं मत्सीतनूजं गतरसमुदधिं पावकं सर्वभक्षं ।
६०१९-२ वेश्यापुत्रं वसिष्ठं जनपदवचनैः पाण्डवाश्चान्यजाता इत्थं संचिन्त्य मह्यं कथय नरपते कस्य दोषा न सन्ति ।।
६०२०-१ इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान्दिक्पतीन्सावधानान् कुर्वन्वज्रास्त्रपाणिः सुरवरवलितां देवसेनां निगृह्य ।
६०२०-२ स्वर्गद्वारे यदीयोद्धतबलिनिहतप्रौढढक्कानिनादं श्रुत्वातिष्ठत्प्रकम्पत्कुचकलशतटीकिन्नरीगीयमानः ।।
६०२१-१ इन्द्रः प्रधानं दिवि दैवतेषु विप्रो मनुष्येषु नदीषु गङ्गा ।
६०२१-२ गावः पशुष्वेषु धनेषु धान्यं सर्वत्र गात्रस्य शिरः प्रधानं ।।
६०२१आ-१ इन्द्रगोपकपरम्परा भृशं काननेषु शुशुभे विसर्पिणी ।
६०२१आ-२ प्रावृषः सरभसागमाच्च्युता पद्मरागघटितेव कर्णिका ।।
६०२२-१ इन्द्रगोपैर्बभौ भूमिर्निचितैव प्रवासिनां ।
६०२२-२ अनङ्गबाणैर्हृद्भेदस्रुतलोहितबिन्दुभिः ।।
६०२३-१ इन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि ।
६०२३-२ धिक्धिक्प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ।।
६०२४-१ इन्द्रनीलशुकपक्षक्ॐअला शङ्खकुन्दकुमुदेन्दुसंनिभा ।
६०२४-२ तप्तकाञ्चनविकासिचम्पक- स्पर्धिनी वसुमती प्रशस्यते ।।
६०२५-१ इन्द्रस्त्वं नृप सुन्दरी तव शची पुत्रो जयन्तोपमो गेहं भाति च वैजयन्तसदृशं नागोऽभ्रमोर्वल्लभः ।
६०२५-२ इत्थं बोधकरैरसत्यवचनैः स्वैरं स्तुतः स्वं हरिं वेत्ति प्रस्फुटविक्रमं स महिमा ज्ञेयो हरेर्मायिनः ।।
६०२६-१ इन्द्रस्य वज्रेण हतो वृत्रासुरमहायशाः ।
६०२६-२ मेदसा सर्वविच्छिन्नं तदर्थमुपलेपनं ।।
६०२७-१ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।
६०२७-२ चन्द्रस्य च पृथिव्याश्च नृपः सप्तगुणो भवेत् ।।
६०२८-१ इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधो यमाद्वैश्रवणाच्च वित्तं ।
६०२८-२ पराक्रमं रामजनार्दनाभ्यां आदाय राज्ञः क्रियते शरीरं ।।
६०२९-१ इन्द्राद्या लोकपाला हरिविधुतपना नागविद्याधराद्या द्वेष्याः सर्वेऽपि देवाः प्रिय तव वरदः कोऽस्ति वन्द्यो गरीयान् ।
६०२९-२ श्रुत्वा वाचं प्रियाया इति दशमुखतः प्राह वाक्यं दशास्यः शूली शंभुः पिनाकी शिवभवपशुपः शर्व ईशश्च भर्गः ।।
६०३०-१ इन्द्राद्यैः किं प्रदत्तं प्रदिशसि धवलं धाम धन्यं यदेभ्यो मह्यं यन्नापि धत्से तृणघटितकुटीं किं मया तेऽपराद्धं ।
६०३०-२ विश्वेभ्यो विश्वमातर्वितरसि यदि वा शर्म कर्मानुसारि प्रोत्तुङ्गायाः कृपायास्तव तुहिनगिरेः पुत्रि कुत्रोपयोगः ।।
६०३१-१ इन्द्रानिलयमार्काणां अग्नेश्च वरुणस्य च ।
६०३१-२ चन्द्रवित्तेशयोश्चापि मात्रा निर्हृत्य शाश्वतीः ।।
६०३२-१ इन्द्राभ्यर्थनया पूर्वं भरताय चतुर्मुखः ।
६०३२-२ प्रमोदाय महेन्द्रस्य नाट्यं समुपदिष्टवान् ।।
६०३३-१ इन्द्राय वीक्षमाणस् तन्मुखमास्वादयन्ननन्ताय ।
६०३३-२ स्पृहयामि चाद्य दयितां आलिङ्गन्कार्तवीर्याय ।।
६०३४-१ इन्द्रियं विजितं येन तेनैव भुवनं जितं ।
६०३४-२ यश्चेन्द्रियैः पराभूतः स सर्वत्र पराजितः ।।
६०३५-१ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
६०३५-२ तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ।।
६०३६-१ इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशं ।
६०३६-२ जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ।।
६०३७-१ इन्द्रियाणां जये शूरो धर्मं चरति पण्डितः ।
६०३७-२ सत्यवादी भवेद्वक्ता दाता भवति वा न वा ।।
६०३८-१ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियं ।
६०३८-२ ततोऽस्य क्षरति प्रज्ञा दृतेः पादादिवोदकं ।।
६०३९-१ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
६०३९-२ अहिंसया च भूतानां अमृतत्वाय कल्पते ।।
६०४०-१ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयं ।
६०४०-२ संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ।।
६०४१-१ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
६०४१-२ पापान्संयान्ति संसारानविद्वांसो नराधमाः ।।
६०४२-१ इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।
६०४२-२ धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवं ।।
६०४३-१ इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
६०४३-२ संयमे यत्नमातिष्ठेद्विद्वान्यन्तेव वाजिनां ।।
६०४४-१ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
६०४४-२ तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ।।
६०४५-१ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
६०४५-२ भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ।।
६०४६-१ इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते ।
६०४६-२ अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ।।
६०४७-१ इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः ।
६०४७-२ समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ।।
६०४८-१ इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
६०४८-२ मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।।
६०४९-१ इन्द्रियाणि पशून्कृत्वा वेदीं कृत्वा तप्ॐअयीं ।
६०४९-२ अहिंसामाहुतिं कृत्वा आत्मयज्ञं यजाम्यहं ।।
६०५०-१ इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।
६०५०-२ स्मरद्भरिव तैद्वैरं इन्द्रियैरेव निर्जितः ।।
६०५१-१ ... ... ... ... ... ... ।
६०५१-२ इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ।।
६०५२-१ इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः ।
६०५२-२ धारणा प्रेरणं दुःखं इच्छाहङ्कार एव च ।।
६०५३-१ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।
६०५३-२ तस्यैतदात्मजं सर्वं अनादेरादिमिच्छतः ।।
६०५४-१ इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
६०५४-२ एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनं ।।
६०५५-१ इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
६०५५-२ इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ।।
६०५६-१ इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च ।
६०५६-२ निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ।।
६०५७-१ इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे ।
६०५७-२ अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितं ।।
६०५८-१ इन्द्रियाण्यन्तरङ्गाणि पातयन्ति यथा जनान् ।
६०५८-२ अभ्यन्तरास्तथा राष्ट्रे भृत्याः स्वार्थपरायणाः ।।
६०५९-१ इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।
६०५९-२ निगृहीतविसृष्टानि स्वर्गाय नरकाय च ।।
६०६०-१ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
६०६०-२ अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ।।
६०६१-१ इन्द्रियैरिन्द्रचन्द्राद्या ह्रेपिता यैः सुरा अपि ।
६०६१-२ अपरिम्लानमानत्वं तैर्मर्त्यस्याथवा कथं ।।
६०६२-१ इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
६०६२-२ तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ।।
६०६३-१ इन्द्रो निन्दति वाहमाह दिनकृत्त्वर्व्वाचमेवार्वतश्चञ्चूर्न्यञ्चति किं न पन्नगरिपोरन्तस्त्रपोद्रेकतः ।
६०६३-२ वातः खञ्जति पङ्गुपुञ्जति मनोराजिर्ब्भवद्वाजिषु द्बेषादाजिषु वैरिणामभिमुखं धावत्सु यावत्सुखं ।।
६०६४-१ इन्द्रो यच्छतमन्युरस्ति दहनो यत्पावकोऽप्यन्तकः कीनाशो धनदो विमाननिरतः पाशी जलानां पतिः ।
६०६४-२ ईशः कामहरश्चलो यदनिलो यन्नैरृतो राक्षसस् तन्नान्योऽवनिलोकपाल भवतः कश्चित्समः स्याद्गुणैः ।।
६०६५-१ इन्द्रो यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्यसकृद्यदुक्तिः ।
६०६५-२ भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य फलमिन्धनमुद्वहामि ।।
६०६६-१ इभकुम्भतुङ्गकठिनेतरेतर- स्तनभारदूरविनिवारितोदराः ।
६०६६-२ परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ।।
६०६७-१ इभ्या यदि नृपद्वारे संमन्यन्ते किमद्भुतं ।
६०६७-२ इदानीं विबुधद्वारे तेषामेव पुरस्क्रिया ।।
६०६८-१ इमं कनकवर्णाभं भूषणैः समलंकृतं ।
६०६८-२ गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदं ।।
६०६९-१ इमं तिलसुमायितं युवतिनासिकासंपुटं विभाव्य सुमनोजनो मनसि मोदमापद्यते ।
६०६९-२ सखे भुजगमुत्फणं सविषफूत्कृताहंकृतं विभावय न तत्स्पृहां कुरु जहीहि तद्दृश्यतां ।।
६०७०-१ इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं बुधाविशत् ।
६०७०-२ न वेत्ति यत्त्रातुमितः कृतस्मयो न दुर्गया शैलभुवापि शक्यते ।।
६०७१-१ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमं ।
६०७१-२ गुरुशुश्रूषया त्वेव ब्रह्मलोकं समश्नुते ।।
६०७२-१ इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति ।
६०७२-२ विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान्गुणकीर्तनेन ।।
६०७३-१ इमां परीप्सुर्दुर्जाते पराभिभवकातरां ।
६०७३-२ भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ।।
६०७४-१ इमां विधातुं भुजवल्लिमुज्ज्वलां गृहीतसारं विधिना नतभ्रुवः ।
६०७४-२ कठोरभावप्रियमेव केवलं मृणालमन्तस्तरलं कुतोऽन्यथा ।।
६०७५-१ इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलां ।
६०७५-२ महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ।।
६०७६-१ इमानि प्रायशस्तानि वेश्यास्वेवं प्रदापयेत् ।
६०७६-२ सा मुञ्चत्यचिरात्सर्वं उपभोगं तदात्मनः ।।
६०७७-१ इमा यदि भवन्ति नो गलितयौवना नीरुचस् तदा कमललोचनास्तरुणमानिनीर्मा मुचत् ।
६०७७-२ विलासमदविभ्रमान्भ्रमति लुण्ठयत्री जरा यतो भुवि वधुस्ततो भवति निःस्पृहस्तन्मुखे ।।
६०७८-१ इमा रूपस्थानस्वजनतनयद्रव्यवनिता- सुतालक्ष्मीकीर्तिद्युतिरतिमतिप्रीतिधृतयः ।
६०७८-२ मदान्धस्त्रीनेत्रप्रकृतिचपलाः सर्वभविनां अहो कष्टं मर्त्यस्तदपि विषयान्सेवितुमनाः ।।
६०७९-१ इमास्ताः कस्तूरीप्रखरखुरटङ्कक्षततटास् तटिन्योऽरण्यानीमनु कमलिनीच्छन्नसलिलाः ।
६०७९-२ जले यासां हंसा बिसकिसलयग्रासरसिकाः सलीलं लीयन्ते युवतिगतिविद्यैकगुरवः ।।
६०८०-१ इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरददशनाभुग्नतरवः ।
६०८०-२ लताकुञ्जे यासामुपनदि रतक्लान्तशबरी- कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ।।
६०८१-१ इमा हिन्दोलासु भ्रमितमहसः कुङ्कुमरुचा त्रपारूपाकारास्तरलतरहाराश्चलदृशः ।
६०८१-२ उदञ्चत्काञ्चीनां बहलतरघोषैर्मनसिज- त्रिलोकीसम्राजो दधति जयघण्टालिनिनदं ।।
६०८२-१ इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरत- प्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः ।
६०८२-२ चिरं चेतश्चौरा अभिनवविकारैकगुरवो विलासव्यापाराः किमपि विजयन्ते मृगदृशां ।।
६०८३-१ इमे पद्मे नाम्भः पुलिनतटमेतन्न तटिनी खमेतन्न व्याप्तिः स्तबकयुगमेतन्न लतिका ।
६०८३-२ प्रवालोऽयं नाब्धिः शिशिरकिरणोऽयं न रजनी घनोऽयं न प्रावृट्शिव शिव विधेः शिल्परचना ।।
६०८४-१ इमे मम धनाङ्गजस्वजनवल्लभादेहजा- सुहृज्जनकमातुलप्रभृतयो भृशं वल्लभाः ।
६०८४-२ मुधेति हतचेतनो भववने चिरं खिद्यते यतो भवति कस्य को जगति वालुकामुष्टिवत् ।।
६०८५-१ इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः ।
६०८५-२ गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनं ।।
६०८६-१ इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयमिदं तदेतल्लीलाब्जं शरदमृतरश्मिः स्फुटमयं ।
६०८६-२ किमङ्गे तन्वङ्ग्याः कलयति जगत्कान्तमधिकं यदेतस्यां शश्वत्परवशमिवोन्मत्तमिव च ।।
६०८७-१ इयं कलाविलासिनी कलावती समीपगा धृतारविन्दलोचना मनोजशोकमोचना ।
६०८७-२ नवीननीरदच्छटासमानकेशभूषिता न कस्यचिज्जनस्य चित्तवृत्तितापखण्डिता ।।
६०८८-१ इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतं ।
६०८८-२ ध्रुवं मनोज्ञा व्यतरद्यदुत्तरं मिषेण भृङ्गारधृतेः करद्वयी ।।
६०८९-१ इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोर् असावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।
६०८९-२ अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ।।
६०९०-१ इयं गौरुद्दामा तव निबिडबन्धापि हि कथं न वैदर्भादन्यत्स्पृशति सुलभत्वेऽपि हि कथं ।
६०९०-२ अवन्ध्या च ख्याता भुवि कथमगम्या कविवृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ।।
६०९१-१ इयं गौरेका नः क्वचिदपि न संयोजनविधाव् अमुष्याः पश्यामो रसभरमुचं कांचिदपरां ।
६०९१-२ गले बद्धा दध्मो यदि न धृतिरुद्दामविधृतौ भयं गोचोरेभ्यस्तदिह क उपायः प्रभवतु ।।
६०९२-१ इयं घटी मत्तगजेन्द्रगामिनी- विचित्रसिंहासनसंस्थिता सदा ।
६०९२-२ अनेकरामाजनलालिता परं विधेर्वशात्सैव सती प्रजार्थिनी ।।
६०९३-१ इयं चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति हि शंभोरपि पदं ।
६०९३-२ पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत्कृत्स्नं पायादनुदिनमपायात्सुरधुनी ।।
६०९४-१ इयं तावल्लीला यदधिरुरुहे वृद्धवृषभो यदुन्नेहे रुण्डं यदिह चितिभस्मापि लिलिपे ।
६०९४-२ अयं को व्यापारो यदतिलकि भाले हुतवहो यदग्रैवि व्यालो यदकवलि हालाहलमपि ।।
६०९५-१ इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।
६०९५-२ स्नेहप्रस्नवनिर्भिन्नं उद्वहन्ती स्तनद्वयं ।।
६०९६-१ इयं त्रियामा शतयामधारिणी सुधाकरादग्निरुदेति सर्वतः ।
६०९६-२ तनोति तापं मृदुचन्दनानिलो विधौ विरुद्धे हि विपत्पदे पदे ।।
६०९७-१ इयं त्वभिन्नमर्यादैः स्वनुशिष्टैः कृतात्मभिः ।
६०९७-२ सर्वंसहैरुपायज्ञैरमूढैरेव धार्यते ।।
६०९८-१ इयं धत्ते धीरे मलयजसमीरे न च मुदं न पद्मानां वृन्दे ललितमकरन्देऽपि रमते ।
६०९८-२ न वा सा सानन्दा भवति नवकुन्दावलिकुले तदेतस्या बाधाहरमपि समाधानमिह किं ।।
६०९९-१ इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः समन्तादाकीर्णा विषविषमबाणप्रणयिभिः ।
६०९९-२ तरोरस्य स्कन्धे गमय समयं कीर निभृतं न वाणी कल्याणी तदिह मुखमुद्रैव शरणं ।।
६१००-१ इयं प्रीतिर्वल्लीहृदयभुवि दैवात्समुदिता तथा यत्नाद्रक्ष्या प्रकृतिमृदुलापायबहुला ।
६१००-२ यथा नैनां स्फीतां पिशुनजनदुर्वाक्यदहनो दहत्यन्तः शोषं व्रजति न पुनः सौहृदनिधेः ।।
६१०१-१ इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
६१०१-२ कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ।।
६१०२-१ इयं बाला मां प्रत्यनवरतमिन्दीवरदल- प्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया ।
६१०२-२ गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर- ज्वरज्वाला शान्ता तदपि न वराकी विरमति ।।
६१०३-१ इयं बाला वल्ली मृदुकिसलयं तापविलयं घनच्छायं शालं नवमतिविशालं परिगता ।
६१०३-२ परंत्वस्याभ्यन्तर्गरललवभस्मीकृतवनं भुजंगं प्रोत्तुङ्गं कथमिव वराकी कलयतु ।।
६१०४-१ इयं भुजगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदखञ्जनालंकृता ।
६१०४-२ फलद्वयभरानता विलसिता नवैः पल्लवैर् विलोचनपथं गता भवति कापि हैमी लता ।।
६१०५-१ इयं मयि प्रोषित एव संगता हिमत्विषाभूत्कृतमण्डना सती ।
६१०५-२ इतीर्ष्ययेव द्रुतमच्छिनद्रुषा विचित्रताराभरणानि भास्करः ।।
६१०६-१ इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी ।
६१०६-२ अरूपहार्यं मदनस्य निग्रहाथ्पिनाकपाणिं पतिमाप्तुमिच्छति ।।
६१०७-१ इयं मुखाम्भोरुहसंनिधाने विलम्बिधम्मिल्लततिच्छलेन ।
६१०७-२ समागतां सादरमेव बाला द्विरेफमालामुत वा दधाति ।।
६१०८-१ इयं यशांसि द्विषतः सुधारुचः किमङ्कमेतद्द्विषतः किमाननं ।
६१०८-२ यशोभिरस्याखिललोकधाविभिर् विभीषिता धावति तामसी मसी ।।
६१०९-१ इयं रङ्गप्रवेशेन कलानां चोपशिक्षया ।
६१०९-२ वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ।।
६११०-१ इयं विलासद्रुमदोहदश्रीर् इयं सुधा यौवनदुग्धसिन्धोः ।
६११०-२ लावण्यमाणिक्यरुचिच्छटेयं इयं मनःकार्मणचूर्णमुष्टिः ।।
६१११-१ इयं व्याधायते बाला भ्रूरस्याः कार्मुकायते ।
६१११-२ कटाक्षाश्च शरायन्ते मनो मे हरिणायते ।।
६११२-१ इयं सम्ध्या दूरादहमुपगतो हन्त मलयाथ्तदेकां त्वद्गेहे करुणवति नेष्यामि रजनीं ।
६११२-२ समीरेणैवोक्ता नवकुसुमिता चूतलतिका धुनाना मुर्द्धानं नहि नहि नहीत्येव कुरुते ।।
६११३-१ इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा मदान्धव्याकूजत्तरुणजलरंकुप्रणयिनी ।
६११३-२ पुरा यस्यास्तीरे सरभससतृष्णं मुरभिदो गताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ।।
६११४-१ इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत् ।
६११४-२ इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः ।।
६११५-१ इयं सुनयना दासीकृततामरसश्रिया ।
६११५-२ आननेनाकलङ्केन जयन्तीन्दुं कलङ्कितं ।।
६११६-१ इयं सुरतरङ्गिणी न पुनरत्र नौसंगमो भवेत्तरणिमज्जनं पथिक नैव पान्थागमः ।
६११६-२ निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे घनघनागमे घनरसस्य पारं व्रज ।।
६११७-१ इयं सुस्तनी मस्तकन्यस्तकुम्भा कुसुम्भारुणं चारु वासो वसाना ।
६११७-२ समस्तस्य लोकस्य चेतःप्रवृत्तिं गृहीत्वा घटे न्यस्य यातीव भाति ।।
६११८-१ इयं सृष्टा चञ्चत्कनकलतिका पङ्कजभुवा निषिक्ता लावण्यामृतरसभरेणानुदिवसं ।
६११८-२ अकस्माद्र्ॐआलीमधुपपटलीह स्फुरति यथ्ततः शङ्के पुष्पोद्गमसमयमायातमधुना ।।
६११९-१ इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्षकन्यका ।
६११९-२ अथवा विपिनस्यैव देवता किमु पार्वति ।।
६१२०-१ इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव मां ।
६१२०-२ अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ।।
६१२१-१ इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।
६१२१-२ आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ।।
६१२२-१ इयं हि लोकव्यतिरेकवर्तिनी स्वभावतः पार्थिवता समुद्धता ।
६१२२-२ बलात्तदेनां विनयेन योजयेन् नयस्य सिद्धौ विनयः पुरःसरः ।।
६१२३-१ इयता वयसा न साधितं यथ्परतः किं नु करिष्यतीति वेधाः ।
६१२३-२ तिलतण्डुलितास्य र्ॐअरेखा- च्छलतः कज्जलचूर्णमालिलिम्प ।।
६१२३-१ इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् ।
६१२३-२ मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ।।
६१२४-१ इयती जगती कियती भविता नमिताननतामिति याति हयः ।
६१२४-२ वियदङ्गणरिङ्गणरङ्गविधौ परिनर्तितुमुत्क्रमतीव नभः ।।
६१२५-१ इयत्पृथ्वीमात्रं तदनु च नभ्ॐअण्डलमिय- दियान्पातालान्तो जलमपि पृथिव्यामियदिति ।
६१२५-२ इति ज्ञात्वा कूपे विदितविषयो नायमपरः परं मुग्धो भेकः प्रबलतररावं प्रकुरुते ।।
६१२६-१ इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास् त एवामी द्वित्रा जरठजरठा यान्ति गणनां ।
६१२६-२ अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्मयस्तब्धो यावत्कलयति समग्रं तृणमिदं ।।
६१२७-१ इयत्यां संपत्तावपि च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि यदि कासार सहसा ।
६१२७-२ निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरान् कृशीभूतः केषामहह परिहर्तासि खलु तां ।।
६१२८-१ इयत्यामपि सामग्र्यां सुकृतं न कृतं त्वया ।
६१२८-२ इतीव कुपितो दन्तानन्तकः पातयत्यलं ।।
६१२९-१ इयत्येतस्मिन्वा निरवधिचमत्कृत्यतिशयो वराहो वा राहुः प्रभवति चमत्कारविषयः ।
६१२९-२ महीमेको मग्नां यदयमवहद्दन्तशललैः शिरःशेषः शत्रुं निगिलति परं संत्यजति च ।।
६१३०-१ इयमत्र कयापि दिशा नीतिदृशां दर्शिता पदवी ।
६१३०-२ चाणक्याद्यभिधानाज् ज्ञेयनिधानादथान्यदुन्नेयं ।।
३१३१-१ इयमत्र सतामलौकिकी महती कापि कठोरचित्तता ।
३१३१-२ उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारभीरवः ।।
६१३२-१ इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
६१३२-२ गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ।।
६१३३-१ इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी ।
६१३३-२ वहति च वरारोहा रम्यां विवाहमहोत्सव- श्रियमुदयिनीमुद्गाढां च व्यनक्ति मनोरुजं ।।
६१३४-१ इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
६१३४-२ पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ।।
६१३५-१ इयमानन्दलतिका न ग्रीवा हरिणीदृशः ।
६१३५-२ यतोऽस्यां विलुठन्त्येते मुक्ताः शुद्धगुणान्तराः ।।
६१३६-१ इयमियं मयदानवनन्दिनी त्रिदशनाथजितः प्रसवस्थली ।
६१३६-२ किमपरं दशकंधरगेहिनी त्वयि करोति करद्वययोजनं ।।
६१३७-१ इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।
६१३७-२ ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ।।
६१३८-१ इयमुदरदरी दुरन्तपूरा यदि न भवेदभिमानभङ्गभूमिः ।
६१३८-२ क्षणमपि न सहे भवादृशानां कुटिलकटाक्षनिरीक्षणं नृपाणां ।।
६१३९-१ इयमुद्गतिं हरन्ती नेत्रनिकोचं च विदधती पुरतः ।
६१३९-२ न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ।।
६१४०-१ इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
६१४०-२ अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ।।
६१४१-१ इलातलभराक्रान्तग्रीवं मा शेष वक्रय ।
६१४१-२ त्वयि दुःखिनि चैकस्मिञ्जीवलोकः सदा सुखी ।।
६१४२-१ इलिका भ्रमरीध्यानं ध्यायन्ती भ्रमरी भवेत् ।
६१४२-२ वीतरागपदं ध्यायन्वीतरागो भवेद्ध्रुवं ।।
६१४३-१ इषुत्रयेणैव जगत्त्रयस्य विनिर्जयात्पुष्पमयाशुगेन ।
६१४३-२ शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य ।।
६१४४-१ इष्टं ददाति गृह्णाति कार्यमाख्याति पृच्छति ।
६१४४-२ भुङ्क्ते भोजयते चैव षड्विधं मित्रलक्षणं ।।
६१४५-१ इष्टकचिते समन्ताथ्पुरुषनिखातेऽवटे तरुर्जातः ।
६१४५-२ वामन एव हि धत्ते फलकुसुमं सर्वकालमिति ।।
६१४६-१ इष्टां भार्यां प्रियं मित्रं पुत्रं चापि कनीयसं ।
६१४६-२ रिक्तपाणिर्न पश्येत तथा नैमित्तिकं प्रभुं ।।
६१४७-१ इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
६१४७-२ आपद्धर्मविमोक्षाय भार्या चापि सतां मतं ।।
६१४८-१ इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
६१४८-२ तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ।।
६१४९-१ इष्टापूर्तानि कलयेत्जगत्ख्यातो वसेद्दिवि ।
६१४९-२ अकूपारोक्तवृत्तोऽगादिन्द्रद्युम्नो दिवं पुनः ।।
६१५०-१ इष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यं ।
६१५०-२ सापि गता सोऽपि गतस् तदपि गतं स्वप्नमायेयं ।।
६१५१-१ इष्टा मखा द्विजवराश्च मयि प्रसन्नाः प्रज्ञापिता भयरसं समदा नरेन्द्राः ।
६१५१-२ एवंविधस्य च न मेऽस्ति मनःप्रहर्षः कन्यापितुर्हि सततं बहु चिन्तनीयं ।।
६१५२-१ इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः ।
६१५२-२ नमस्येयुश्च तं भक्त्या शिष्या इव गुरुं सदा ।।
६१५३-१ इष्टो वा बहुसुकृतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा ।
६१५३-२ दौःशील्याज्जनयति नैव जात्वसाधुर् विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ।।
६१५४-१ इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा ।
६१५४-२ अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ।।
६१५५-१ इह कपटकुतुकतरलित- दृशि विश्वासं कुरङ्ग किं कुरुषे ।
६१५५-२ तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ।।
६१५६-१ इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
६१५६-२ तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयं ।।
६१५७-१ इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः ।
६१५७-२ अवलीढविश्वतमसः पुरो रवेर् नहि जातु दीपकशिखा प्रकाशते ।।
६१५८-१ इह खलु विषमः पुरा कृतानां विलसति जन्तुषु कर्मणां विपाकः ।
६१५८-२ हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः ।।
६१५९-१ इह गमिष्यति वैद्यमतिः श्रमं प्रथममेव पुरस्तु महासुखं ।
६१५९-२ प्रियतमस्य मृगाक्षि समागमे नवकरग्रहणा गृहिणी यथा ।।
६१६०-१ इह गुरुजलभारपूर्णगर्भाः प्रदरदरीभ्रमभूरिभीमवेगाः ।
६१६०-२ तटकटकनियुध्यमानवेणी- द्विगुणमहारवभैरवास्तटिन्यः ।।
६१६१-१ इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।
६१६१-२ विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ।।
६१६२-१ भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधं ।
६१६२-२ देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ।।
६१६३-१ इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् ।
६१६३-२ शीलभङ्गे च नारीणां यमलोकः सुदारुणः ।।
६१६४-१ शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात् ।
६१६४-२ शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ।।
६१६५-१ इह जगति जनस्य कस्य चित्ते न वसति सौख्यविधानमुख्यवार्ता ।
६१६५-२ खलु भवति तदेव तस्य सर्वं भुवनपतिस्तु यदीश्वरः करोति ।।
६१६६-१ इह जगति रतीशप्रक्रियाकौशलिन्यः कति कति न निशीथे सुभ्रुवः संचरन्ति ।
६१६६-२ मम तु विधिहताया जायमानस्मितायाः सहचरि परिपन्थी हन्त दन्तांशुरेव ।।
६१६७-१ इह तव देव निपतता करकमलकुशोदकेन जायन्ते ।
६१६७-२ तत्तद्दूरदरिद्र- द्वारि द्विपदानवारिभिः सरितः ।।
६१६८-१ इह तुरगशतैः प्रयान्तु मूर्खा धनरहिता विबुधाः प्रयान्तु पद्भ्यां ।
६१६८-२ गिरिशिखरगतापि काकपङ्क्तिः पुलिनगतैर्न समत्वमेति हंसैः ।।
६१६९-१ इह दुःखं नृपादिभ्यः परत्र नरकादितः ।
६१६९-२ प्राप्नोति स्तेयतस्तेन स्तेयं त्याज्यं सदा बुधैः ।।
६१७०-१ इह दुःखं लयः प्रोक्तो दुःखं हर्तुं लयः क्षमः ।
६१७०-२ दुःखे शुभे लयो दुःखं दुःखं किं तस्य कथ्यते ।।
६१७२-१ इह धर्मार्थकामानां अवाप्तिफलमिष्यते ।
६१७२-२ तत्रार्थः सह कामेन निरीक्ष्यो धर्मचक्षुषा ।।
६१७२-३ परित्यज्य हि यो धर्मं अर्थमर्थाय पश्यति ।
६१७२-४ कामं वा कामलाभाय न स बुद्धेषु बुद्धिमान् ।।
६१७३-१ इह नगरे प्रतिरथ्यं भुजंगसंबाधरुचिरसंचारे ।
६१७३-२ सुन्दरि मम मतमेतन् नकुलप्रतिपालनं श्रेयः ।।
६१७४-१ इह निचुलनिकुञ्जे मध्यमध्येऽस्य रन्तुर् विजनमजनि शय्या कस्य बालप्रवालैः ।
६१७४-२ इति कथयति वृन्दे योषितां पान्तु युष्मान् स्मितशबलितराधामाधवालोकितानि ।।
६१७५-१ इह निचुलनिकुञ्जे वंशसंभारभाजि स्वपिमि यदि मुहूर्तं पश्यसि क्षेत्रमेतत् ।
६१७५-२ इति पथिकमकस्मान्मार्ग एवोपविष्टं वदति तरुणकान्तं गोपिका साङ्गभङ्गं ।।
६१७६-१ इह निभृतनिपातमूकपादं वलयितकार्मुकवल्लयः किराताः ।
६१७६-२ भवदलसविलोकनानभिज्ञा मृगगृहिणि प्रहरन्ति गच्छ दूरं ।।
६१७७-१ इह निवसति मेरुः शेखरो भूधराणां इह हि निहितभाराः सागराः सप्त चैव ।
६१७७-२ इदमतुलमनन्तं भूतलं भूरिभूतोद्- भवधरणसमर्थं स्थानमस्मद्विधानां ।।
६१७८-१ इह निशि निबिडनिरन्तर- कुचकुम्भद्वितयदत्तहृदयभरा ।
६१७८-२ रमणगुणकृष्यमाणा संतरति तमस्तरङ्गिणीं कापि ।।
६१७९-१ इह परिचिता जात्यन्धानामियं न तवोन्नतिर् गुणपरिचये चक्षुष्मन्तो त्वयातिविडम्बिताः ।
६१७९-२ कृपणवणिजामल्पीकर्तुं गुणांस्तव केवलं मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ।।
६१८०-१ इह परिमलो यत्र व्यक्तो न तत्र मधुश्रियो मधु समधिकं यस्मिंस्तस्मिन्न गन्धसमृद्धयः ।
६१८०-२ इति मरुवकं निन्दन्कुन्दादपेतकुतूहलः कमलमधिकं स्मारं स्मारं विषीदति षट्पदः ।।
६१८१-१ इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
६१८१-२ स्मरसि किं सखि कान्तरतोत्सवं न हि घनागमरीतिरुदाहृता ।।
६१८२-१ इह बहलितमिन्दोर्दीधितीनां प्रभाभिर् मदविकलचकोरीचञ्चुमुद्राङ्किताभिः ।
६१८२-२ रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः ।।
६१८३-१ इह भुवि कलयति लघुरपि महतां सङ्गेन कमपि महिमानं ।
६१८३-२ लङ्घयति चन्द्रलीनो नभस्तलं हेलया हरिणः ।।
६१८४-१ इह भोगं यशः प्रीतिं सभासु बहुमान्यतां ।
६१८४-२ दद्यात्परत्र सुगतिं विद्याधनमनुत्तमं ।।
६१८५-१ इह मधुपवधूनां पीतमल्लीमधूनां विलसति कमनीयः काकलीसंप्रदायः ।
६१८५-२ इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुपदिष्टा दक्षिणेनानिलेन ।।
६१८६-१ इह महिषविषाणव्यस्तपाषाणपीठ- स्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः ।
६१८६-२ कुहरविहरमाणप्रौढभल्लूकहिक्का- चयचकितकिरातस्रस्तशस्त्रा वनान्ताः ।।
६१८७-१ इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
६१८७-२ स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ।।
६१८८-१ इह यत्क्रियते कर्म तत्परत्रोपभुजुयते ।
६१८८-२ सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते ।।
६१८९-१ इह यत्क्रियते कर्म फलं तत्रैव भुज्यते ।
६१८९-२ कर्मभूमिरियं राजन्फलभूमिश्च सा स्मृता ।।
६१९०-१ इह यादववंशकृष्णवर्त्मा- नुगतिः साङ्गतया मयान्वभावि ।
६१९०-२ अधुना तदवाप्तिचेतसे मे मधुराकामधुरापि रोचते किं ।।
६१९१-१ इह रूपमात्रसारे चित्रकृते कमलकह्लारे ।
६१९१-२ न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ।।
६१९२-१ इह रे बहला लासे बाला राहुमलीमसा ।
६१९२-२ सालका रसलीला सा तुङ्गालालि कलारत ।।
६१९३-१ इहलोके च पितृभिर्या स्त्री यस्य महामते ।
६१९३-२ अद्भिर्दत्ता स्वर्धर्मेण प्रेत्यभावेऽपि तस्य सा ।।
६१९४-१ इह लोके हि धनिनः परोऽपि स्वजनायते ।
६१९४-२ स्वजनस्तु दरिद्राणां जीवतामेव नश्यति ।।
६१९५-१ इह लोके हि धनिनां परोऽपि स्वजनायते ।
६१९५-२ स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते ।।
६१९६-१ इह लोको हतो न्णां दारिद्र्येण यथा नृप ।
६१९६-२ मनुष्याणां तथा जन्म माघस्नानं विना हतं ।।
६१९७-१ इह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का ।
६१९७-२ तस्मिन्नभिनववध्वा नीता वीतोदयाः क्षणदाः ।।
६१९८-१ इह वत्सान्समचारयदिह नः स्वामी जगौ वंशीं ।
६१९८-२ इति सास्रं गदतो मे यमुनातीरे दिनं यायात् ।।
६१९९-१ इह वहति बहुमहोदधि- विभूषणा मानगर्वमियमुर्वी ।
६१९९-२ देवस्य कमठमूर्तेर् न पृष्ठमपि निखिलमाप्नोति ।।
६२००-१ इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् ।
६२००-२ सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ।।
६२०१-१ इह विकसदशोकास्तोकपुष्पोपकारैर् अयमतिशयरक्तः सक्तसुस्निग्धभावः ।
६२०१-२ त्रिभुवनजयसज्जः प्राज्यसा म्राज्यभाजः प्रथयति पृथुमैत्रीं पुष्पचापस्य चैत्रः ।।
६२०२-१ इह विचरन्ति किरातास् त्वादृक्स्वच्छन्दतानिहन्तारः ।
६२०२-२ तदमीषां गानादौ मा धाः श्रवणे कुरङ्गशाव त्वं ।।
६२०३-१ इह विजयिनि वंशे कीर्तिधाराकलाप- स्नपितसकललोकः श्रीयशोविग्रहोऽभूत् ।
६२०३-२ जलघट इव युद्धोत्तालभूपालदर्प- ज्वलनशमनलीलाकोविदः कोऽपि वीरः ।।
६२०४-१ इह विधिविषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
६२०४-२ क्व जनकतनया क्व रामरामा क्व च दशकन्धरमन्दिरे निवासः ।।
६२०५-१ इह विरचयन्साध्वीं शिष्यः क्रियां न निवार्यते त्यजति तु यदा मार्गं मोहात्तदा गुरुरङ्कुशः ।
६२०५-२ विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुशाः परतरमतः स्वातन्त्र्येभ्यो वयं हि पराङ्मुखाः ।।
६२०६-१ इह विश्वम्भरापीडे चन्दनं कस्य न प्रियं ।
६२०६-२ अनुस्वारं विलिप्यापि ओकारस्य प्रयोजनात् ।।
६२०७-१ इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।
६२०७-२ इह चामुत्र वैकस्य नामुत्रैकस्य नो इह ।।
६२०८-१ इह व्याधव्यूहः पटुघटितयन्त्रप्रहरणो मृगेन्द्राणां वल्गत्प्रखरनखराणां कुलमिह ।
६२०८-२ इहालङ्घ्यः शैलो बहलतरपङ्का सरिदिह प्रदीप्तोऽग्निर्मध्येवनमहह कष्टं करिपतेः ।।
६२०९-१ इह शय्यागतेनापि बन्धुमध्यस्थितेन वा ।
६२०९-२ मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ।।
६२१०-१ इह शिखरकरालक्षोणिभिद्गण्डशैल- स्खलनदलनगर्जत्फेनिलो बुद्बुदौघः ।
६२१०-२ पवनधृतशिरीषश्रेणिरेणुप्रणाली- सुरभिसलिलदृप्ता द्वीपवत्यो वहन्ति ।।
६२११-१ इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा ।
६२११-२ वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ।।
६२१२-१ इह संतमसे घनागमे सुखितं भानवमैन्दवं वपुः ।
६२१२-२ तडिदुज्ज्वलदीपलेखया हरितोऽमूः परितो विचिन्वति ।।
६२१३-१ इह समदशकुन्ताक्रान्तवानीरवीरुत्- प्रसवसुरभिशीतस्वच्छतोया वहन्ति ।
६२१३-२ फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ।।
६२१४-१ इह सरसि सलीलं चारुपत्रे विधुन्वन् दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
६२१४-२ अनुसरति सरागः प्रेयसीमग्रयातां अनुपदसमुदञ्चत्कण्ठनालो मरालः ।।
६२१५-१ इह सरसि सहर्षं मञ्जुगुञ्जाभिरामं मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
६२१५-२ अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न निद्रां मालती यावदेषा ।।
६२१६-१ इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः ।
६२१६-२ निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ।।
६२१७-१ इह सामान्यानुगमं समुपदिशन्तः स्थलेष्वनेकेषु ।
६२१७-२ लिङ्गपरामर्शपरा नवीननैयायिका यान्ति ।।
६२१८-१ इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखाग्रलीलया ।
६२१८-२ इति च्छलात्काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत् ।।
६२१९-१ इह हि नववसन्ते मञ्जरीपुञ्जरेणु- च्छुरणधवलदेहा बद्धहेलं सरन्ति ।
६२१९-२ तरलमलिसमूहा हारिहुंकारकण्ठा बहुलपरिमलालीसुन्दरं सिन्दुवारं ।।
६२२०-१ इह हि मधुरगीतं रूपमेतद्रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानां ।
६२२०-२ इति हृतपरमार्थैरिद्रियैर्भ्राम्यमाणः स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ।।
६२२१-१ इहानेके सत्यं वृषमहिषमेषाः सुतुरगा गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः ।
६२२१-२ गजानामास्थानं मदसलिलजम्बालितभुवां तदेको विन्ध्याद्रेर्विपिनमथवा भूपसदनं ।।
६२२२-१ इहानेके सन्तः सततमुपकारिण्युपकृतिं कृतज्ञाः कुर्वन्तो जगति निवसन्तोऽपि सुधियः ।
६२२२-२ कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थं येषां भवति परकृत्यव्यसनिता ।।
६२२३-१ इहाविशद्येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः ।
६२२३-२ सोऽस्याः श्रवःपत्रयुगे प्रणाली- रेखेव धावत्यभिकर्णकूपं ।।
६२२४-१ इहैकश्चूडालोऽभ्यजनि कलशाद्यस्य सकलैः पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः ।
६२२४-२ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरमितः कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः ।।
६२२५-१ इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
६२२५-२ गत्वा निरौषधस्थानं स रोगी किं करिष्यति ।।
६२२६-१ इहैव भुवने जातं सत्त्वसंस्थापनं क्षमं ।
६२२६-२ गृह्यते किमपि स्वस्थैरन्यत्किमपि जिह्मगैः ।।
६२२७-१ इहोद्याने सम्प्रत्यहह परिशिष्टाः क्रमवशादमी वल्मीकास्ते भुजगकुललीलावसतयः ।
६२२७-२ गतास्ते विस्तीर्णस्तबकभरसौरभ्यलहरी- परीतव्य्ॐआनः प्रकृतिगुरवः केऽपि तरवः ।।
६२२८-१ इहोपपत्तिर्मम केन कर्मणा क्व वा प्रयातव्यमितो भवेदिति ।
६२२८-२ विचारणा यस्य न विद्यते स्मृतौ कथं स धर्मप्रवणो भविष्यति ।।
६२२९-१ ईक्षणध्यानसंस्पर्शैर्मत्स्यकूर्मविहङ्गमाः ।
६२२९-२ पोषयन्ति स्वकान्पुत्रान्तद्वत्पण्डितवृत्तयः ।।
६२३०-१ ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवं ।
६२३०-२ कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ।।
६२३१-१ ईदृशं कारयेन्न्यासं येन श्रेयो भविष्यति ।
६२३१-२ अन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ।।
६२३२-१ ईदृशं निगदति प्रिये दृशं संमदात्कियदियं न्यमीलयत् ।
६२३२-२ प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ।।
६२३३-१ ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ।
६२३३-२ को नाम स भवेत्तस्य यमेष न परित्यजेत् ।।
६२३४-१ ईदृशस्य भवतः कथमेतल् लाघवं मुहुरतीव रतेषु ।
६२३४-२ क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वं ।।
६२३५-१ ईदृशे व्यवहाराग्नौ मन्त्रिभिः परिपातिताः ।
६२३५-२ स्थाने खलु महीपाला गच्छन्ति कृपणां दशां ।।
६२३६-१ ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः ।
६२३६-२ अपापानां सहस्राणि हन्यन्ते च हतानि च ।।
६२३७-१ ईप्सितं मनसः सर्वं कस्य संपद्यते सुखं ।
६२३७-२ दैवायत्तं यतः सर्वं तस्मात्संतोषमाश्रयेत् ।।
६२३८-१ ईर्ष्यया रक्षतो नारीर्धिक्कुलस्थितिदाम्भिकान् ।
६२३८-२ स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ।।
६२३९-१ ईर्ष्ययैव समुद्विग्नाः पुरुषाद्दुष्टचेतसः ।
६२३९-२ अतिसक्ताः पलायन्ते श्रीधृतिस्मृतिकीर्तयः ।।
६२४०-१ ईर्ष्या कलहमूलं स्यात्क्षमा मूलं हि संपदां ।
६२४०-२ ईर्ष्यादोषाद्विप्रशापं अवाप जनमेजयः ।।
६२४१-१ ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु ।
६२४१-२ वेश्यासु चैतद्द्वितयं प्ररूढं सर्वस्वमेतास्तदहो स्मरस्य ।।
६२४२-१ ईर्ष्याद्हि कुप्यते वेश्या प्रसङ्गाच्च विरज्यते ।
६२४२-२ स्तब्धातिगमनाच्चापि दानादपि विलुप्यते ।।
६२४३-१ ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितं साधिक्षेपपदा मनागपि गिरो न श्राविता मुग्धया ।
६२४३-२ मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनया काञ्च्या गाढतरावबद्धवसनग्रन्थ्या समावेदितः ।।
६२४४-१ ईर्ष्याभयक्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन ।
६२४४-२ विद्वेषयुक्तेन च सेव्यमानं अन्नं न सम्यक्परिपाकमेति ।।
६२४५-१ ... ... ... ... ... ... ।।
६२४५-२ ईर्ष्यामलं खलेष्वास्ते विषमाशीविषेष्विव ।।
६२४६-१ ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः ।
६२४६-२ च्युतवसनजघनभावन- सान्द्रानन्देन निर्वामि ।।
६२४७-१ ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश्च साहसं ।
६२४७-२ प्रवृत्तिच्छिद्रहेतूनि कार्ये सप्त बुधा जगुः ।।
६२४८-१ ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः ।
६२४८-२ परभाग्योपजीवी च षडेते नित्यदुःखिताः ।।
६२४९-१ ईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः ।
६२४९-२ तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ।।
६२५०-१ ईशानोत्थैः शकुनैश्चोरा ग्रामं प्रविश्य न लभन्ते ।
६२५०-२ न च रोगार्तो जीवति स्वस्थोऽप्यस्वास्थ्यमाप्नोति ।।
६२५१-१ ईशानोत्थैः शकुनैर् विशेषतः शूरमण्डलाक्रान्तैः ।
६२५१-२ रिपुवेष्टित इव दूरं त्यक्त्वा स्थानं पलायेत ।।
६२५२-१ ईशे पदप्रणयभाजि मुहूर्तमात्रं प्राणप्रियेऽपि कुरु मानिनि मा प्रसादं ।
६२५२-२ जानातु मत्पतिरसौ पदयोर्नतानां अस्मादृशामपि मनोरथभङ्गदुःखं ।।
६२५३-१ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
६२५३-२ ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ।।
६२५४-१ ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।
६२५४-२ वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते ।।
६२५५-१ ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः ।
६२५५-२ यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ।।
६२५६-१ स एवाहृदयो राहुरलसः स शनैश्चरः ।
६२५६-२ वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ।।
६२५७-१ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
६२५७-२ भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ।।
६२५८-१ ईश्वरगृहमिदमत्र हि विषं च वृषभश्च भस्म चाद्रियते ।
६२५८-२ यस्तु न विषं न वृषभो न भस्म तस्यात्र का गणना ।।
६२५९-१ ईश्वरपरिग्रहोचित- मोहोऽस्यां मधुप किं मुधा पतसि ।
६२५९-२ कनकाभिधानसारा वीतरसा कितवकलिकेयं ।।
६२६०-१ ईश्वरमाराधयतो विगलितमानस्य लब्धमैश्वर्यं ।
६२६०-२ स्फुटमेव भवति लघिमा गरिमापि कथं न जानीमः ।।
६२६१-१ ईश्वरसेवा सुलभ- न्यक्कारा दुर्लभोत्कर्षा ।
६२६१-२ चिरपरिचर्या विफला निर्माल्या निष्क्रमोऽपि निरयाय ।।
६२६२-१ ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमां ।
६२६२-२ अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ।।
६२६३-१ ईश्वराः पिशुनाञ्शश्वद्बिभ्रतीति किमद्भुतं ।
६२६३-२ प्रायो निधय एवाहीन्द्विजिह्वान्दधतेतरां ।।
६२६४-१ ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
६२६४-२ तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ।।
६२६५-१ ईश्वराणामिदं तन्त्रं प्रायेणौत्सुक्यमावहेत् ।
६२६५-२ यतस्तिरश्चां चरितैर्नीतिमार्गः प्रदर्श्यते ।।
६२६६-१ ईश्वरात्समभूद्रुद्रो ज्योतिर्मय उमापतिः ।
६२६६-२ रुद्राद्विष्णुरभूदाद्यस्त्रैलोक्यपरिपालकः ।।
६२६७-१ ईश्वरानुगृहीतो हि कश्चिद्बालोऽपि शाम्यति ।
६२६७-२ वृद्धोऽपि न शमं याति कश्चित्कापुरुषः पुनः ।।
६२६८-१ ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।
६२६८-२ दरिद्रस्तच्च काकिण्या प्राप्नुयादिति न श्रुतिः ।।
६२६९-१ ईश्वरेण समं प्रीतिर्न मे लक्ष्मण रोचते ।
६२६९-२ गतस्य गौरवं नास्ति आगतस्य धनक्षयः ।।
६२७०-१ ईश्वरोक्ताद्धनुर्वेदाद्व्यासस्यापि सुभाषितात् ।
६२७०-२ पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया ।।
६२७१-१ ईषत्कम्पपयोधरं गुरुकटीप्रौढप्रहाराद्भुतं स्विद्यद्भालमनेकहास्यसरसं संकथ्यपादव्यथं ।
६२७१-२ वारंवारमुरःप्रपातसुभगं संदश्यमानाधरं किंचिद्दत्तनितम्बदेशनखरं धन्यो रतं सेवते ।।
६२७२-१ ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरः सचम्पकैः ।
६२७२-२ कुर्वन्ति नार्योऽपि वसन्तकाले स्तनं सहारं कुसुमैर्मनोहरैः ।।
६२७३-१ ईषत्प्रकटितो मन्दस्तीक्ष्णस्तु पुलकादिभिः ।
६२७३-२ स तु तीक्ष्णतरः श्वासशोषितावयवोऽत्र यः ।।
६२७४-१ ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः ।
६२७४-२ नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ।।
६२७५-१ ईषदायच्छमानोऽपि सिंहो मत्तानपि द्विपान् ।
६२७५-२ निहन्ति बलवांस्तस्मात्संधेयः शिवमिच्छता ।।
६२७६-१ ईषद्वक्रितपक्ष्मपङ्क्तिभिरनाकूतस्मितैर्वीक्षितैः एतैरेव तवाद्य सुन्दरि करक्रोडे जगद्वर्तते ।
६२७६-२ अन्तः पांसुलहेमकेतकिदलद्रोणीदुरापश्रियो दोर्मूलस्य निवेदनादिह पुनः क्रूरे किमाकाङ्क्षसि ।।
६२७७-१ ईषन्नासानिकोचः खरमुखरसुखप्रेक्षणं हासलेशः स्वाबोधादप्रसादध्वननमसदवद्योक्तिहेलावहेला ।
६२७७-२ मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठाद यस्ते सोढव्याः के कियन्तः शिव शिव कविते कुच्छला मत्सराणां ।।
६२७८-१ ईषन्मीलितदृष्टि मुग्धविलसत्सीत्कारधारावशादव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरं ।
६२७८-२ शान्तस्तब्धपयोधरं भृशपरिष्वङ्गात्कुरङ्गीदृशो हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननं ।।
६२७९-१ ईषन्मीलितलोचना श्लथसमस्ताङ्गा श्रमोद्वेजिता निश्वासप्रथमा विरत्नरसना संत्यक्तकण्ठस्वना ।
६२७९-२ प्रोद्यत्कामजला कलासु कुशला निर्लज्जया कामिनी कान्ता कालवशात्प्रियस्य वशगा जाता रतान्ते क्षणं ।।
६२८०-१ ईषन्मीलितलोललोचनयुगं व्यावर्तितभ्रूयुगं संदष्टाधरवेदनाप्रणयिनं मा मेति मन्दाक्षरं ।
६२८०-२ तन्वङ्ग्याः सुरतावसानसमये दृष्टं मया यन्मुखं स्वेदार्द्रीकृतपाण्डुगण्डयुगलं तत्केन विस्मर्यते ।।
६२८१-१ ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारकः ।
६२८१-२ कृतक्षोभो नरीनर्ति खलो मन्थानदण्डवत् ।।
६२८२-१ ईषल्ल्ॐअशभावभाञ्जि कपिशश्यामानुबन्धच्छवी- लिप्तत्वञ्चि चकोरकीरहरितोन्मेषीणि माषीलताः ।
६२८२-२ एतास्तर्कय बालवानरवधूहस्ताङ्गुलीलब्ध्रिम- स्पर्धावन्ति फलानि बिभ्रति परीणामाभिरामश्रियः ।।
६२८३-१ ईहमानः समारम्भान्यदि नासादयेद्धनं ।
६२८३-२ उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ।।
६२८४-१ दानेन भोगी भवति मेधावी वृद्धसेवया ।
६२८४-२ अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ।।
६२८५-१ ईहा धनस्य न सुखा लब्ध्वा चिन्ता च भूयसी ।
६२८५-२ लभ्दनाशो यथा मृत्युर्लभ्दं भवति वा न वा ।।
६२८६-१ उक्तं च वक्ष्यमानं च भर्त्सनं तिर्यगीक्षणं ।
६२८६-२ क्वचिद्यथार्थकथनं व्याख्या तन्त्रस्य षड्विधाः ।।
६२८७-१ उक्तं दुर्वचनं मया न सुभगे हास्येऽपि दुःखप्रदं त्यक्त्वा त्वामपि भाषितैरपि मया नान्या गना लालिता ।
६२८७-२ त्वामेकामनवद्यभूषणभरैः संभावयामि त्वया हे निष्कारणकोपने वद कृतः कोपः किमर्थं मयि ।।
६२८८-१ उक्तं परस्यामिषतां अनुक्तं यात्यदृश्यतां ।
६२८८-२ हृदये शल्यतां धत्ते निधने धनिनां धनं ।।
६२८९-१ उक्तं यत्कृपणं वचो विरचितो भूयान्वसूनां व्ययः सोढाः किं च वियोगवज्रततयो दूती मुहुः प्रेषिता ।
६२८९-२ बद्धोऽयं प्रणयाञ्जलिर्विनिहिते बाष्पाम्बुधौते दृशौ निष्पीयाधरपल्लवं मृगदृशः सर्वे सखे विस्मृतं ।।
६२९०-१ उक्तस्(उत्तस्) ते रुधिरेणाहं स्पृष्टं ते मस्तकं मया ।
६२९०-२ इत्येताञ्शपथान्कृत्वा सा वै गम्या पुनः पुनः ।।
६२९१-१ उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागिक्षते केशांल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः ।
६२९१-२ आलि गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ।।
६२९२-१ दोर्मूलं खलु दर्शयेत्स्तनयुगे वस्त्रं समालम्बते अ गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा ।
६२९२-२ दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयोऽभिलाषः सदा ।।
६२९३-१ उक्ता ब्रवीषि सुरतं न मया निशायास् त्वं दौष्टवेन गजगामिनि लज्जया वा ।
६२९३-२ ताम्बूलकज्जलकुचामयचिह्नचित्रं तत्संनिवेदयति मां रमणोत्तरीयं ।।
६२९४-१ उक्तिर्नान्या स्फुरति नियतं ध्यानमन्यन्न चास्ते पश्यत्यन्यं न खलु नयनं न श्रवोऽपि शृणोति ।
६२९४-२ श्यामं श्यामं पथिषु चकितं रीतिरेतादृशी नो वृन्दारण्ये चिरपरिचिताः के न जीवन्ति नार्यः ।।
६२९५-१ उक्तेन बहुना किं वा किं कृतैः शपथैर्घनैः ।
६२९५-२ वदामि सत्यमेवैतत्त्वमेव मम मानसे ।।
६२९६-१ उक्त्वानृतं भवेद्यत्र प्राणिनां प्राण्रक्षणं ।
६२९६-२ अनृतं तत्र सत्यं स्यात्सत्यमप्यनृतं भवेत् ।।
६२९७-१ कामिनीषु विवाहेषु गवां मुक्तौ तथैव च ।
६२९७-२ ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकं ।।
६२९८-१ उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्य्ॐनि भ्राम्यति दुर्गमं क्षितिभृतां प्राग्भारमारोहति ।
६२९८-२ कीर्णं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते नयनाभिराम कृतकं मन्ये भयं योषितां ।।
६२९९-१ उग्रत्वं च मृदुत्वं च समयं वीक्ष्य संश्रयेत् ।
६२९९-२ अन्धकारमसंहृत्य नोग्रो भवति भास्करः ।।
६३००-१ उग्ररूपं कुचद्वन्द्वं हारग गाधरं तव ।
६३००-२ चन्द्रचूडं करिष्यामि कुरु तावद्दिगम्बरं ।।
६३०१-१ उग्राभिष गमनुष गि परस्य दुःखं हन्ताश्लथं व्यथयति प्रसभार्द्रभावं ।
६३०१-२ बद्धः सरोजकुहरे विरहार्तनादैश्चक्राभिधस्य मधुपोऽधिकमेति दैन्यं ।।
६३०२-१ उग्रावग्राहमग्ना कुशधुवनधुताधोरणास्फालिता गैः प्रत्यग्रोद्दण्डशुण्डोड्डमरणसमरत्रस्तदि ना गचक्रैः ।
६३०२-२ आलोक्यालोक्य शैलानुरुचरणरणच्छृ खलाघट्टयद्भिर् यस्याशाभित्तिजेतुर्मदकलकरिभिः क्वापि न प्रापि र गः ।।
६३०३-१ उग्रैः शापैरुपहतिभिया रक्षसा दूरमुक्ताः दग्धुं योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः ।
६३०३-२ उत्पश्यन्त्यो जनकतनयातेजसैव स्वरक्षां रोधं यस्यामनुविदधते लोकपालावरोधाः ।।
६३०४-१ उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्तितस्करयोः ।
६३०४-२ अवधीरितविधुमण्डल- मुखमण्डलगोपनं किमिति ।।
६३०५-१ उचितं नाम नार ग्यां केतक्यामपि कण्टकाः ।
६३०५-२ रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ।।
६३०६-१ उचितं बन्धनमनयोः कुचयुगयोः केवलं तन्वि ।
६३०६-२ युवजनमानसहाटक- चौरविधौ पश्यतोहरयोः ।।
६३०७-१ उचितः प्रणयो वरं विहन्तं बहवः खण्डनहेतवो हि दृष्टाः ।
६३०७-२ उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ।।
६३०८-१ उचितकर्म तनोति न संपदां इतरदप्यसदेव विवेकिनां ।
६३०८-२ इति निरस्तसमस्तसुखान्वयः कथमतो न विषीदतु पण्डितः ।।
६३०९-१ उचितगुणोत्क्षिप्ता अपि पुरतोऽपि निवेशिते सुवर्णलवे ।
६३०९-२ झगिति पतन्ति मुखेन प्रकटप्रमदा यथा च तुलाः ।।
६३०९आ-१ उचितव्ययशीलस्य कृशत्वमपि शोभते ।
६३०९आ-२ द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ।।
६३१०-१ उचितामुपास्य रुचितां अभिधेहि गिरं निरन्तरावहितः ।
६३१०-२ अप्यायतिमति पुरुषे प्रभुणा कलुषेण भूयते कथिते ।।
६३११-१ उचितेन विचारेण चारुतां यान्ति सूक्तयः ।
६३११-२ वेद्यतत्त्वावबोधेन विद्या इव मनीषिणां ।।
६३१२-१ उच्चं प्रदेशं भषणोऽधिरुह्य भषत्यभीक्ष्णं रविमीक्षमाणः ।
६३१२-२ यदा तदानीमचिरेण वृष्टिर् अम्भोदमुक्ता भवति प्रभूता ।।
६३१३-१ उच्चः सत्फलदो यथायमहमप्येतादृगेतावता स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः ।
६३१३-२ दूरादेव भवादृशोऽस्य महसा ध्वस्ताः समस्ताः स्वयं नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ।।
६३१४-१ उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः ।
६३१४-२ अतिनिम्नमध्यसंक्रम- दारुनिभस्तरुणि तव हारः ।।
६३१५-१ उच्चात्प्रदेशादवतीर्य निम्नं यो याति वामोऽथ सुखप्रदोऽसौ ।
६३१५-२ निम्नप्रदेशात्पुनरुच्चदेशं यक्षो व्रजन्दक्षिणगोऽपि शस्तः ।।
६३१६-१ उच्चारणज्ञोऽथ गिरां दधानं उच्चा रणत्पक्षिगणास्तटीस्तं ।
६३१६-२ उत्कं धरं द्रष्टुमवेक्ष्य शौरिं उत्कं धरं दारुक इत्युवाच ।।
६३१६आ-१ उच्चारूढैर्नरैरात्मा रक्षणीयोऽतियत्नतः ।
६३१६आ-२ दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ।।
६३१७-१ उच्चावचं जगद्दौःस्थ्यं एक एव निषेधति ।
६३१७-२ प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः ।।
६३१८-१ उच्चावचं न कुरुत स्वनितं पत गास् तूर्णं मुखानि पशवो मुकुलीकुरुध्वं ।
६३१८-२ कर्णं प्रदाय रसिकाः कलयन्तु हर्षं तारं तनोति रणितं तरुणः पिकोऽयं ।।
६३१९-१ उच्चावचकरान्याय्याः पूर्वराज्ञां युधिष्ठिर ।
६३१९-२ यथा यथा न हीयेरंस्तथा कुर्यान्महीमतिः ।।
६३२०-१ उच्चावचानि जननानि भवन्ति यावथ्कर्माणि तावदखिलानि लयं न यान्ति ।
६३२०-२ तत्कर्ममूलहननाय यतध्वमार्या यावच्छिरो न विरमेज्जलबन्धरोगः ।।
६३२१-१ उच्चासनगतो नीचः नीच एव न चोत्तमः ।
६३२१-२ प्रसादशिखरस्थोऽपि काकः किं गरुडायते ।।
६३२२-१ उच्चित्यं प्रथममधः स्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा ।
६३२२-२ आरोढुं चरणमदादशोकयष्टेर् आमूलं पुनरपि तेन पुष्पितोऽसौ ।।
६३२३-१ उच्चीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघं ।
६३२३-२ अत्यूर्ज्जितं गर्ज्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस्तु दूरे ।।
६३२४-१ उच्चीयन्ते स्म वेश्मन्यशनविरहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचञ्चुकोटिच्युतानि ।
६३२४-२ यस्मिन्दातर्यकस्माच्चटुलवटुकराकृष्टमुक्तावचूल- भ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं घूर्णिता मुक्तिकौघाः ।।
६३२५-१ उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुश्चित्रपाकानुभावी ।
६३२५-२ कोषापेक्षी परस्मादुचितबहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस्तत्र कम्पं प्रतीमः ।।
६३२६-१ उच्चैः कुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः ।
६३२६-२ शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ।।
६३२७-१ उच्चैः पदमधितिष्ठंल् लोकस्तत्त्वेषु मुह्यति प्रायः ।
६३२७-२ विषयमपि पश्यति समं पर्वतशिखराग्रमारूढः ।।
६३२८-१ उच्चैः प्रकथनं हासः ष्ठीवनं कुत्सनं तथा ।
६३२८-२ जृम्भणं गात्रभ गं च पर्वस्फोटं च वर्जयेत् ।।
६३२९-१ उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं गात्रास्फोटनजृम्भणानि सुलभद्रव्यार्थसंप्रार्थनं ।
६३२९-२ बालालि गनचुम्बनान्यभिमुखे सख्याः समालोकनं दृक्पातश्च परा मुखो गुणकथा कर्णस्य कण्डूयनं ।।
६३३०-१ उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।
६३३०-२ यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ।।
६३३१-१ उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः ।
६३३१-२ सत्सुभाषितसोपानसेविनः सन्तु साधवः ।।
६३३२-१ उच्चैरध्ययनं चिरंतनकथाः स्त्रीभिः सहालापनं तासामर्भकलालने रतिरथो तत्पाकमिथ्यास्तुतिः ।
६३३२-२ पुत्रभ्रातृजनाशिषः सुभगतायोग्यत्वसंकीर्तनं स्वानुष्ठानकथाभिवादनविधिर्भिक्षोगुणा द्वादश ।।
६३३३-१ उच्चैरध्ययनं पुरातनकथाः स्त्रीभिः सहालापनं तासामर्भकलालनं पतिनुतिस्तत्पाकमिथ्यास्तुतिः ।
६३३३-२ आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागारुडमन्त्रतन्त्रकविधिर्भिक्षोगुणा द्वादश ।।
६३३४-१ उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य ।
६३३४-२ दिग्व्यापिनि शब्दगुणे श खः संभावना भूमिः ।।
६३३४आ-१ उच्चैरुच्चरितव्यं यत्किंचिदजानतापि पुरुषेण ।
६३३४आ-२ मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ।।
६३३५-१ उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
६३३५-२ देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ।।
६३३६-१ उच्चैरुच्चैस्तरामिच्छन्पदान्यायच्छते महान् ।
६३३६-२ नीचो नीचैस्तरां याति निपातभयश कया ।।
६३३७-१ उच्चैरुड्डीयमाना नतिमन्ते वहति या तु गच्छन्ती ।
६३३७-२ यच्चिरलभ्यमथाल्पं तत्सा बहु यच्छति त्वरितं ।।
६३३८-१ उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपात- स्फारोदञ्चत्पयोधिप्रकटितमकुटस्वर्धुनीसंगमानि ।
६३३८-२ जीयासुस्ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि- भ्रश्यन्नक्षत्रचक्रव्यवहितसुमनोवृष्टिपातानि शंभोः ।।
६३३९-१ उच्चैरुत्तालगण्डस्थलबहुलगलद्दानपानप्रमत्त- स्फीतालिव्रातगीतिश्रुतिविधृतिकलोन्मीलितार्धाक्षि पक्ष्मा ।
६३३९-२ भक्तप्रत्यूहपृथ्वीरुहनिवहसमुन्मूलनोच्चैरुदञ्चच्- छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स पायादपायात् ।।
६३४०-१ उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितः ।
६३४०-२ पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यतां ।।
६३४१-१ उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा लक्ष्मीमस्य निरस्यतो जलनिधेर्जातं किमेतावता ।
६३४१-२ गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान् मर्यादां किमयं भिनत्ति किमयं न त्रायते वाडवं ।।
६३४२-१ उच्चैरेष तरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः पक्वं शालिवनं विहाय जडधीस्तां नालिकेरीं गतः ।
६३४२-२ तामारुह्य बुभुक्षितेन मनसा बुद्धिः कृता भेदने आशा तस्य न केवलं विगलिता चञ्चूर्गता चूर्णतां ।।
६३४३-१ उच्चैर्दैवादिह पशुपतौ भूषणीभूय तिष्ठन् कालव्याल प्रथयसि फणां भीषणां तावदेव ।
६३४३-२ देवे दूरादविनयभयाद्यावदेवं गरुत्मान् कोपाटोपं कथमपि तिरोभावयन्मौनमास्ते ।।
६३४४-१ उच्चैर्निषादगान्धारौ नीचैरृषभधैवतौ ।
६३४४-२ शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ।।
६३४५-१ उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः प्रे खन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरा मः ।
६३४५-२ देवः शंबोरपत्यं भुजगपतितनुस्पर्द्धिवर्द्धिष्णुहस्तस् त्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः ।।
६३४६-१ उच्चैर्महारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
६३४६-२ अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलां ।।
६३४७-१ उच्चैर्यद्यस्ति मनः किं विपदा संपदा गन्त्री ।
६३४७-२ पुरुषस्य मनसि भग्ने मग्नेवापत्सु लक्ष्यते लक्ष्मीः ।।
६३४८-१ उच्चैर्यो मधुपानलुब्धमनसां भृ गा गनानां गणैर् उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः ।
६३४८-२ आसीद्यश्च निषेवितोऽध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे सोऽयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना ।।
६३४९-१ उच्चैस्तनन्तमभिगम्य घनं तवाहं अभ्यागतोऽस्म्यतिथिरेष पयोधरार्थी ।
६३४९-२ वक्तुं त्रपा तदपि वच्मि विदूरबन्धोः काठिन्यमस्ति च पयोधरयोर्ममापि ।।
६३५०-१ उच्चैस्तरां मत्सरिणोऽपि लोकाः कुर्वन्ति संसत्सु पुरः प्रशंसां ।
६३५०-२ न पण्डितर्विश्वसितव्यमत्र तत्सौहृदं यत्क्रियते परोक्षं ।।
६३५१-१ उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः ।
६३५१-२ तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ।।
६३५२-१ उच्चौ कुचौ कृशतरा च कटिर्गभीरो नाभिः समुन्नततरं च नितम्बबिम्बं ।
६३५२-२ निम्नोन्नतेति सुदृशः सुभगे शरीरे मग्नं मनो मम न मां पुनरभ्युपैति ।।
६३५३-१ उच्छन्नेव कलौ वृषस्य चरणश्रेणी नवीनां पुनस् तां निर्माय कृतस्त्वया पुनरपि न्यस्तः पदस्यन्दनः ।
६३५३-२ भिन्दानैस्तरणिं त्वदस्त्रनियतैरेतत्किलोदीरितं श्रुत्वानूरुरसौ विहाय मिहिरं त्वां देव सेविष्यते ।।
६३५४-१ उच्छलन्मत्स्यपुच्छाग्रदण्डपातहतार्णसि ।
६३५४-२ जगदुद्यानमम्भोधावुन्ममज्ज ममज्ज च ।।
६३५५-१ उच्छास्त्रपदविन्यासः सहसैवाभिसंपतः ।
६३५५-२ शत्रुख गमुखग्रासं अगत्वा न निवर्तते ।।
६३५६-१ उच्छिद्यते धर्मवृत्तं अधर्मो वर्तते महान् ।
६३५६-२ भयमाहुर्दिवारात्रं यदा पापो न वार्यते ।।
६३५७-१ उच्छिद्राणि दिगम्बरस्य वसनान्यर्धा गिनस्स्वामिनो रत्नालंकृतिभिर्विशोषितवपुःशोभाशतं सुभ्रुवः ।
६३५७-२ पौराढ्याश्च पुरीः श्मशानवसतेर्भिक्षाभुजोऽप्यक्षमा लक्ष्मीं न व्यतनोद्दरिद्रभरणेष्वज्ञो हि सेनान्वयः ।।
६३५८-१ उच्छिन्नाश्रयकातरेव कुलटा गोत्रान्तरं श्रीर्गता तामेवानुगता गतानुगतिकास्त्यक्तानुरागाः प्रजाः ।
६३५८-२ आप्तैरप्यनवाप्तपौरुषफलैः कार्यस्य धूरुज्झिता किं कुर्वन्त्वथवोत्तमा गरहितैर गैरिव स्थीयते ।।
६३५९-१ उच्छिष्टं करखर्परं पथि गतं मूर्खैर्जडैर्धिक्कृतं विप्रैस्तत्त्वविचिन्तकैर्मनसि तं स्वात्मप्रबोधे कृतं ।
६३५९-२ नृत्यन्तं च दिगम्बरं च जटिलं बालैश्च मुक्तं जडं डिम्भश्चोपहसन्ति चत्वरपथे दत्त्वा मुहुस्तालिकाः ।।
६३६०-१ उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटं ।
६३६०-२ काकविष्ठासमुत्पन्नाः पञ्चैतेऽतिपवित्रकाः ।।
६३६१-१ उच्छिष्टो न स्पृशेत्ख गं निशिकुर्यान्न शीर्षके ।
६३६१-२ दिवा च पूजयेदेनं गन्धमाल्यादिसंपदा ।।
६३६२-१ उच्छीर्षे पदकं कृत्वा यदि शेते शुनस्तदा ।
६३६२-२ आगच्छद्वल्लभं वक्ति तद्वेश्मन्यचिरादपि ।।
६३६३-१ उच्छूनारुणमश्रुणिर्गमवशाच्चक्षुर्मना मन्थरं सोष्मश्वासकदर्थिताधररुचिर्व्यस्तालका भ्रूभुवः ।
६३६३-२ आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा ।।
६३६४-१ उच्छृ कलेन निरपेक्षतयोन्मदेन येनाकुलीकृतमिदं करिणा बभूव ।
६३६४-२ दत्त्वा पदं शिरसि हस्तिपकार्भकेण मन्दः कथं गमित एष वशं प्रसह्य ।।
६३६५-१ उच्छेदनं चापचयः पीडनं कर्शनं तथा ।
६३६५-२ इति विद्याविदः प्राहुः शत्रौ वृत्तं चतुर्विधं ।।
६३६६-१ उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा ।
६३६६-२ गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ।।
६३६७-१ उच्छ्मश्रुर्व्यात्तवक्त्रः प्रविततरसनापल्लवालीढसृक्का पि गोग्रभ्रान्तनेत्रः पुलकिततरलोत्तानला गूलनालः ।
६३६७-२ कुत्राप्यक्लान्तिगामी क्वचिदतिपिहितः क्वापि तु गाग्रमात्रश्चित्रव्याघ्रोऽयमाप्तुं प्रमदवनमृगीतर्णकांस्तूर्णमेति ।।
६३६८-१ उच्छ्रायो जनभीति हेतुरधिकं वैकृत्यमुद्ग्रीवता सर्वत्र प्रतिपर्वविक्रमभवः क्रूरो मरुर्जन्मभूः ।
६३६८-२ यस्योच्चैः कटुकण्टकप्रणयिता धिक्कष्टमुष्ट्रे पशौ तस्मिन्राजपरिग्रहः स च महाशब्दद्वयीभाजनं ।।
६३६९-१ उच्छ्वसन्मण्दलप्रान्तरेखमाबद्धकुड्मलं ।
६३६९-२ अपर्याप्तमुरो वृद्धेः शंसत्यस्याः स्तनद्वयं ।।
६३७०-१ उच्छ्वासः खण्डखण्डस्तरलितहृदये मूकतां भूषणानां उक्तिप्रत्युक्तिबन्धोऽप्यभिनयविहितः पांसुला भूः सुशय्या ।
६३७०-२ तूष्णीमेव प्रसादानुनयनकलहाश्चुम्बनं शब्दशून्यं यत्रैतत्स्वस्ति तस्मै निभृतनिधुवनायेति नान्दी नमोऽस्तु ।।
६३७१-१ उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कन्दर्पसमाकुलानि ।
६३७१-२ समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः ।।
६३७२-१ उच्छ्वासहिक्काशयना गभ ग- विष्ठावमिश्वासविजृम्भणानि ।
६३७२-२ वक्त्रं शुनोऽर्धोन्मिषितां च दृष्टिं द्युते प्रशंसन्ति च वामचेष्टं ।।
६३७३-१ उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः ।
६३७३-२ समीरणाच्चलं नास्ति यत्प्राणिति तदद्भुतं ।।
६३७४-१ उच्छ्वासोऽपि न निर्याति बाणे हृदयवर्तिनि ।
६३७४-२ किं पुनर्विकटाटोप पदबन्धा सरस्वती ।।
६३७५-१ उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।
६३७५-२ आनयैनमनुनीय, कथं वा विप्रियाणि जनयन्ननुनेयः ।।
६३७६-१ उच्यमानोऽवलम्बेत परमर्मणि मूकतां ।
६३७६-२ स्वकर्मणि तु बाधिर्यस्थैर्यमाधुर्यसोष्मवान् ।।
६३७७-१ उज्जागरितभ्रामित- दन्तुरदलरुद्धमधुकरप्रकरे ।
६३७७-२ काञ्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ।।
६३७८-१ उज्जाडिते यदा ग्रामे गच्छतां दक्षिणस्वराः ।
६३७८-२ श्र्गालास्तं पुनः स्थानं कथयन्ति करस्थितं ।।
६३७९-१ उज्जृम्भते कुमुदिनीसुकृतं मृगा को विष्वग्विकीर्णपरिपाटलरश्मिदण्डः ।
६३७९-२ उत्सूतविद्रुमकुलो जलधेस्तर गादुत्क्षिप्यमाण इव कश्चन राजकम्बुः ।।
६३८०-१ उज्जृम्भाननमुल्लसत्कुचतटं लोलद्भ्रमद्भ्रूलतं स्वेदाम्भःस्नपिता गयष्टि विगलद्व्रीडं सर्ॐआञ्चया ।
६३८०-२ धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः सांप्रतं मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ।।
६३८१-१ उज्ज्वलं सरलं चैव वक्रमारक्तमेव च ।
६३८१-२ नेत्रं चतुर्विधं प्रोक्तं तस्य भावाः पृथक्पृथक् ।।
६३८२-१ उज्ज्वलं मित्रसंयोगे सरलं पुत्रदर्शने ।
६३८२-२ वक्रं च कामिनीभोगे आरक्तं शत्रुदर्शने ।।
६३८३-१ उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते ।
६३८३-२ दग्ध्वा तनुमपि शलभो दीप्रं दीपार्चिषं हरति ।।
६३८४-१ उज्ज्वलचम्पकमुकुला- श कितया यः प्रदीपकं स्पृशति ।
६३८४-२ कज्जलकल कदाहं मुक्त्वान्यत्तस्य किं घटतां ।।
६३८५-१ उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
६३८५-२ मलीमसमुखी वर्तिः प्रदीपशिखया यथा ।।
६३८६-१ उज्झती शुचिमिवाशु तमिस्रां अन्तिकं व्रजति तारकराजे ।
६३८६-२ दिक्प्रसादगुणमण्डनमूहे रश्मिहासविशदं मुखमैन्द्री ।।
६३८७-१ उज्झन्त्यः स्वर्णकाञ्चीर्झणिति रशनया चम्पकन्यासमय्या तन्वत्यस्तारहारान्विचकिलकलिकापंक्तिमुद्रावलीभिः ।
६३८७-२ किं चाशोकप्रवालैररुणमणिमयान्संत्यजन्त्योऽवतंसान् उत्कीर्णाः कामबाणैरिव हृदि सुहृदो वल्लभानां बभूवुः ।।
६३८८-१ उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।
६३८८-२ कृष्णौकाभिरता अपि हिरण्यकशिपुप्रियाः सततं ।।
६३८९-१ उज्झितसौभाग्यमद- स्फुटयाच्ञान गभीतयोर्यूनोः ।
६३८९-२ अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्थी ।।
६३९०-१ उज्झिताहमिति वत्स न दूये राघवेण कुलदूषणभीत्या ।
६३९०-२ का त्वमित्यभिहिते बत वन्यान् श्रावये किमिति मुह्यति चेतः ।।
६३९१-१ उज्झित्वा दिशमम्बरं वरतरं वासो वसानश्चिरं हित्वा वासरसं पुनः पितृवने कैलासहर्म्याश्रयः ।
६३९१-२ त्यक्त्वा भस्म कृता गरागनिचयः श्रीखण्डसारद्रवैर् देवः पातु हिमाद्रिजापरिणयं कृत्वा गृहस्थः शिवः ।।
६३९२-१ उडुगणपरिवारो नायकोऽप्यौषधीनां अयममृतशरीरः कान्तियुक्तोऽपि चन्द्रः ।
६३९२-२ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ।।
६३९३-१ उडुपरिवृढः पत्या मुक्तामयं यदपीडयद्यदपि बिसिनीं भानोर्जायां जहास कुमुद्वती ।
६३९३-२ तदुभय मतः श के स कोचितं निजश कया प्रसरति नवार्के कर्कन्धूफलारुणरोचषि ।।
६३९४-१ उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचीगणः ।
६३९४-२ स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन- च्छवि यदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतं ।।
६३९५-१ उडुराजमुखी मृगराजकटिर् गजराजविराजितमन्दगतिः ।
६३९५-२ यदि सा वनिता हृदये निहिता क्व जपः क्व तपः क्व समाधिरतिः ।।
६३९६-१ उड्डायितः पूर्वदिशा क्रमेण प्रकाशर गः पृथुलः पतण्गः ।
६३९६-२ पारे वियद्विच्युतरश्मिरर्वाक् पतन्निदानीं क्षपितोऽस्तशैले ।।
६३९७-१ उड्डीनं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुप कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितं ।
६३९७-२ तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ।।
६३९८-१ उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः पर्यस्ताः परितो यशस्तबकिताः संपल्लतापल्लवाः ।
६३९८-२ प्रागेवापसृतः प्रमोदहरिणश्च्छाया कथान्तं गता दैवारण्यमत गजेन बलिना भग्नेऽभिमानद्रुमे ।।
६३९९-१ उड्डीनानामेषां प्रासादात्तरुणि पक्षिणां प क्तिः ।
६३९९-२ विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ।।
६४००-१ उड्डीयागतमिन्दुमण्डलमिदं किं खञ्जरीटद्वयं हित्वा कोरकतां विकस्वरतरे याते किमिन्दीवरे ।
६४००-२ इन्दोर्बिम्बमवाप्य जातरभसौ किं वा चकोराविमाव् आं ज्ञातं शफरीविलासपटुनी नेत्रे कुर गीदृशः ।।
६४०१-१ उड्डीयाणं तु सहजं कथितं गुरुणा सदा ।
६४०१-२ अभ्यसेदस्ततन्द्रस्तु वृद्धोऽपि तरुणो भवेत् ।।
६४०२-१ उड्डीयोर्ध्वं गमने निपत्यवचना वधोन्मुखी शकुनिः ।
६४०२-२ वामे यातुर्निधनं दिशति विपक्षे विपक्षस्य ।।
६४०२आ-१ उत वा तृणवान्मार्गः समो गम्यः प्रशस्यते ।
६४०२आ-२ सुशोध्यस्त्रिविधो मार्गः षड्विधं च स्वकं बलं ।।
६४०३-१ उत्कटकण्टककोटी- घर्षणघृष्टानि हृदि न चिन्तयति ।
६४०३-२ असदृशरसविवशमतिर् विशत्यलिः केतकीकुसुमं ।।
६४०४-१ उत्कण्ठयति मेघानां माला वृन्दं कलापिनां ।
६४०४-२ यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः ।।
६४०५-१ उत्कण्ठाकुलचक्रवाकयुवतीनिःश्वासदण्डाहतः पीयूषद्युतिरच्छदर्पणतुलामारोहति प्रस्थितः ।
६४०५-२ कोकानां कृपयेव कुक्कुटरवैराहूयमाने रवौ दिग्जाता नवधौतविद्रुममणिच्छाया च सौत्रामणी ।।
६४०६-१ उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलास्वादेषु का वा क्षतिः ।
६४०६-२ एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः ।।
६४०७-१ उत्कण्ठित मनो बाला सुदूरस्था नवं वयः ।
६४०७-२ विधिर्वामो रिपुः कामो हा हा दुःखपरम्परा ।।
६४०८-१ उत्कण्ठितस्य हृदयानुगुणा वयस्या संकेतके चिरयति प्रवरो विनोदः ।
६४०८-२ संस्थापना प्रियतमा विरहातुराणां रक्तस्य रागपरिवृद्धिकरः प्रमोदः ।।
६४०९-१ उत्कण्ठितस्य हृदयानुगता सखीव संकीर्णदोषरहिता विषयेषु गोष्ठी ।
६४०९-२ क्रीडारसेषु मदनव्यसनेषु कान्ता स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ।।
६४१०-१ उत्कम्पघर्मपिच्छिल- दोःसाधिकहस्तविच्युतश्चौरः ।
६४१०-२ शिवमाशास्ते सुतनु स्तनयोस्तव पञ्चलाञ्चलयोः ।।
६४११-१ उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती ।
६४११-२ क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ।।
६४१२-१ उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्यनिभृतं बाष्पोऽपि बाष्पायते ।
६४१२-२ कान्तां संस्मरतो विदेशवसतेर्नक्तं दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात् ।।
६४१३-१ उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो गात्रं सीदति चक्षुरश्रुकलुषं चिन्ता मुखं शुष्यति ।
६४१३-२ यस्यैषा सखि पूर्वर गरचना मानः स मुक्तो मया वन्स्यास्ता अपि योषितः क्षितितले यासामयं संमतः ।।
६४१४-१ उत्कर्णं करिणां गणेन विकसन्मोदं चिराद्बर्हिभिः क्रीडाकेशरिभिश्च पञ्जरगतैः कोपस्फुरल्लोचनं ।
६४१४-२ कुञ्जोत्स गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणाथ्पीतः श्रोत्रपुटेन देव परितः प्रातर्मृद गध्वनिः ।।
६४१५-१ उत्कर्णोऽयमकाण्डचण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्रविकटस्तब्धोर्ध्वला गूलभृत् ।
६४१५-२ चित्रेणापि न शक्यतेऽभिलिखितुं सर्वा गसंकोचनाछ्चीत्कुर्वद्गिरिकुञ्जकुञ्जरशिरः कुम्भस्थलस्थो हरिः ।।
६४१६-१ उत्कर्तितुं समर्थोऽपि गन्तुं चैव सपक्षकः ।
६४१६-२ द्विरेफो गन्धलोभेन कमले याति बन्धनं ।।
६४१७-१ उत्कर्षवान्निजगुणो यथा यथा याति कर्णमन्यस्य ।
६४१७-२ धनुरिव सुवंशजन्मा तथा तथा सज्जनो नमति ।।
६४१८-१ उत्कर्षो नैव नित्यः स्यान्नापकर्षस्तथैव च ।
६४१८-२ प्राक्कर्मवशतो नित्यं सधनो निर्धनो भवेत् ।।
६४१९-१ उत्कलिकाबाहुल्यं तत्तत्स्वाभाविकं द्रवत्वं च ।
६४१९-२ स च निरुपाधिस्नेहस् तेनेशस्य प्रिया ग गा ।।
६४२०-१ उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर्लम्भितः क्षीरसिन्धोः को विन्ध्यः कश्च गौरीगुरुरिति मरुतामभ्युदस्तो विवेकः ।
६४२०-२ नीताः कर्कत्वमर्कप्रवहणहरयो हारितोत्स गलक्ष्मा राजन्नुद्दामगौरैरजनि च रजनीवल्लभस्त्वद्यशोभिः ।।
६४२१-१ उत्कामुन्मनयन्त्येते बालां तदलकत्विषः ।
६४२१-२ अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ।।
६४२२-१ उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो धूपैर्जालविनिःसृतैर्वलभयः संदिग्धपारावताः ।
६४२२-२ आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः संध्याम गलदीपिका विभजते शुद्धान्तवृद्धो जनः ।।
६४२३-१ उत्कूजति भ्रमति रोदिति रारटीति पद्मानि चोत्क्षिपति चञ्चुपुटेन दूरं ।
६४२३-२ तोये निमज्जति शशा कमुदीक्षते च कष्टं प्रियाविरहितो निशि चक्रवाकः ।।
६४२४-१ उत्कूजति श्वसिति मुह्यति याति तीरं तीरात्तरुं तरुतलात्पुनरेति वापीं ।
६४२४-२ वाप्यां न तिष्ठति न चाति मृणालखण्डं चक्रः क्षपासु विरहे खलु चक्रवाक्याः ।।
६४२५-१ उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि क्रांकुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले ।
६४२५-२ सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटव- क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ।।
६४२६-१ उत्कृत्य ज्वलितात्शवात्कथमपि प्रेताशनः पैशितीं पेशीमग्निमयीं निगीर्य सहसा दन्दह्यमानोदरः ।
६४२६-२ धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति संपिनष्टि जठरं मुष्ट्या हते मस्तकं ।।
६४२७-१ उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसान्य अंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
६४२७-२ आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतर कः कर काद कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।।
६४२८-१ उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषादुद्दामस्यैकविंशत्यवधि विधसतः सर्वतो राजवंश्यान् ।
६४२८-२ पित्र्यं तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमान- क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ।।
६४२९-१ उत्कृष्टबलवीर्यस्य विजिगीषोर्जयैषिणः ।
६४२९-२ गुणानुरक्तप्रकृतेर्यात्रा यानमिति स्मृतं ।।
६४३०-१ उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री यद्वच्छिलासु सिकतासु जलेषु रेखा ।
६४३०-२ वैरं क्रमादधममध्यमसज्जनेषु यद्वच्छिलासु सिकतासु जलेषु रेखा ।।
६४३१-१ उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितं ।
६४३१-२ कामिनीं प्रथमावस्थां सद्यो गृह्णाति बुद्धिमान् ।।
६४३२-१ उत्कोचकाश्चौपधिका वञ्चकाः कितवास्तथा ।
६४३२-२ म गलादेशवृत्ताश्च भद्रप्रेक्षणिकैः सह ।।
६४३३-१ असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः ।
६४३३-२ शिल्पोपचारयुक्ताश्च निपुणाः पुण्ययोषितः ।।
६४३४-१ एवमाद्यान्विजानीयात्प्रकाशांल्लोककण्टकान् ।
६४३४-२ विगूढचारिणश्चान्याननार्यानार्यलि गिनः ।।
६४३५-१ उत्कोचपारितोषक- भाटसुभाषिततरार्थचौर्यांशाः ।
६४३५-२ तत्क्षणमेव ग्राह्याः षडन्यकाले न लभ्यन्ते ।।
६४३६-१ उत्क्रान्तं गिरिकूटल घनसहं ते वज्रसारा नखास् तत्तेजश्च तदूर्जितं स च नगोन्माथी निनादो महान् ।
६४३६-२ आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुना सर्वं विश्वजयैकसाधनमिदं लब्धं न किंचित्कृतं ।।
६४३७-१ उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः ।
६४३७-२ मूर्ताः प्राणा नूनमद्याप्यवेक्षा- मासुः कायं त्याजिता दारुणास्त्रैः ।।
६४३८-१ उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः ।
६४३८-२ चिन्तयेन्मनसा ग गां स गतिं परमां लभेत् ।।
६४३९-१ उत्क्षिप्तं करक कणद्वयमिदं बद्धा दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता ।
६४३९-२ आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ।।
६४४०-१ उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं काञ्चीदाम निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे ।
६४४०-२ सुप्ताः पञ्जरसारिकाः परिजनोऽप्याघूर्णितो निद्रया शून्यो राजपथस्तमांसि निविडान्येह्येहि निर्गम्यतां ।।
६४४१-१ उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितं भूपानां जनकस्य संशयधिया सार्धं समास्फालितं ।
६४४१-२ वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गव- प्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ।।
६४४२-१ उत्क्षिप्तबाहुदर्शित- भुजमूलं चूतमुकुल मम सख्या ।
६४४२-२ आकृष्यमाण राजति भवतः परमुच्चपदलाभः ।।
६४४३-१ उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैर् उत्तम्भितोडुभिरतीवतरां शिरोभिः ।
६४४३-२ श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षं ।।
६४४४-१ उत्क्षिप्ता अपि दन्तीद्रैः कोपनैः पत्तयः परं ।
६४४४-२ तदसूनहरन्खड्गघातैः स्वस्य पुरः प्रभोः ।।
६४४५-१ उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि ।
६४४५-२ प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही ।।
६४४६-१ उत्क्षिप्य टिट्टिभः पादावास्ते भ गभयाद्दिवः ।
६४४६-२ स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ।।
६४४७-१ उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद्विश्लिष्यद्वलयप्रपातभयतः प्रोल्लास्य किंचित्करौ ।
६४४७-२ द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना मार्गालोकनदत्तदृष्टिरबला तत्कालमालि ग्यते ।।
६४४८-१ उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यां ईषादन्तः कुञ्जरं शात्रवीयं ।
६४४८-२ शृ गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ।।
६४४९-१ उत्खातं निधिश कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितांपतिर्नृपतयो यत्नेन संसेविताः ।
६४४९-२ मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मा भव ।।
६४५०-१ उत्खातच्छिन्नसंध्यारुणकमलवनो व्य्ॐअकासारमध्यं मन्ये मत्तो निशीथाह्वयवनमहिषो म क्ष्वविक्षन्मिम क्षुः ।
६४५०-२ तत्कालोद्भिद्यमानः सह तनुपृथुभिस्तारकाबुद्बुदौघैस् तस्मादेवोज्जिहीते कलुषितभुवनं भीषणो ध्वान्तप कः ।।
६४५१-१ उत्खातदैवतमिवायतनं पुरारेर् अस्ताचलान्तरितसूर्यमिवान्तरिक्षं ।
६४५१-२ हम्मीरभूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्नशून्यं ।।
६४५२-१ उत्खातान्प्रतिरोपयन्कुसुमितांश्चिन्वंल्लघून्वर्धयन् अत्युच्चान्नमयन्पृथून्विदलयन्विश्लेषयन्संहतान् ।
६४५२-२ तीक्ष्नान्कण्टकिनो बहिर्नियमयन्स्वारोपितान्पालयन् मालाकार इव प्रयोगकुशलो राज्ये चिरं तिष्ठति ।।
६४५३-१ उत्खाय चित्तोपवनात्सुमेधो- माला कृता पुस्तकनिष्कुटेषु ।
६४५३-२ काव्यद्रुमाणामधिरोपितानां फलं परां निर्वृतिमुन्नयामः ।।
६४५४-१ उत्खेलत्त्रिवलीतर गतरला र्ॐआवलीशैवल- स्त्रग्वल्लिर्युवती ध्रुवं जनमनोनिर्वाणवाराणसी ।
६४५४-२ एतस्या यदुरस्तटीपरिसरे यद्बाल्यचापल्ययोः स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते ।।
६४५५-१ उत्तंसः केकिपिच्छैर्मरकतवलयश्यामले दोःप्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृगमदरचितो वक्त्रपत्रप्रपञ्चः ।
६४५५-२ नीलाब्जैः शेखरश्रीरसितवसनता चेत्यभीकाभिसारे संप्रत्येणेक्षणानां तिमिरभरसखी वर्तते वेषलीला ।।
६४५६-१ उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य न नखैरपि पल्लवानि ।
६४५६-२ उद्यानमण्डनतरो सहकार स त्वं अ गारकारकरगोचरतां गतोऽसि ।।
६४५७-१ उत्तंसितं भाति मुखप्रभाभिर् न किंचिदब्जं यदहो तदस्याः ।
६४५७-२ युक्तं दृशावेव विधिर्विधिज्ञः कर्णद्वयालंकरणं चकार ।।
६४५८-१ उत्तंसीकृतचन्द्रमाः सभुजगान्वीचीन्परावर्तयन् ज्योत्स्नाभस्मविलेपने निरवधिस्फीते महिम्नि स्थितः ।
६४५८-२ प्रे कच्छ करोटिकोटिहननैः स्वःसिन्धुमुद्घोषयन्न् अत्यन्तं पथि गर्जिताट्टहसितो रुद्रं हसत्यर्णवः ।।
६४५९-१ उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः साका क्षं लुठितो न च स्तनतटे लीलावतीनां क्वचित् ।
६४५९-२ कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद्विशीर्णोऽभवथ्खेलद्व्यालकुला गघर्षणपरिक्षीणप्रमाणो मणिः ।।
६४६०-१ उत्तप्तोऽयमुरंगमः शिखितलच्छायां समालम्बते वैरं साहजिकं विहाय च शिखी मूलं तरोर्गच्छति ।
६४६०-२ याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिकास् तप्ते वारिणि प कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः ।।
६४६१-१ उत्तमं पुष्करक्षेत्रं ताराक्षेत्रं न मध्यमं ।
६४६१-२ अधमं च कुरुक्षेत्रं प्रभासं त्वधमाधमं ।।
६४६२-१ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ।।
६४६३-१ उत्तमं सुचिरं नैव विपदोऽभिभवन्त्यलं ।
६४६३-२ राहुग्रसनसंभूतिः क्षणं विच्छाययेद्विधुं ।।
६४६४-१ उत्तमं स्वार्जितं वित्तं मध्यमं पितुरर्जितं ।
६४६४-२ अधमं भ्रातृवित्तं च स्त्रीवित्तमधमाधमं ।।
६४६५-१ उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः ।
६४६५-२ मणिरेव महाशाणघर्षणं न तु मृत्कणः ।।
६४६६-१ उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चभिस्तथा ।
६४६६-२ कनिष्ठस्तु चतुर्भिः स्यादेवं स्युर्ध्रुवकास्त्रिधा ।।
६४६७-१ उत्तमकुलेऽपि जातः सेवां विदधाति नीचलोकस्य ।
६४६७-२ वदति च वाचं नीचां उदरेश्वरपीडितो मर्त्यः ।।
६४६८-१ उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।
६४६८-२ स्फुटसंनिहितविभावो निवार्यते केन शृ गारः ।।
६४६९-१ उत्तमपदार्थरसिकाः सुलभा लोके भवन्ति सर्वेऽपि ।
६४६९-२ दूषितपदार्थरसिकस् त्वमिव मतस्त्वं पुनः करट ।।
६४७०-१ उत्तमभुजंगसंगम- निस्पन्दनितम्बचापलस्तस्याः ।
६४७०-२ मन्दरगिरिरिव विबुधैर् इतस्ततः कृष्यते कायः ।।
६४७१-१ उत्तमर्णधनदानश कया पावकोत्थशिखया हृदिस्थया ।
६४७१-२ देव दग्धवसना सरस्वती नास्यतो बहिरुपैति लज्जया ।।
६४७२-१ उत्तमर्णमुखं पश्यन्नधमर्णो ह्रिया नमन् ।
६४७२-२ मृत्युजीवितयोर्युद्धसंभ्रमं परिलोकते ।।
६४७३-१ उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यं ।
६४७३-२ आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन्हरसि ।।
६४७४-१ उत्तमश्चिन्तितं कुर्यात्प्रोक्तकारी तु मध्यमः ।
६४७४-२ अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः ।।
६४७५-१ उत्तमस्तोषमायाति तद गं पोष्यते यदि ।
६४७५-२ वृक्षः प्रसीदति प्रायः पादाभ्य गेन न स्वयं ।।
६४७६-१ उत्तमस्य क्षणं कोपो मध्यस्य प्रहरद्वयं ।
६४७६-२ अधमस्य त्वहोरात्रं पापिष्ठो नैव मुच्यते ।।
६४७७-१ उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
६४७७-२ पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ।।
६४७८-१ उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
६४७८-२ बालो वा यदि वा वृद्धः सर्वस्याभ्यागतो गुरुः ।।
६४७९-१ उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः ।
६४७९-२ अधमा मातुलस्यापि श्वशुरस्याधमाधमाः ।।
६४८०-१ उत्तमाः स्वार्जितैर्द्रव्यैः पितुर्वित्तेन मध्यमाः ।
६४८०-२ अधमा मातृवित्तेन स्त्रीवित्तेनाधमाधमाः ।।
६४८१-१ उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः ।
६४८१-२ अधमा मातुलात्ख्याताः श्वशुराच्चाधमाधमः ।।
६४८२-१ उत्तमा गोद्भवाज्ज्यैष्ठ्याद्ब्रह्मणश्चैव धारणात् ।
६४८२-२ सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ।।
६४८३-१ उत्तमाधममध्यानां श्रोतव्यं वचनं बुधैः ।
६४८३-२ तत्र चात्महितं ग्राह्यं वस्तवाक्यं यथा नृपः ।।
६४८४-१ उत्तमाधममध्यानि बुद्ध्वा कार्याणि पार्थिवः ।
६४८४-२ उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ।।
६४८५-१ उत्तमाधमसंसक्तौ जानन्सदृशवृत्तितां ।
६४८५-२ नारीणां शुचिबाह्यानां अ गनाख्यां व्यधाद्विधिः ।।
६४८६-१ उत्तमानां स्वभावोऽयं परदुःखासहिष्णुता ।
६४८६-२ स्वयं दुःखं च संप्राप्तं मन्यतेऽन्यस्य वार्यते ।।
६४८७-१ उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
६४८७-२ राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ।।
६४८८-१ उत्तमानुत्तमानेव गच्छन्हीनांश्च वर्जयन् ।
६४८८-२ ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रतां ।।
६४८९-१ उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।
६४८९-२ अधमांस्तु न सेवेत य इच्छेच्श्रेय आत्मनः ।।
६४९०-१ उत्तमाभिजनोपेतान्न नीचैः सह वर्धयेत् ।
६४९०-२ कृशोऽपि हि विवेकज्ञो याति संश्रयणीयतां ।।
६४९१-१ उत्तमाश्चात्मना ख्याताः पित्रा ख्याताश्च मध्यमाः ।
६४९१-२ अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ।।
६४९२-१ उत्तमास्ताजिकाः प्रोक्ताः पारसीकाः समुद्रजाः ।
६४९२-२ कोक्काणाखतलाणाश्च तथा सौराष्ट्रजा हयाः ।।
६४९३-१ उत्तमे तु क्षणं कोपो मध्यमे घटिकाद्वयं ।
६४९३-२ अधमे स्यादहोरात्रं चाण्डाले मरणान्तिकः ।।
६४९४-१ उत्तमेनोत्तमं सर्वं मनुष्याणां प्रयत्नतः ।
६४९४-२ अदृष्टमीक्ष्य सर्वेषां वक्तव्यं सुविचक्षणैः ।।
६४९५-१ उत्तमे विघ्नवत्तास्ति अधमो दुःखभाजनं ।
६४९५-२ तस्मात्सर्वत्र योग्यत्वाच्श्रेष्ठो वै मध्यमः स्मृतः ।।
६४९६-१ उत्तमैः सह स गेन को न याति समुन्नतिं ।
६४९६-२ मूर्ध्ना तृणानि धार्यन्ते ग्रथितैः कुसुमैः सह ।।
६४९७-१ उत्तमैः सह सांगत्यं पण्डितैः सह संकथां ।
६४९७-२ अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ।।
६४९८-१ उत्तमैः सह सांगत्यं यत्प्राज्ञैः सत्यवादिभिः ।
६४९८-२ बन्धनस्थोऽपि तिष्ठेत न तु राज्ये नराधमैः ।।
६४९९-१ उत्तमैः स्वीकृतो नीचो नीच एव न चोत्तमः ।
६४९९-२ भैरवाधिष्ठितः श्वा तु कदाचिन्नैव केसरी ।।
६५००-१ उत्तमैरननुज्ञातं कार्यं नेच्छेच्च तैः सह ।
६५००-२ देवैः साकं सुधापानाद्राहोश्छिन्नं शिरो यतः ।।
६५०१-१ उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह ।
६५०१-२ निनीषुः कुलमुत्कर्षं अधमानधमांस्त्यजेत् ।।
६५०२-१ उत्तमो नातिवक्ता स्यादधमो बहुभाषकः ।
६५०२-२ न हि स्वर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ।।
६५०३-१ उत्तमोऽपि कुलजोऽपि मनुष्यः सर्वलोकमहितोऽपि बुधोऽपि ।
६५०३-२ दासतां भजति यां भजमानस् तां भजन्ति गणिकां किमु सन्तः ।।
६५०४-१ उत्तमोऽप्यधमस्य स्याद्याच्ञानम्रकरः क्वचित् ।
६५०४-२ कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिं ।।
६५०५-१ उत्तमोऽप्रार्थितो दत्ते मध्यमः प्रार्थितः पुनः ।
६५०५-२ याचकैर्याच्यमानोऽपि दत्ते न त्वधमाधमः ।।
६५०६-१ उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः ।
६५०६-२ कन्यास्त्रीभगिनीभाग्यो नरोऽधमतमो मतः ।।
६५०७-१ उत्तमो रसवादश्च धातुवादश्च मध्यमः ।
६५०७-२ अधमो मन्त्रवादश्च मिथ्यावादोऽधमाधमः ।।
६५०८-१ उत्तर गय कुर गलोचने लोचने कमलगर्वमोचने ।
६५०८-२ अस्तु सुन्दरि कलिन्दनन्दिनी- वीचिडम्बरगभीरमम्बरं ।।
६५०९-१ उत्तरतश्च मधूकादहिनिलयः पश्चिमोत्तरे तोयं ।
६५०९-२ परिहृत्य पञ्चहस्तान् अर्धाष्टमपौरुषं वाच्यं ।।
६५१०-१ उत्तरन्ति विनिकीर्य पल्वलं गाढप कमतिवाहितातपाः ।
६५१०-२ दंष्ट्रिणो वनवराहयूथपा दष्टभ गुरबिसा कुरा इव ।।
६५११-१ उत्तरादुत्तरं वाक्यं उत्तरादेव जायते ।
६५११-२ सुवृष्टिगुणसंपन्नाद्बीजाद्बीजमिवापरं ।।
६५१२-१ उत्तरापथकान्तानां किं ब्रूमो रामणीयकं ।
६५१२-२ यासां तुषारसंभेदे न म्लायति मुखाम्बुजं ।।
६५१३-१ उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गं ।
६५१३-२ आवरिष्ट विकटेन विवोढुर् वक्षसैव कुचमण्डलमन्या ।।
६५१४-१ उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकं ।
६५१४-२ तव सख्यै मया दत्तो न सेव्यः सेविता रहः ।।
६५१५-१ उत्तरेण सदा कार्यं प्राणस्य न विरोधकं ।
६५१५-२ संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखं ।।
६५१६-१ उत्तानफललुब्धानां वरं राजोपजीविनः ।
६५१६-२ न तु तत्स्वामिनस्तीव्रपरिक्लेशैः फलन्ति ये ।।
६५१७-१ उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास्तौर्यत्रिकानुक्रमात् ।
६५१७-२ कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि- भ्रान्तौ केवलमग्निहासगरलैर्लेखात्रयं पातु वः ।।
६५१८-१ उत्तानामुपधाय बाहुलतिकामेकामपा गश्रितां अन्यामप्यलसां निधाय विपुलाभोगे नितम्बस्थले ।
६५१८-२ नीवीं किंचिदवश्लथां विदधती निश्वासलोलालका तल्पोत्पीडनतिर्यगुन्नतकुचं निद्राति शातोदरी ।।
६५१९-१ उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे ।
६५१९-२ क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ।।
६५२०-१ उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला ।
६५२०-२ रथ्यागर्तविगाहनाद्भुतकृतैर्गाह्यः क्व रत्नाकरो यस्यान्तःशफराधमाननतटीमज्जद्गिरीन्द्राः श्रियः ।।
६५२१-१ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
६५२१-२ ऊरुमध्ये तथोत्तानौ पाणी पद्मासनं त्विदं ।।
६५२२-१ उत्तारकमतिस्निग्धं भ्रूक्षेपवशवर्ति च ।
६५२२-२ सदा मुखस्थं मित्रं चेन्नेत्रेण चपलेन किं ।।
६५२३-१ उत्तारयति विपत्ताव् इति धनवत्तामपेक्षते क्षितिपः ।
६५२३-२ चेन्नेह तदुपयोगस् तं नियतं वित्तसंचयो रोगः ।।
६५२४-१ उत्तालताटकोत्पातदर्शनेऽप्यप्रकम्पितः ।
६५२४-२ नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ।।
६५२५-१ उत्तालतालीवनसंप्रवृत्त- समीरसीमन्तितकेतकीकाः ।
६५२५-२ आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ।।
६५२६-१ उत्तालापीतहालारसविवशमनोवृत्तिताला कसीर- प्रोत्खाताकृष्टकालागुरुरुचिररुचिः स्त्रोतसोन्मादशीला ।
६५२६-२ अच्छण्डीद्वीपवन्दीभवदखिलचलत्कान्दिशीकोग्रनक्रा कालिन्दी वोऽस्तु संदीपितसुकृतचयोद्रेकम्न्दीकृतैनाः ।।
६५२७-१ उत्तालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः ।
६५२७-२ तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ।।
६५२८-१ उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखं ।
६५२८-२ इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवो दारिद्र्यान्मरणं वरं सुखमिति ज्ञात्वा स तूष्णीं स्थितः ।।
६५२९-१ उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानं ।
६५२९-२ निक्षेपपाणिमाप्तं दृष्ट्वा धर्म्यां कथां कुरुते ।।
६५३०-१ उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः ।
६५३०-२ यातः परमपि जीवेज् जीवितनाथो भवेत्तस्याः ।।
६५३१-१ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः ।
६५३१-२ भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालि ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ।।
६५३२-१ उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
६५३२-२ समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ।।
६५३३-१ उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय ।
६५३३-२ अहं नेतुमशक्यापि सुदूरमिदमन्तरं ।।
६५३४-१ उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
६५३४-२ ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहं ।।
६५३५-१ उत्तिष्ठारात्तरौ मे तरुणिमम तरोः शक्तिरारोहण का साक्षादाख्यामि मुग्धे तरणिमिह रवेराख्यया का रतिर्मे ।
६५३५-२ वार्तेयं नौप्रस गे कथमपि भविता नावयोः संगमार्था वार्तापीति स्मितास्यं जितगिरमजितं राधयाराधयामि ।।
६५३६-१ उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे ।
६५३६-२ अद्य वै निर्भया ल कां प्रविष्टाः सूर्यरश्मयः ।।
६५३७-१ उत्तीर्णभारलघुनाप्यलघूलपौघ- सौहित्यनिःसहतरेण तरोरधस्तात् ।
६५३७-२ र्ॐअन्थमन्थरचलद्गुरुसास्नमासां चक्रे निमीलदलसेक्षणमौक्षकेण ।।
६५३८-१ उत्तीर्य दक्षिणे पूर्वं पश्चाद्वामेऽतिनिन्दिताः ।
६५३८-२ कैश्चित्कृष्णो मृगश्चैकः कैश्चित्सर्वेऽपि नादृताः ।।
६५३९-१ उत्तीर्य पृष्ठतो याति वेष्टनं वाकरोति चेत् ।
६५३९-२ स्वस्थस्य वेष्टनप्राप्तिः सभयस्य भयं हरेत् ।।
६५४०-१ उत्तु गपीवरकुचद्वयपीडिता गं आलि गितः पुलकितेन भुजेन रत्या ।
६५४०-२ श्रीमञ्जगन्ति मदयन्नयनाभिरामः कामोऽयमेति मदघूर्णितनेत्रपद्मः ।।
६५४१-१ उत्तु गमत्तमात गमस्तकन्यस्तलोचनः ।
६५४१-२ आसन्न्ऽएपि च सार गे न वाञ्च्छां कुरुते हरिः ।।
६५४२-१ उत्तु गवातायनगोपुराणि गृहाणि वित्तानि दुरर्जितानि ।
६५४२-२ क्षणादधःपातकराणि हन्त चितातिथेरस्य निरर्थकानि ।।
६५४३-१ उत्तु गशैलशिखरस्थितपादपस्य काकः कृशोऽपि फलमालभते सपक्षः ।
६५४३-२ सिंहः प्रचण्डगजकुम्भविदारकोऽपि उच्छिष्टमेव लभते खलु पक्षहीनः ।।
६५४४-१ उत्तु गशैलशिखराश्रयणेन केचिदुद्दामवीचिवलिताः सरितो भवन्ति ।
६५४४-२ अन्ये पुणर्जलकनास्तृणलोष्टपातादम्भ्ॐउचां पयसि न क्षयमाप्नुवन्ति ।।
६५४५-१ उत्तु गशैलशिखरे ननु पादपस्य काकोऽपि पक्वफलमालभते सपक्षः ।
६५४५-२ सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले निजपक्षहीनः ।।
६५४६-१ उत्तु गस्तनपर्वतादवतरद्ग गेव हारावली र्ॐआली नवनीलनीरजरुचिः सेयं कलिन्दात्मजा ।
६५४६-२ जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः संगमश्चन्द्रो मज्जति लाञ्छनापहृतये नूनं नखांकच्छलात् ।।
६५४७-१ उत्तु गस्तनपर्वतैस्तनुरुहै र्ॐआवलीभूरुहैः काञ्चीक कणनूपुरध्वनिपरैर्हारावलीवागुरैः ।
६५४७-२ भ्रूचापेन कटाक्षविस्तरशरैः कन्दर्पदावानलैर् बाला खेलति पारधं निजगुणैः कामीमृगो बध्यते ।।
६५४८-१ उत्तु गस्तनभरतान्ततान्तमध्यं विश्लिष्यद्घनकचवान्तवान्तसूनं ।
६५४८-२ वक्राब्जभ्रमदलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ।।
६५४९-१ उत्तु गस्तनभार एश तरले नेत्रे चले भ्रूलते रागान्धेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथां ।
६५४९-२ सौभाग्याक्षरप क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं र्ॐआवली केन सा ।।
६५५०-१ उत्तु गस्तनमण्डलादवतरद्ग गेव हारावली र्ॐआली नवनालनीरदरुचिः सेयं कलिन्दात्मजा ।
६५५०-२ जातं तीर्थमिदं सुपुण्यजनकं यत्रावयोः संगमश्चन्द्रो मज्जति लाञ्छनापहृदये नूनं नखांकच्छलात् ।।
६५५१-१ उत्तु गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेर् अन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति ।
६५५१-२ लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ।।
६५५२-१ उत्तु गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली भीमं देहवनं स्फुरद्भुजलतं र्ॐआलिजालाकुलं ।
६५५२-२ व्याधः पञ्चशरः किरत्यतितरांस्तीक्ष्णान्कटाक्षाशुगांस् तन्मे ब्रूहि मनःकुर ग शरणं कं सांप्रतं यास्यसि ।।
६५५३-१ उत्तु गादनिलचलांशुकास्तटान्ताछ्चेतोभिः सह भयदर्शिनां प्रियाणां ।
६५५३-२ श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्यस् तोयेषु द्रुततरम गना निपेतुः ।।
६५५४-१ उत्तु गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किम ग तस्य वचसा श्लाघासु पर्याप्यते ।
६५५४-२ बन्दुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति ।।
६५५५-१ उत्तु गे विभवद्रुमस्य शिखरे भुक्त्वा फलं स्वेच्छया तस्मात्प्रस्खलितः पदाद्विधिवशाद्भ्रष्टो निरालम्बनः ।
६५५५-२ पातालोदरभीषणे बहुविधक्लेशोरगाध्यासिते दौर्गत्यावटगर्भके निपतितश्चित्रं यदि प्राणिति ।।
६५५६-१ उत्तु गैस्तरुभिः किमेभिरफलैराकाशसंस्पर्शिभिर् धन्योऽसौ नितरामुलूपविटपो नद्यास्तटे तिष्ठति ।
६५५६-२ एवं यः कृतबुद्धिरुत्थितजलव्यालोलवीचीवशान् मज्जन्तं जनमुद्धरामि यदि वा तेनैव मज्जाम्यहं ।।
६५५८-१ उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु ।
६५५८-२ भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ।।
६५५९-१ उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितं ।
६५५९-२ अफलं दृश्यते लोके सम्यगप्युपपादितं ।।
६५६०-१ उत्थानं संयमो दाक्ष्यं अप्रमादो धृतिः स्मृतिः ।
६५६०-२ समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ।।
६५६१-१ उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।
६५६१-२ राजधर्मस्य यन्मूलं ... ... ... ।।
६५६२-१ उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति ।
६५६२-२ उत्थानधीरं वाग्धीरा रमयन्त उपासते ।।
६५६३-१ उत्थानमभिजानन्ति सर्वभूतानि भारत ।
६५६३-२ प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकं ।।
६५६४-१ उत्थानयुक्तः सततं परेषामन्तरैषणे ।
६५६४-२ आनृण्यमाप्नोति नरः परस्यात्मन एव च ।।
६५६५-१ उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः ।
६५६५-२ धर्षणीयो रिपूणां स्याद्भुजंग इव निर्विषः ।।
६५६६-१ उत्थानेनामृतं लब्धं उत्थानेनासुरा हताः ।
६५६६-२ उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ।।
६५६७-१ उत्थानेनैधयेत्सत्त्वं इन्धनेनेव पावकं ।
६५६७-२ श्रियो हि सततोत्थायी दुर्बलोऽपि समश्नुते ।।
६५६८-१ उत्थाने सभ्यानां उत्तिष्ठति याति तेषु यातेषु ।
६५६८-२ मतमन्तरापि राज्ञो विज्ञायाशीःप्रदो बहिरुपैति ।।
६५६८-१ उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
६५६८-२ विस्तारितः कुञ्जरकर्णतालैर् नेत्रक्रमेणोपरुरोध सूर्यं ।।
६५६९-१ उत्थाप्य भुजगीं शक्तिं मूलवातैरधःस्थितां ।
६५६९-२ सुषुम्नान्तर्गतां पञ्चचक्राणां भेदिनीं शिवां ।।
६५७०-१ उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
६५७०-२ हुत्वाग्निं ब्राह्मणांश्चार्य प्रविशेच्च शुभां सभां ।।
६५७१-१ उत्थायोत्थाय पापेष्वभिरमति मतिर्मन्दबुद्धेर्यदा ते नैवेद्वेगो न शान्तिर्न च भवति घृणा कुर्वतः कर्म निन्द्यं ।
६५७१-२ तत्किं नैव प्रभाते ज्वलदनलसमा रौरवी नाम रौद्री तीक्ष्णायःकीलचक्रक्रकचपटुरवा राजधानी यमस्य ।।
६५७२-१ उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतं ।
६५७२-२ आयुषः खण्डमादाय रविरस्तं गमिष्यति ।।
६५७३-१ उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतं ।
६५७३-२ दत्तं वा दापितं वापि वाक्सत्या वापि भाषिता ।।
६५७४-१ उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितं ।
६५७४-२ मरणव्याधिशोकानां किमद्य निपतिष्यति ।।
६५७५-१ उत्थायोत्थाय लीयन्ते दरिद्राणां मनोरथाः ।
६५७५-२ बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ।।
६५७६-१ उत्थायोन्नतवासयष्टिशिखरे विस्तारिताकुञ्चितं बिभ्रत्पादमुदस्तकेसरसटः किंचिद्विनिद्रेक्षणः ।
६५७६-२ दूरादञ्चितकन्धरः शमवशाद्व्याधूय पक्षद्वयं मानम्लानिकरः कुर गकदृशां कोकूयते कुक्कुटः ।।
६५७७-१ उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः ।
६५७७-२ शत्रुवत्पतितं को नु वन्दते मानवं पुनः ।।
६५७७आ-१ उत्थिताग्रचरणा पृथुस्तनी पुष्पजालमपचिन्वती तरौ ।
६५७७आ-२ मध्यभञ्जनभयापदेशतो निस्त्रपा दयितकण्ठमग्रहीत् ।।
६५७८-१ उत्थितो निशि कलानिधिर्भवेदेतदीयमुखतुल्यताप्तये ।
६५७८-२ प्रापितो मलिनभावमेतया लज्जया नभसि यात्यदृश्यतां ।।
६५७९-१ उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धं ।
६५७९-२ अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ।।
६५८०-१ उत्पततोऽप्यन्तरिक्षं गच्छतोऽपि महीतलं ।
६५८०-२ धावतः पृथिवीं सर्वां नादत्तमुपतिष्ठति ।।
६५८१-१ उत्पतन्ति यदाकाशे निपतन्ति महीतले ।
६५८१-२ पक्षिणस्तदपि प्राप्त्या नादत्तमुपतिष्ठते ।।
६५८२-१ उत्पतन्ती भ्रमन्ती सा नमन्ती नलिनेक्षना ।
६५८२-२ शम्पाशतं वितन्वाना भ्रमरीव भ्रमं व्यधात् ।।
६५८३-१ उत्पतन्त्वन्तरिक्षं वा पातालं प्रविशन्तु वा ।
६५८३-२ चरन्तु वा दिशः सर्वा ह्यदत्तं नोपलभ्यते ।।
६५८५-१ उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् ।
६५८५-२ अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः ।।
६५८६-१ उत्पत्तिः पयसां निधेर्वपुरपि ख्यातं सुधामन्दिरं स्पर्धन्ते विशदा लताभसरला हारावलीमंशवः ।
६५८६-२ कान्ता कैरविणी तव प्रियसखः शृ गारसारः स्मरो हं हो चन्द्र किमत्र तापजननं तापाय यन्मे भवान् ।।
६५८७-१ उत्पत्तिपरिपूरितायाः किमस्याः पावनान्तरैः ।
६५८७-२ तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ।।
६५८८-१ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
६५८८-२ स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ।।
६५८८आ-१ उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुः शौर्यं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः ।
६५८८आ-२ त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः क्षत्त्रब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरं ।।
६५८९-१ उत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता ।
६५८९-२ सुप्रसन्नोज्ज्वला मूर्तिरस्यां स्नेहं करोति मे ।।
६५९०-१ उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्य विश्वोत्सवे पूण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषं ।
६५९०-२ काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ।।
६५९१-१ उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसैस् तत्रत्यानपि हन्त चन्दनतरूंश्छिन्दन्ति सांयात्रिकाः ।
६५९१-२ वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्यद्रुमास् तन्मन्ये कृतिनस्तु ते तरुकुले ये नोपयोगक्षमाः ।।
६५९२-१ उत्पत्त्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रटिष्ठां बाधेन प्राक्तनानां न च नियमविधिर्नापि संख्यार्थदाने ।
६५९२-२ ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमञ्चत्यभिनवमधुना मूर्तिरेषा त्वदीया ।।
६५९३-१ उत्पत्रेव दृशोऽर्चिषा कुसुमितेवेन्दोः करैर्भोगिभिः सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः ।
६५९३-२ यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्- फेनोण्डूकविलासमञ्चति विधेर्जीर्णा कपालावली ।।
६५९४-१ उत्पथा दुर्नदाः केचिद्बहुभ गभ्रमाविलाः ।
६५९४-२ तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ।।
६५९५-१ उत्पथेन क्वचिद्याति क्वचिन्मार्गेण गच्छति ।
६५९५-२ मुहुरुष्णो मुहुः शीतश्चपलश्चपलायते ।।
६५९६-१ उत्पद्यन्ते विपद्यन्ते मद्विधाः क्षुद्रजन्तवः ।
६५९६-२ परार्थबद्धकक्ष्याणां तादृशामुद्भवः कुतः ।।
६५९७-१ उत्पन्नं सुधियां कुले यदखिलैस्त्यक्तं बुधैर्न क्षणं यन्नो विस्मृतमेकदापि सुजनैर्यद्यन्न युक्तं खलैः ।
६५९७-२ दौर्गत्यस्य तथाविधस्य महतस्तस्यापि केनापि नो यद्दानाम्बुसरित्प्रवाहपतितस्याकारि हस्तार्पणं ।।
६५९८-१ उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी ।
६५९८-२ तादृशी यदि पूर्वं स्यात्कस्य न स्यान्महोदयः ।।
६५९९-१ उत्पन्नपुत्रमात्रस्य पुंसः स्वर्गो भवेद्ध्रृवं ।
६५९९-२ टिट्टिभोत्पादनादेव मन्दपालो दिवं ययौ ।।
६६००-१ उत्पन्नमिह लोके वै जन्मप्रभृति मानवं ।
६६००-२ विविधान्युपवर्तन्ते दुःखानि च सुखानि च ।।
६६०१-१ तयोरेकतरे मार्गे यद्येनमभिसंनयेत् ।
६६०१-२ न सुखं प्राप्य संहृष्येत्न दुःखं प्राप्य संज्वरेत् ।।
६६०२-१ उत्पन्नस्य रुरोः शृ गं वर्धमानस्य वर्धते ।
६६०२-२ प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ।।
६६०३-१ उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये ।
६६०३-२ द्वित्रैरेव दिनैस्तिमिंगिलकुलस्यासाद्य कूटस्थतां मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासंकथां ।।
६६०४-१ उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः ।
६६०४-२ नाभौ भ्ॐअरिपोरजायत महापद्मः स कोऽप्येकको यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः ।।
६६०५-१ उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् ।
६६०५-२ वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ।।
६६०६-१ उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते ।
६६०६-२ स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ।।
६६०७-१ उत्पन्नो घट चक्रवर्त्यसि पुनर्वह्निं प्रविश्य त्वया प्रातः स्नानपरिश्रमेण पयसां पानेन तप्तं तपः ।
६६०७-२ आक्रम्योन्नतजानु यन्मृगदृशां तिष्ठन्नितम्बस्थले कण्ठालम्बितबाहुवल्लिकुचयोः सीमानमास्कन्दसि ।।
६६०८-१ उत्पलस्य च पद्मस्य मत्स्यस्य कुमुदस्य च ।
६६०८-२ एकजातिप्रसूतानां रूपं गन्धः पृथक्पृथक् ।।
६६०९-१ उत्पलस्य हि रक्तिमा साधोः परोपकारिता ।
६६०९-२ असाधोः करुणाभावः स्वभावास्त्रिविधा यथा ।।
६६१०-१ उत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः ।
६६१०-२ उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ।।
६६११-१ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
६६११-२ शुक्लापान्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ।।
६६१२-१ उत्पातकं तदिह देव विचारणीयं नारायणो यदि पतेदथवा सुभद्रा ।
६६१२-२ कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि ला गलधृतः पतनं पृथिव्यां ।।
६६१३-१ उत्पातकेतुरिव मन्मथनायकस्य वज्रप्रहार इव केलिलतावनस्य ।
६६१३-२ संहारकाल इव पान्थवधूजनस्य ग्रीष्मस्य भाति दिवसः सखि दूरिताशः ।।
६६१४-१ उत्पातजं छिद्रमसौ विवस्वान् व्यादाय वक्त्राकृति लोकभीष्यं ।
६६१४-२ अत्तुं जनान्धूसररश्मिराशिः सिंहो यथा कीर्णसटोऽभ्युदेति ।।
६६१५-१ उत्पाताय च काव्ये दुरुपश्रुतिरभिनये च नाट्यानां ।
६६१५-२ स्वस्थानामपि यद्वद्ध्वस्ता धारा धरित्रीति ।।
६६१६-१ उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
६६१६-२ ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतं ।।
६६१७-१ उत्पादनमपत्यस्य जातस्य परिपालनं ।
६६१७-२ प्रत्यर्थं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनं ।।
६६१८-१ उत्पादयति लोकस्य प्रीतिं मलयमारुतः ।
६६१८-२ ननु दाक्षिण्यसंपन्नः सर्वस्य भवति प्रियः ।।
६६१९-१ उत्पादयत्यलमिदं मनसो विषादं सीदत्सरोरुहनिभं वदनं त्वदीयं ।
६६१९-२ ज्ञात्वा निदानमहमत्र समानदुःखा प्राणैरपि प्रियतमे भवितुं समीहे ।।
६६२०-१ उत्पादयन्तो सुरतस्य विघ्नं परस्परालापसुखं हरन्ती ।
६६२०-२ संरागिणः कामिजनस्य गाढं अक्ष्णोर्ललम्बे सहसैव निद्रा ।।
६६२१-१ उत्पादिता स्वयमियं यदि तत्तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः ।
६६२१-२ यद्यन्यसंगमवती च तदा परस्त्री तत्त्यागबद्धमनसः सुधियो भवन्ति ।।
६६२२-१ उत्पाद्य कृत्रिमान्दोषान्धनी सर्वत्र बाध्यते ।
६६२२-२ कृतदोषसहस्रोऽपि निर्धनः परमेश्वरः ।।
६६२३-१ उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित् ।
६६२३-२ स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद्बुभूषेत् ।।
६६२४-१ उत्पाद्य यत्स्वयमपि प्रबलानुराग- भाजस्तथानुसरतोऽपि दिवाकरस्य ।
६६२४-२ छाया प्रसर्पति सुदूरमनेन मन्ये क्लृप्तं तया सदृशमेव कुलीनतायाः ।।
६६२५-१ उत्पुच्छः प्रमदोच्छ्वसद्वपुरधोविस्रंसिपक्षद्वयः स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
६६२५-२ उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- न्यग्भूतां चटकः प्रियामभिसरत्युद्वेपमानः क्षणं ।।
६६२६-१ उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् उद्वाच्यास्ततचञ्चवो लयवशादुत्क्षिप्तपादा मुहुः ।
६६२६-२ पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीमुन्नत- ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः ।।
६६२७-१ उत्प्रवालान्यरण्यानि वाप्यः संफुल्लप कजाः ।
६६२७-२ चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतं ।।
६६२८-१ उत्प्लुत्य दूरं परिधूय पक्षा- वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
६६२८-२ मध्येजलं बुड्डति दत्तझम्पः समत्स्यमुत्सर्पति मत्स्यर कः ।।
६६२९-१ उत्प्लुत्य यः शिखरिणं मदकुम्भिकुम्भं उद्भिद्य सानुशतमायतमुल्लल घे ।
६६२९-२ पञ्चाननो नियतया जरयाभिभूतः सोऽयं करौ लिहति बृंहितलोहिताक्षः ।।
६६३०-१ उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रज घं ततो वक्रस्वैरपदक्रमैरुपगताः किंचिच्चलन्तो गले ।
६६३०-२ भेकाः पूतिनिपातिनो मिचिमिचीत्युन्मीलितार्धेक्षणा नक्राकारविदारिताननपुटैर्निर्मक्षिकं कुर्वते ।।
६६३१-१ उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
६६३१-२ सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ।।
६६३२-१ उत्फालं हेलयैव द्रुतमभिपततः पूर्वपृथ्वीधराग्रादुच्चैरर्चिश्चपेटाहतिभिरिव हरेर्ध्वान्तदन्ती विदीर्णः ।
६६३२-२ रक्ताः कुम्भैर्विमुक्ता इव सकलदृशां विस्मयं संदधानाः संध्याशोणत्विषस्ताः सपदि निपतितास्तारकास्ताः समस्ताः ।।
६६३३-१ उत्फुल्लकमलकेसर- परागगौरद्युते मम हि गौरि ।
६६३३-२ अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ।।
६६३४-१ उत्फुल्लगल्लपरिफुल्लमुखारविन्द- सौगन्ध्यलुब्धमधुपाकुलया रतांते ।
६६३४-२ संभुग्नपीनकुचचूचुकयातिगाढ- मालि गितो गिरिजया गिरिशः पुनातु ।।
६६३५-१ उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखं ।
६६३५-२ जानाति हि पुनः सम्यक्कविरेव कवेः श्रमं ।।
६६३६-१ उत्फुल्लतापिच्छमनोरमश्रीर् मातुः स्तनन्यस्तमुखारविन्दः ।
६६३६-२ संचालयन्पादसरोरुहाग्रं कृष्णः कदा यास्यति दृक्पथं मे ।।
६६३७-१ उत्फुल्लप कजनिषक्तलसद्द्विरेफः किंचिद्विनिद्रकुमुदोत्करसंभृतश्रीः ।
६६३७-२ आमूलनद्धविविधाद्भुतमाल्यमालश्चित्रं न कस्य तनुते ललितस्तमालः ।।
६६३७आ-१ उत्फुल्लप कजवनं ददर्श विमलं सरः ।
६६३७आ-२ स्फाटिकं वनदेवीनां इव विभ्रमदर्पणं ।।
६६३८-१ उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणां ।
६६३८-२ बन्धूककमनीयौष्ठां मन्दारस्तबकस्तनीं ।।
६६३९-१ शिरीषसुकुमारा गीं पञ्चपुष्पमयीमिव ।
६६३९-२ एकमेव जगज्जैत्रीं स्मरेण विहितामिषुं ।।
६६४०-१ उत्फुल्लमानसरसीरुहचारुमध्य- निर्यन्मधुव्रतभरद्युतिहारिणीभिः ।
६६४०-२ राधाविलोचनकटाक्षपरम्पराभिर् दृष्टो हरिस्तव सुखानि तनोतु कामं ।।
६६४१-१ उत्फुल्लरम्य सहकार रसालबन्धो कूजत्पिकावलिनिवास तथा विधेहि ।
६६४१-२ गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ।।
६६४२-१ उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिजसंभवह्परागः ।
६६४२-२ वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीं ।।
६६४३-१ उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरमेव किंशुकतरोराश्यामलं जालकं ।
६६४३-२ आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीनघनस्तनेषु कणवान्स्वेदः करोत्यास्पदं ।।
६६४४-१ उत्फुल्लामलक्ॐअलोत्पलदलश्यामाय रामामनः- कामाय प्रथमाननिर्मलगुणग्रामाय रामात्मने ।
६६४४-२ योगारूढमुनीन्द्रमानससरोहंसाय संसारवि- ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ।।
६६४५-१ उत्फुल्लार्जुनसर्जवासितवहत्पौरस्त्यझंझामरुथ्प्रे खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः ।
६६४५-२ धारासिक्तवसुंधरासुरभयः प्राप्तास्त एवाधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ।।
६६४६-१ उत्फुल्लैर्बकुलैर्लव गमुकुलैः शेफालिकाकुड्मलैर् नीलाम्भोजकुलैस्तथा विचिकिलैः क्रान्तं च कान्तं च यत् ।
६६४६-२ तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा मध्ये मुग्ध कुसुम्भमुम्भसि भवेन्नैवैष युक्तः क्रमः ।।
६६४७-१ उत्स गे वा मलिनवसने स्ॐय निक्षिप्य वीणां मद्गोत्रा कं विरचितपदं गेयमुद्गातुकामा ।
६६४७-२ तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचिद्भूयोभूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ।।
६६४८-१ उत्स गैः सैकतानां शकुनिशतपदन्यासरेखा कितानां जम्बूषण्डानि नद्यो दधति परिणमल्लम्बिलम्बालकानि ।
६६४८-२ यत्तोयान्दोलदोलः पुलकयति तनुं तीरकस्तूरिकैण- प्रक्रान्तग्रन्थिपर्णग्रसनपरिमलोत्कन्धरो गन्धवाहः ।।
६६४९-१ उत्सन्नच्छदिरुच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि भ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।
६६४९-२ पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभांभांकृति श्रीमत्सेनकुलावतंस भवतः शत्रोरिवास्मद्गृहं ।।
६६५०-१ उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः ।
६६५०-२ चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र ।।
६६५१-१ उत्सन्नो मधुरस्ति कोकिलरवैरुत्सन्नमस्त्येतदप्य् उत्सन्नं मलयानिलैरिदमपि प्रागेव जानीमहे ।
६६५१-२ पान्थास्तुष्यथ तावतैव किमिति भ्रान्ता यदि प्राणिति स्तोकेनापि मनोभवो विगलतु प्राणेषु शुष्को ग्रहः ।।
६६५२-१ उत्सर गकलितोरुकटारी- भाजिरा उत भयंकरभालाः ।
६६५२-२ सन्तु पायकगणा जय तैस्त्वं गामगोहरमिलाप इलावी ।।
६६५३-१ उत्सर्पद्धूमलेखात्विषि तमसि मनाग्विस्फुलि गायमानैर् उद्भेदैस्तारकाणां वियति परिगते पश्चिमाशामुपेता ।
६६५३-२ खेदेनेवानतासु स्खलदलिरसनास्वब्जिनीप्रेयसीषु प्रायः संध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः ।।
६६५४-१ उत्सवादपि नीचानां कलहोऽपि सुखायते ।
६६५४-२ कपर्दकार्धलाभेन कुशलो बहु मन्यते ।।
६६५५-१ उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखं ।
६६५५-२ श्रद्धधानाश्च दान्ताश्च धनाढ्याः शुभकारिणः ।।
६६५६-१ उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे ।
६६५६-२ राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ।।
६६५७-१ उत्सारणप्रियतया परिरुद्धसर्व- द्वारे गृहे निरनुरोधतया वसन्तः ।
६६५७-२ संपल्लघूकृतधियोऽप्रतिघप्रवृत्तेर् धिग्जानते न रभसान्नियतेर्निपातं ।।
६६५८-१ उत्सारितो हसितदीधितिभिः कपोलादेकावलीभिरवधूत इव स्तनेभ्यः ।
६६५८-२ अ गेष्वलब्धपरिभोगसुखोऽन्धकारो गृह्णाति केशरचनासु रुषेव नारीः ।।
६६५९-१ उत्सार्य कुन्तलमपास्य दुकूलकूलं उन्नाम्य बाहुलतिकामलसास्तरुण्यः ।
६६५९-२ स्वेदाम्बुसिक्ततनवः स्पृहयन्ति यस्मै तस्मै नमः सुकृतिने मलयानिलाय ।।
६६६०-१ उत्साहः स्याद्रसे हास्ये ताले कन्दुकसंज्ञके ।
६६६०-२ वंशाभिवृद्धिकृत्पादस्त्रयोदशमिताक्षरः ।
६६६०-३ लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके ।।
६६६१-१ उत्साहकारकसखीवचनैर्विधाय भूषाविधिं कनकगौरतरा गकेषु ।
६६६१-२ प्राणेश्वरस्य सदनाय कृतप्रयाणा मुग्धा तथापि हृदि कम्पभरं बिभर्ति ।।
६६६२-१ उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
६६६२-२ उपपन्नो नृपो यायाद्विपरीतमतोऽन्यथा ।।
६६६३-१ उत्साहवन्तः पुरुषा दुर्बला बलिनं रिपुं ।
६६६३-२ हनिष्यन्ति हि संयाता तथैते पञ्च कुञ्जरं ।।
६६६४-१ उत्साहवन्तो हि नरा न लोके
६६६४-२ सीदन्ति कर्मस्वतिदुष्करेषु ।।
६६६४-२ ... ...
६६६५-१ उत्साहशक्तियुतविक्रमधैर्यराशिर्यो वेत्ति गोष्पदमिवाल्पतरं समुद्रं ।
६६६५-२ वल्मीकशृ गसदृशं च सदा नगेन्द्रं लक्ष्मीः स्वयं तमुपयाति न दीनसत्त्वं ।।
६६६६-१ उत्साहशक्तिहीनत्वाद्वृद्धो दीर्घामयस्तथा ।
६६६६-२ स्वैरेव परिभूयेते द्वावप्येतावसंशयं ।।
६६६७-१ उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तं ।
६६६७-२ शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ।।
६६६८-१ उत्साहस्य प्रभोर्मन्त्रस्यैवं शक्तित्रयं जगुः ।
६६६८-२ आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ।।
६६६९-१ उत्साहातिशयं वत्स तव बाल्यं च पश्यतः ।
६६६९-२ मम हर्षविषादाभ्यां आक्रन्तं युगपन्मनः ।।
६६७०-१ उत्साहिता सकलशीधुमदेन वक्तुं अर्धोदिते नववधूरवलम्बितह्रीः ।
६६७०-२ आलीजनेष्वनुपसंहृतवाक्यशेषा भर्तुश्चकार सविशेषकुतूहलत्वं ।।
६६७१-१ उत्साहोञ्झितमनसां राज्ञां परिमोषिणां जिगीषूणां ।
६६७१-२ निरुपायोद्विग्नानां साधुश्चरके सदा शकुनः ।।
६६७२-१ उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर- त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्स गयोः ।
६६७२-२ वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियं ।।
६६७३-१ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलं ।
६६७३-२ उत्साहारम्भमात्रेण जायन्ते सर्वसंपदः ।।
६६७४-१ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलं ।
६६७४-२ सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभं ।।
६६७५-१ उत्साहो रिपुवन्मित्रं आलस्यं मित्रवद्रिपुः ।
६६७५-२ अमृतं विषवद्विद्याऽमृतवद्विषम गना ।।
६६७६-१ उत्सिक्तः कुसुमासवैः कुमुदिनीं राजप्रियां पुष्पिणीं आलि गन्निशि निर्भयं परिचयं कुर्वन्पुनः पल्लवैः ।
६६७६-२ यावत्प कज्सौरभस्वमखिलं गृह्णंल्लघु प्रस्थितस् तावत्कल्य उपस्थिते मरुदयं विष्वग्भयाद्धावति ।।
६६७७-१ उत्सिक्तस्य तपःपराक्रमनिधेरस्यागमादेकतः सत्स गप्रियता च वीररभसोन्मादश्च मां कर्षतः ।
६६७७-२ वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन्न् आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ।।
६६७८-१ उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि ।
६६७८-२ तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेद् ।।
६६७९-१ उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणं ।
६६७९-२ कथमातपे गमिष्यसि परिबाधापेलवैर गैः ।।
६६८०-१ उत्सृज्य गीतमसमाप्य विलासलास्यं अ कादपास्य सहसा मणिवल्लकीं च ।
६६८०-२ अत्युन्मनास्तदवलोकनकौतुकेन वातायनान्यधिरुरोह पुरन्ध्रिलोकः ।।
६६८०आ-१ उत्सृज्य जलसर्वस्वं विमलाः सितमूर्तयः ।
६६८०आ-२ तत्यजुश्चाम्बरं मेघा विग्रहं योगिनो यथा ।।
६६८१-१ उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः ।
६६८१-२ अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः ।।
६६८२-१ उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन ।
६६८२-२ आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ।।
६६८३-१ उत्सृज्याम्बुधिजामुखाम्बुजसुखालोकव्रतं यश्चिराद्देवः सेवितवान्सरोजनयनो निद्रां समुद्राम्भसि ।
६६८३-२ सोऽप्युत्तु गभुज गभोगशयनाज्जागर्ति यस्योत्सवे सोऽयं शारदशीतरोचिषि चमत्कारः कथं कथ्यतां ।।
६६८४-१ उत्सृष्टमम्बुजदृशामिव मानरत्नं आदाय षट्पदतिलान्मधुवारिपूरान् ।
६६८४-२ पुंस्कोकिलस्य कलकूजितकैतवेन संकल्पवाक्यमयमातनुते रसालः ।।
६६८५-१ उदकं चाग्निसंसृष्टकुम्भस गाद्यथैव हि ।
६६८५-२ उद्वेगोद्वर्तनादौष्ण्यं भजते तद्वदेव हि ।।
६६८६-१ अ गस गात्तथा जीवो भजते प्राकृतान्गुणान् ।
६६८६-२ अह काराभिभूतः सन्भिन्नस्तेभ्योऽपि सोऽव्ययः ।।
६६८७-१ उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः ।
६६८७-२ कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ।।
६६८८-१ उदके सर्वबीजानि सर्वदेवा निजेश्वरे ।
६६८८-२ कलत्रे सर्वसौख्यानि सर्वे धर्मा दयामयाः ।।
६६८९-१ उदके सर्वबीजानि सर्वे देवा हुताशने ।
६६८९-२ कलत्रे सर्वसौख्यानि सर्वदानानि ब्राह्मणे ।।
६६९०-१ उदक्यापतितम्लेच्छचाण्डालाद्यभिभाषणे ।
६६९०-२ मार्जारमूषकस्पर्शे विण्मूत्रोत्सर्गदर्शने ।।
६६९१-१ उदग्रगोतावतगोत्रगौरवो महारजः पूतभटोत्कटच्छटः ।
६६९१-२ स्वरूपसम्पत्तिपरास्तमन्मथः स लक्ष्मणो लक्षितलक्षणोज्ज्वलः ।।
६६९२-१ उद मुखो वक्ति भषन्निशीथे द्विजोपपीडां मरणं गवां च ।
६६९२-२ कुमारिकादूषणगर्भपात- वह्नीन्निशान्ते शिवदि मुखः स्यात् ।।
६६९३-१ उदञ्चत्कावेरीलहरिषु परिष्व गर गे लुठन्तः कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।
६६९३-२ अमी चैत्रे मैत्रावरुणि तरुणीकेलिक केल्लिमल्ली- चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ।।
६६९४-१ उदञ्चत्क्वणद्धुंकृतिक्वाणचञ्चन्- मणीमेखलादामदृप्यन्नितम्बा ।
६६९४-२ कृपापा गमा गल्यपट्टाभिषेकैर् जगन्म गलं ज्वालपा नः सहायः ।।
६६९५-१ उदञ्चद्घर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- घनामोदाहूतभ्रमरभरझ कारमधुरां ।
६६९५-२ अपश्यत्कासारश्रियममृतवर्तिप्रणयिनीं सुखं जीवत्यन्धूदरविवरवर्ति प्लवकुलं ।।
६६९६-१ उदञ्चद्वक्षोजद्वयतटभरक्षोभितकटि स्फुरद्दृग्भ्यां मन्दीकृतविलसदिन्दीवरयुगं ।
६६९६-२ समुद्यद्भ्रूभ गं प्रविहितधनुर्भ गमनिशं वयस्तत्पद्माक्ष्याः कथमिव मनो न व्यथयतु ।।
६६९७-१ उदञ्चन्तां वाचो मधुरिमधुरीणाः खलु न मे न चाप्युज्जृम्भन्तां नवभणितयो भ गिसुभगाः ।
६६९७-२ क्षणं स्तोत्रव्याजादपि यदि भवन्तं हृदि नये तदात्मा पावित्र्यं नियतमियतैवाञ्चति मम ।।
६६९८-१ उदञ्चन्मञ्जीरध्वनिमिलितकाञ्चीकलरवं मिलिन्दालीगुञ्जारवसुभगशिञ्जानवलयं ।
६६९८-२ गलन्मुक्तादामस्तनविनिहितस्वेदकणिकं रतं धन्यं मन्ये चलदलकमिन्दीवरदृशः ।।
६६९९-१ उदञ्चय दृगञ्चलं चलतु चञ्चरीकोच्चयः प्रपञ्चय वचःसुधा श्रवणपालिमालि गतु ।
६६९९-२ भ्रुवं नटय नागरि त्यजतु मन्मथः कार्मुकं मुखं च कुरु संमुखं व्रजतु लाघवं चन्द्रमाः ।।
६७००-१ उदञ्चय दृगञ्चलं रचय म गलं सर्वतश्चिराय समुपागतः पुरत एष ते वल्लभः ।
६७००-२ इति प्रियगिरा श्रुतीपुलकदन्तुरे कुर्वती प्रकशयति नो दृशौ प्रियसखी मृषाश कया ।।
६७०१-१ उदधिरवधिरुर्व्यास्तं हनूमांस्ततार निरवधि गगनं चेत्त्वाण्डकोशे विलीनं ।
६७०१-२ इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्जनानां विवेकः ।।
६७०२-१ उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
६७०२-२ स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ।।
६७०३-१ उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति ।
६७०३-२ इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ।।
६७०४-१ उदन्वानिव योऽक्षोभ्यो ज्ञायते संश्रितैः प्रभुः ।
६७०४-२ का ह्रीस्ततोऽन्या सोऽन्यैर्यत्तेषामग्रेऽभिभूयते ।।
६७०५-१ उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
६७०५-२ प्रथमप्रबुद्धनदराजसुता- वदनेन्दुनेव तुहिनद्युतिना ।।
६७०६-१ उदयं प्राप्य तीक्ष्णत्वाद्दुष्प्रेक्ष्यत्वमुपेयुषः ।
६७०६-२ पादान्तिके वसुमतो न हि मानी निषीदति ।।
६७०७-१ उदयं संहता एव संहता एव च क्षयं ।
६७०७-२ प्रयान्तः स्पृहणीयत्वं तन्त्रिणः कस्य नागमन् ।।
६७०८-१ उदयगिरिगतायां प्राक्प्रभापाण्डुतायां अनुसरति निशीथे शृ गमस्ताचलस्य ।
६७०८-२ जयति किमपि तेजः सांप्रतं व्य्ॐअमध्ये सलिलमिव विभिन्नं जाह्नवं यामुनं च ।।
६७०९-१ उदयगिरितटस्थः पद्मिनीर्बोधयित्वा मृदुतरकिरणाग्रैस्ताः स्वयं चोपभुज्य ।
६७०९-२ मलिनमधुपस गात्तासु संजातकोपः कृतरुधिरविरोचिर्भानुरस्तं प्रयातः ।।
६७१०-१ उदयगिरिशिरःस्थो निद्रया मूढमेतज् जगदगदमशेषं निर्मिमीतेऽनिशं यः ।
६७१०-२ अमिततमितमिस्रोद्दामदारिद्र्यहारि- प्रसृमरकिरणौघः स्यान्मुदे वः स देवः ।।
६७११-१ उदयगूढशशा कमरीचिभिस् तमसि दूरमितः प्रतिसारिते ।
६७११-२ अलकसंयमनादिव लोचने हरति मे हरिवाहनदि मुखं ।।
६७१२-१ उदयतटान्तरितमियं प्राची सूचयति दि निशानाथं ।
६७१२-२ परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ।।
६७१३-१ उदयति कलमन्द्रैः कण्ठतालैरलीनां कुमुदमुकुलकेषु व्यञ्जयन्न गहारान् ।
६७१३-२ मदमुखरचकोरीतोयकर्मान्तिकोऽयं तुहिनरुचिरधामा दक्षिणं लोकचक्षुः ।।
६७१४-१ उदयति तडिच्चित्रं मित्रं रतेः कमलद्वयी कुसुमितनवस्तम्भे रम्भे विधाय तनोरधः ।
६७१४-२ तडिति वलति व्य्ॐअ व्य्ॐआश्रयं च गिरिद्वयं गिरिपरिसरे कम्बुः कम्बौ कलानिधिमण्डलं ।।
६७१५-१ उदयति तपनेऽपि चेत्तमिस्रं वद कुत एव दिनक्षपाविवेकः ।
६७१५-२ भगवति यदि कर्म दुर्निवार्यं तव चरणस्मरणेन साध्यते किं ।।
६७१६-१ उदयति तरुणिमतरणी शैशवशशिनि प्रशान्तिमायाते ।
६७१६-२ कुचचक्रवाकयुगलं तरुणितटिन्यां मिथो मिलति ।।
६७१७-१ उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः ।
६७१७-२ उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशा कः ।।
६७१८-१ उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः ।
६७१८-२ विकसति यदि पद्मं पर्वताग्रे शिलायां न भवति पुनरुक्तं भाषितं सज्जनानां ।।
६७१९-१ उदयति विततोर्ध्वरश्मिरज्जा- वहिमरुचौ हिमधाम्नि याति चास्तं ।
६७१९-२ वहति गिरिरयं विलम्बिघण्टा- द्वयपरिवारितवारणेन्द्रलीलां ।।
६७२०-१ उदयति हि शशा कः कामिनीगण्डपाण्डुर् ग्रहगणपरिवारो राजमार्गप्रदीपः ।
६७२०-२ तिमिरनिकरमध्ये रश्मयो यस्य गौराः स्रुतजल इव प के क्षीरधाराः पतन्ति ।।
६७२१-१ उदयति हृदि यस्य नैव लज्जा न च करुणा न च कोऽपि भीतिलेशः ।
६७२१-२ बकुलमुकुलकोशक्ॐअलां मां पुनरपि तस्य करे न पातयेथाः ।।
६७२२-१ उदयदुदयदीक्षणाय पत्युश्चपलदृशस्त्रपया निरुध्यमानं ।
६७२२-२ मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः ।।
६७२३-१ उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु ।
६७२३-२ गणयामि नैव सर्वं दयिताभिमुखेन हृदयेन ।।
६७२४-१ उदयन्नेष सविता पद्मेष्वर्पयति श्रियं ।
६७२४-२ विभावयितुमृद्धीनां फलं सुहृदनुग्रहं ।।
६७२५-१ उदयप्रभसूरीन्द्रः प्रथितः प्रतिभोदयः ।
६७२५-२ नानादिव्यप्रबन्धानां निर्मातायं विराजते ।।
६७२६-१ उदयप्रभसूरीन्द्रे प्रकाशयति भूतलं ।
६७२६-२ अपरे विबुधाः सर्वे निष्प्रभा इव सर्वतः ।।
६७२७-१ उदयमयते दि मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
६७२७-२ रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ।।
६७२८-१ उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा ।
६७२८-२ स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठा गनायाः ।।
६७२९-१ उदयशिखरिशृ गप्रा गणेष्वेष रि गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः ।
६७२९-२ विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽ के हेलया बालसूर्यः ।।
६७३०-१ उदयसिंह धराधिपतौ त्वयि स्फुरति किं रविणा विधुनापि वा ।
६७३०-२ स्वमहसा हि विकाशयसे जगथ्स्वयशसा च सुशीतलयस्यपि ।।
६७३१-१ उदयस्थः सहस्रांशुर्दृष्टेरायाति गम्यतां ।
६७३१-२ अतिरिक्तं कदा कं वा ल घयन्ति न योषितः ।।
६७३२-१ उदयाद्रेरुड्डीनो दिनं भ्रमित्वा पत गोऽयं ।
६७३२-२ अद्य प्रदोषसमये वडवाज्वलने जुहोति देहं स्वं ।।
६७३३-१ उदयास्तौ मूलाख्यौ उत्तरयाम्यौ ध्रुवनिवासनामानौ ।
६७३३-२ नैरृतवायव्यौ च प्रयाणचरकाह्वयौ तेषां ।।
६७३४-१ उदये सवितारक्तो रक्तश्चास्तमये तथा ।
६७३४-२ संपत्तौ च विपत्तौ च महतामेकरूपता ।।
६७३५-१ उदरं नतमध्यपृष्ठता- स्फुटद गुष्ठपदेन मुष्टिना ।
६७३५-२ चतुर गुलमध्यनिर्गत- त्रिवलिभ्राजि कृतं दमस्वसुः ।।
६७३६-१ उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु ।
६७३६-२ धृततच्चतुर गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ।।
६७३७-१ उदर एव धृतः किमुदन्वता न विषमो वडवानलवद्विधुः ।
६७३७-२ विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ।।
६७३८-१ उदरदरीयं गहना यद्गतमखिलं विलीयते क्वचन ।
६७३८-२ एका तत्र च भुजगी विलापयति कं न सा दुष्टा ।।
६७३९-१ उदरद्वयभरणभयादर्धा गाहितदारः ।
६७३९-२ यदि नैवं तस्य सुतः कथमद्यापि कुमारः ।।
६७४०-१ उदरम्भरिता लोके तवैव नान्यस्य दुःशका दृष्टा ।
६७४०-२ उत्सृष्टपुरीषमपि स्वादूकुर्वन्वराह यद्भु क्षे ।।
६७४१-१ उदरस्येदमणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य ।
६७४१-२ स्वार्थे कथमलसत्वं कथमनुसत्वं हितकरणे मतिरस्य ।।
६७४२-१ उदरार्थं न यत्किंचिन्निषेवेत कदाचन ।
६७४२-२ न हंसो वर्णसाम्येऽपि बकवन्मत्स्यभुग्यतः ।।
६७४३-१ उदर्कभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते ।
६७४३-२ चतुर्थीचन्द्रलेखेव परस्त्रीभालपट्टिका ।।
६७४४-१ उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितं ।
६७४४-२ मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ।।
६७४५-१ उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णजटिले यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः ।
६७४५-२ गुहागर्भे शून्ये सुचिरमुषितं जम्बुक सखे तदेतत्किं कुर्मो यदसि न गतः सिंहसमतां ।।
६७४६-१ उदायुधो यावदहं तावदन्यैः किमायुधैः ।
६७४६-२ यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ।।
६७४७-१ उदारचरितात्त्यागी याचितः कृपणोऽधिकः ।
६७४७-२ एको धनं ततः प्राणानन्यः प्राणांस्ततो धनं ।।
६७४८-१ उदारस्य तृणं वित्तं शूरस्य मरणं त्र्णं ।
६७४८-२ विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ।।
६७४९-१ उदारांस्त्वदृते नान्यान्प्रपश्याम्ययि पार्वति ।
६७४९-२ श्रीरामभक्तिमाणिक्यं अदेयमपि देहि मे ।।
६७५०-१ उदारैर्मन्दारै रचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा विपुलपुलकालंकृततनुः ।
६७५०-२ कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप- स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ।।
६७५१-१ उदासीनालीनामपि वचसि लीनातनुलसथ्त्रपाधीना दीनालपनपदवीनायकधृता ।
६७५१-२ कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ।।
६७५२-१ उदासीनो देवो मदनमथनः सज्जनकुले कलिक्रीडासक्तः कृतपरिजनः प्राकृतजनः ।
६७५२-२ इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे कथं भ्रातः स्थाता कथय सुकृतिन्कुत्र विभयः ।।
६७५३-१ उदाहरणमाशीःषु प्रथमे ते मनस्विनां ।
६७५३-२ शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ।।
६७५४-१ उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
६७५४-२ विदिते गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ।।
६७५५-१ उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण ।
६७५५-२ मुदितं च सकलललना- चूडामणिशासनेन मदनेन ।।
६७५६-१ उदितः समयः श्रयतेऽस्तमयं कृतकं सकलं लभते विलयं ।
६७५६-२ सकलानि फलानि पतन्ति तरोः सकला जलधिं समुपैति नदी ।।
६७५७-१ उदितमुदितो हन्ति ध्वान्तं सहस्रकरः करैर् निहतनिहितं भूयो भूयस्तमः परिजृम्भते ।
६७५७-२ विरमति तमो नेदं नायं निषीदति भानुमान् न खलु विकसद्वैरा धीराः कथंचिदुदासते ।।
६७५८-१ उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ।
६७५८-२ संकुचसि कमल यदयं हर हर वामो विधिर्भवतः ।।
६७५९-१ उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽतिप्रपञ्चे ।
६७५९-२ सपदि पदमुदीतं केवलः प्रत्ययो यस् तदियदिति च वक्तुं कः क्षमः पण्डितोऽपि ।।
६७६०-१ उदिते दृष्टिसुखे त्वयि शशिनीव भवन्ति चन्द्रकान्तानि ।
६७६०-२ वदनान्यरिनारीणां अविरलजलबिन्दुवर्षीणि ।।
६७६१-१ उदितेऽपि तवावनीन्द्र तेजस् तपने स्फारगभस्तिभारभाजि ।
६७६१-२ तव वैरिनृपायशस्तमांसि स्फुरदुज्जृम्भितमाचरन्ति चित्रं ।।
६७६२-१ उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत् ।
६७६२-२ अपराह्णे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितं ।।
६७६३-१ उदितैरन्यपुष्टानां आरुतैर्मे हतं मनः ।
६७६३-२ उदितैरपि ते दूति मारुतैरपि दक्षिणैः ।।
६७६४-१ उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः ।
६७६४-२ कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ।।
६७६५-१ उदितोरुसादमतिवेपथुमथ्सुदृशोऽभिभर्तृ विधुरं त्रपया ।
६७६५-२ वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् ।।
६७६६-१ उदीच्यां सस्यनिष्पत्तिर्याम्यां निष्पत्तिनाशनं ।
६७६६-२ गृहान्निर्गच्छतां वमे शुभं क्षेत्रे च दक्षिणं ।।
६७६७-१ उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः ।
६७६७-२ अनुक्तमप्यूहति पण्डितो जनः परे गितज्ञान फला हि बुद्धयः ।।
६७६८-१ उदीर्णमनसो योध वाहनानि च भारत ।
६७६८-२ यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयो भवेत् ।।
६७६९-१ उदीर्यमाणेऽपि च सान्त्ववादे मानापनोदो नहि राधिकायाः ।
६७६९-२ मानोऽस्तु ते यद्यपराधिकः स्यां स्वप्नेऽपि नैवास्म्यपराधिकोऽहं ।।
६७७०-१ उदुम्बरद्रुमानष्टौ रोपयेत्स्वयमेव यः ।
६७७०-२ प्रेरयेद्रोपणायापि चन्द्रलोके स मोदते ।।
६७७१-१ उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा ।
६७७१-२ सर्वगर्वापहः कालस्तस्य के मशका वयं ।।
६७७२-१ उदेति घनमण्डली नटति नीलकण्ठावली तडिद्वलति सर्वतो वहति केतकीमारुतः ।
६७७२-२ तथापि यदि नागतः स सखि तत्र मन्येऽधुना दधाति मकरध्वजस्त्रुटितशिञ्जिनीकं धनुः ।।
६७७३-१ उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
६७७३-२ निमित्तनैमित्तिकयोरयं क्रमस् तव प्रसादस्य पुरस्तु संपदः ।।
६७७४-१ उदेति यस्यां न निशाकरो रिपुस् तिथिर्नु का पुण्यवतीभिराप्यते ।
६७७४-२ इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूरित्यलमाह कोकिलः ।।
६७७५-१ उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
६७७५-२ संपत्तौ च विपत्तौ च महतामेकरूपता ।।
६७७६-१ उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि ।
६७७६-२ जिगीषुरेको दिनकृदादित्येष्विव कल्पते ।।
६७७७-१ उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशिमणि- स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः ।
६७७७-२ चकोरैरुड्डीनैर्झटिति कृतश काः प्रतिपदं पराञ्चः संचारानविनयवतीनां विवृणुते ।।
६७७८-१ उद्गच्छत्यलिझ कृतिः स्मरधनुर्ज्यामञ्जुगुञ्जारवैर् निर्याता विषलिप्तभल्लिविषमाः कंकेल्लिफुल्लच्छटाः ।
६७७८-२ रे संप्रत्यपवित्रमत्र पथिकाः सारम्भमुज्जृम्भते चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः ।।
६७७९-१ उद्गता मथनक्षोभात्फेनराजिः पयोदधेः ।
६७७९-२ तारकावलिरित्यज्ञैरियं सखि निवेद्यते ।।
६७८०-१ उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः ।
६७८०-२ व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः ।।
६७८१-१ उद्गमनोपनिवेशन- शयनपरावृत्तिवलनचलनेषु ।
६७८१-२ अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ।।
६७८२-१ उद्गर्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन्प्रतिध्वानिनीः ।
६७८२-२ उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रे खदसंख्यश खवलया वेलेयमागच्छति ।।
६७८३-१ उद्गर्जन्कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः ।
६७८३-२ स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवास्स्व तत्रैव वा दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन्पीयते ।।
६७८४-१ उद्गर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतिस्तननिवेशनिभं हिमांशोः ।
६७८४-२ बिम्बं कठोरबिसकाण्डकडारगौरैर् विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ।।
६७८५-१ उद्गृह्य वीटीग्रथनं नतभ्रूर् आच्छाद्य वक्षःस्थलमञ्चलेन ।
६७८५-२ उत्तारयन्ती निविडं निचोलं मनोभवस्यापि मनो मिनोति ।।
६७८६-१ उद्ग्राहश्चान्यधातुः स्याद्ध्रुवकश्चान्यधातुकः ।
६७८६-२ मेलापकोऽन्यधातुः स्यादाभोगश्चान्यधातुकः ।
६७८६-३ चतुर्धातुकमेतद्धि रूपकं कीर्त्यते बुधैः ।।
६७८७-१ उद्ग्राहस्याद्यखण्डे च न्यासः स ध्रुवको मतः ।
६७८७-२ एवं हि षट्पदः प्रोक्त उत्तमो ध्रुवको बुधैः ।।
६७८८-१ उद्ग्राहो ध्रुपदश्च स्यादाभोगस्तदनन्तरं ।
६७८८-२ नियमस्त्रिविधो ज्ञेयो मण्ठकस्य विचक्षणैः ।।
६७८९-१ उद्ग्रीवं खलु वीक्षितं वपुरिदं लज्जालसं यत्तदा गच्छन्त्याः सखिसंनिधौ किमपि यन्निर्वर्णकं भाषितं ।
६७८९-२ हे प्राणा विरहेण यात किमिदं नैर्घृण्यमालम्बितं तत्स्मृत्वा यदि युक्तमासितुमहो यूयं प्रमाणं मम ।।
६७९०-१ उद्ग्रीवस्तिमितेक्षनस्तत इतः पश्यन्निलीय स्थितं पादोद्घृष्टिपरस्परप्रतिभयभ्रान्तं चलत्पक्षतिः ।
६७९०-२ द्राक्त्रोटीपुरकोटिकुण्ठितरयं प्राक्तिर्यगूर्ध्वीकृतं गर्भान्तःप्रणयीचकार शफरं कासारचारी बकः ।।
६७९१-१ उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवः पक्षासंभववेपमानतनवः प्रोड्डीय किंचिद्भुवः ।
६७९१-२ अन्योन्याक्रमिणः शरारिशिशवः प्रातर्नदीरोधसि प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतं ।।
६७९२-१ उद्घातयेद्दक्षिणमक्षि यक्षो हस्तेन मृद्नात्यथ दक्षिणेन ।
६७९२-२ यस्याभिषेके स भवेत्स्वशक्त्या क्षितीशलक्षेक्षितपादपद्मः ।।
६७९३-१ उद्घाटितनवद्वारे पञ्जरे विहगोऽनिलः ।
६७९३-२ यत्तिष्ठति तदाश्चार्यं प्रयाणे विस्मयः कुतः ।।
६७९४-१ उद्घाट्य चेद्दक्षिणमक्षि लीढे नाभिं स्वकीयामथवाधिरूढः ।
६७९४-२ शेते गृहस्योपरि जागरूकस् तदाम्बुदोऽम्बु क्षिपति प्रभूतं ।।
६७९५-१ उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः ।
६७९५-२ यः प्रस्फुरत्यविरतं परिपूर्णरूपः श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ।।
६७९६-१ उद्दण्डकोकनदक्ॐअलकोशकान्तिः कान्ताकचग्रहणकण्टकितप्रकोष्ठः ।
६७९६-२ मित्रद्विजातिरिपुवर्गविलासिनीनां संमानदानभयभोगकरः करस्ते ।।
६७९७-१ उद्दण्डे भुजदण्डे तव कोदण्डे परिस्फुरति ।
६७९७-२ अरिमण्डलरविमण्डल- रम्भाकुचमण्डलानि वेपन्ते ।।
६७९८-१ उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकादिव च्छायाः संप्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहां ।
६७९८-२ किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्- क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः ।।
६७९९-१ उद्दामदक्षिणमरुद्भरचालिताभिः शाखाभिराकुलतरं रुतवारणाय ।
६७९९-२ मा मेति कोकिलकुलं वदतीव वृक्षः स्त्रैणं वियोगविधुरं कृपया विलोक्य ।।
६८००-१ उद्दामदन्तरुचिपल्लवितार्धचन्द्र- ज्योत्स्नानिपीततिमिरप्रसरोपरोधः ।
६८००-२ श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर् अम्भोधरावलिघनध्वनिरट्टहासः ।।
६८०१-१ उद्दामदानद्विपवृन्दबृंहितैर् नितान्तमुत्तु गतुरंगहेषितैः ।
६८०१-२ चलद्घनस्यन्दननेमिनिःस्वनैर् अभून्निरुच्छ्वासमिवाकुलं जगत् ।।
६८०२-१ उद्दामदिग्द्विरदचञ्चलकर्णपूर- गण्डस्थलोच्चलदलिस्तबकाकृतीनि ।
६८०२-२ मीलन्नभांसि मृगनाभिसमानभांसि दिक्कन्दरेषु विलसन्तितमां तमांसि ।।
६८०३-१ उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल- ज्वालाजालजटालजा गलतटीनिष्कूजकोयष्टयः ।
६८०३-२ भ्ॐओष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् आयुःकर्म समापयन्ति धिगमूर्मध्येऽह्नि शून्या दिशः ।।
६८०४-१ उद्दामद्रुमभ गभीमदशनो येनाभ्यघानि द्विपः सोऽयं वञ्चकचेष्टितैस्त्यजति किं पञ्चाननः काननं ।
६८०४-२ तत्प्रीतिर्न्न कृतिः समं न समरं क्षान्तिर्मनोग्लानये श्रेयानित्ययमस्य माननिधिनो यत्काननोपक्रमः ।।
६८०५-१ उद्दामद्विरदावलूनबिसिनीसौरभ्यसंभावित- व्य्ॐआनः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः ।
६८०५-२ दूरोत्तानतर गल घनकलाज घालगर्वस्पृशः कर्पूरद्रवशीकरैरिव दिशो लिम्पन्ति पम्पानिलाः ।।
६८०६-१ उद्दामभ्रमिवेगविस्तृतजटावल्लीप्रणालीपतत्- स्वर्ग गाजलदण्डिकावलयितं निर्माय तत्पञ्जरं ।
६८०६-२ संभ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायितस् त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्त्रायतां ।।
६८०७-१ उद्दामाम्बुदगर्हितान्धतमसप्रध्वस्तदि मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले ।
६८०७-२ कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुरादायातासि तदम्बुजाक्षि कृतकं मन्ये भयं योषितां ।।
६८०८-१ उद्दामाम्बुदवर्ध मानशिखिनीकेकातिरेकाकुले संप्राप्यं सलिलं स्थलेष्वपि सदा निस्तर्षवर्षागमे ।
६८०८-२ भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं मुहुर् दीनं मीनकुलं न पालयसि चेत्कासार का सारता ।।
६८०९-१ उद्दामार्कमरीचिमूर्छितदृशां येनाध्वगानामयं वेलालम्बनजागरूकमनसामारम्भि कर्णज्वरः ।
६८०९-२ क्लेशोच्छृ खलचेतसः प्रविशतो गण्डूषगर्भं मुनेर् लीनः कुत्र महार्णवस्य स पुनः कल्लोलकोलाहलः ।।
६८१०-१ उद्दामार्कांशुदीप्यद्दिनमणिमणिभिर्भस्मितान्ते समन्ताद्वायुव्याधूयमानज्वलनकणगणाकीर्णधूलिप्रकीर्णे ।
६८१०-२ कान्तारेऽस्मिन्नृपार्ते पथि पथिक भवे क्वापि पाथोदसेना- सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र ग गाप्रवाहः ।।
६८११-१ उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणादायासं श्वसनोद्गमैरविरतैरातन्वतीमात्मनः ।
६८११-२ अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहं ।।
६८१२-१ उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभ्रूः ।
६८१२-२ एवमवतंसमाक्षिपदाहतदीपो यथा पतति ।।
६८१३-१ उद्दिष्टं वस्तु रागादौ किंचिदाधिक्यचिन्तितं ।
६८१३-२ तद्धातुमातुनिष्पन्नं प्रत्यन्तरमितीरितं ।।
६८१४-१ उद्दीपितोऽपि कनकद्युतिमञ्जुलोऽपि स्नेहान्वितोऽपि सुदृशोऽपि सुवर्तितोऽपि ।
६८१४-२ कान्ताकरान्तरकुचच्छविमण्डितोऽपि स्वाभाविकीं मलिनतां न जहाति दीपः ।।
६८१५-१ उद्दीप्ताग्निरसौ मुनिर्विजयते यस्योदरे जीर्यतः पाथोधेरवशिष्टमम्बु कथमप्युद्गीर्णमन्यार्णवं ।
६८१५-२ किं चास्माज्जठरानलादिव नवस्तत्कालवान्तिक्रमान् निर्यातः स पुनर्यमाय पयसामन्तर्गतो वाडवः ।।
६८१६-१ उद्देशोऽयं कनकसिकताक्ॐअलैकान्तकान्ता- लीलावासीकृततरुतलः कामिभिर्नर्मदायाः ।
६८१६-२ किंचैतस्मिन्सुरतसचिवास्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकण्ठकोपो मनोभूः ।।
६८१७-१ उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षा कुरितरमणीविभ्रमो नर्मदायाः ।
६८१७-२ किं चैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ।।
६८१८-१ उद्धता अलमुद्धर्तुं औद्धत्यं दुरितात्मनां ।
६८१८-२ क्षाराणामेव सामर्थ्यं मलनाशाय वाससां ।।
६८१९-१ उद्धतैरिव परस्परस गादीरितान्युभयतः कुचकुम्भैः ।
६८१९-२ योषितामतिमदेन जुघूर्णुर् विभ्रमातिशयपुंषि वपूंषि ।।
६८२०-१ उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः ।
६८२०-२ श्रूयते स्म मणितं कलकाञ्ची- नूपुरध्वनिभिरक्षतमेव ।।
६८२१-१ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
६८२१-२ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।।
६८२२-१ उद्धर्तुं किल शैलकेलिरभसस्रस्तानि पाथोनिधेर् अन्तर्भूषणमौक्तिकानि दिविजस्त्रीभिः समुत्कण्ठया ।
६८२२-२ गाढं तत्र निमज्जितेन रविणा बद्ध्वा दृढं रश्मिभिः प्रोत्क्षिप्तानि निपत्य तानि गगने तारापदेशं दधुः ।।
६८२३-१ उद्धर्तुं धरणीं निशाकररवी क्षेप्तुं मरुन्मार्गतो वातं स्तम्भयितुं पयोनिधिजलं पातुं गिरिं चूर्णितुं ।
६८२३-२ शक्ता यत्र विशन्ति मृत्युवदने कान्यस्य तत्र स्थितिर् यस्मिन्याति गिरिर्बिले सह वनैः कात्र व्यवस्था ह्यणोः ।।
६८२४-१ उद्धव माधवसविधे विनिवेद्यं सर्वथा भवता ।
६८२४-२ अपि बहुमूल्यं भवनं यमुनाकुञ्जोपमं न स्यात् ।।
६८२५-१ उद्धूतकामानलतापतप्ता विहाय दोषाधिकजां तु चिन्तां ।
६८२५-२ वनादिरागावयवप्रभेदं नरेति मत्वा वनिता रमन्ते ।।
६८२५आ-१ उद्धूतपांसुपटलानुमितप्रबन्ध- धावत्खुराग्रचयचुम्बितभूमिभागाः ।
६८२५आ-२ निर्मथ्यमानजलधिध्वनिघोरघोषं एते रथं गगनसीम्नि वहन्ति वाहाः ।।
६८२६-१ उद्धूता धूमधारा विरहिजनमन्ॐआथिनो मन्मथाग्नेः कस्तूरीपत्रमाला तिमिरततिरहो दिक्पुरन्ध्रीमुखानां ।
६८२६-२ निर्वाणा गारलेखा दिवसहुतभुजः संचरच्चञ्चरीक- श्रेणीयं भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ।।
६८२७-१ उद्धूय धूलीर्धवला रसातलाद्वात्या लगन्ती गगने व्यवर्तत ।
६८२७-२ फूत्कारयन्त्येव भुवोद्धृता भुजा निदाघतापाकुलया तपात्यये ।।
६८२८-१ उद्धूयेत तनूलतेति नलिनीपत्रेण नो वीज्यते स्फोटः स्यादिति ना गकं मलयजक्षोदाम्भसा सिच्यते ।
६८२८-२ स्यादस्यातिभरात्पराभव इति प्रायो न वा पल्लवा- रोपो वक्षसि तत्कथं कृशतनोराधिः समाधीयतां ।।
६८२९-१ उद्धूयेत नतभ्रूः पक्ष्मनिपातोद्भवैः पवनैः ।
६८२९-२ इति निर्निमेषमस्या विरहवयस्या विलोकते वदनं ।।
६८३०-१ उद्धृतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
६८३०-२ ते वै यथोक्तवक्तारो न वध्याः पृथिवीभुजा ।।
६८३१-१ उद्धृतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि ।
६८३१-२ परुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ।।
६८३२-१ उद्ध्रियमानेन्दुकरैर् उन्मज्जत्यन्धकारवारिनिधेः ।
६८३२-२ क्वापि क्वापि विलग्न- च्छायाजम्बालधोरणी धरणी ।।
६८३३-१ उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणां ।
६८३३-२ उल्कालोकैः स्फुरद्भिर्निजवदनगुहोत्सर्पिभिर्वीक्षितेभ्यश्च्योतत्सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ।।
६८३४-१ उद्बन्धनं दृढं गाढं सिंहोऽपि सहते यदि ।
६८३४-२ कथं करटिनस्तर्हि नृपचिह्नानि बिभ्रति ।।
६८३५-१ उद्भर्तृगामिनी पुरुष- भाषिणी कामचिह्नकृतवेशा ।
६८३५-२ या नातिमांसयुक्ता सुराप्रिया सर्वतश्चपला ।।
६८३६-१ उद्भाव्यमानो नलिनीपलाशैः समीरणस्तद्धृदयास्पदस्य ।
६८३६-२ करोति दाहस्य निवारणं नु संधुक्षणं वा स्मरपावकस्य ।।
६८३७-१ उद्भासिताखिलखलस्य विशृ खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।
६८३७-२ दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमास्यते कैः ।।
६८३८-१ उद्भासितेऽन्धतमसव्रज एति नाशं सूने प्रयान्त्युभयतोऽतिमरन्दमुग्धाः ।
६८३८-२ सिंहा निहत्य रुधिरं बहु भक्षितं यद्दीपा कुरे मधुकराः करिणं वमन्ति ।।
६८३९-१ उद्भिदुरं स्तनवदनं लोचनमलिगर्वमोचनं सुदृशः ।
६८३९-२ दृष्ट्वा विगतविचारं धातारं निन्दति स्थविरः ।।
६८४०-१ उद्भिन्नं किमिदं मनोभवनृपक्रीडारविन्दद्वयं सूते तत्कथमेकतः किल लसद्र्ॐआवलीनालतः ।
६८४०-२ चक्रद्वन्द्वमिदं क्षमं तदपि न स्थातुं मुखेन्दोः पुरो लावण्याम्बुनिमग्नयौवनगजस्यावैमि कुम्भद्वयं ।।
६८४१-१ उद्भिन्नयौवनमनोहररूपशोभा- संभाविताभिनवभोगमनोभवानां ।
६८४१-२ एणीदृशां त्वदुपदेशविवर्जितानां मातर्भवन्ति नहि नाम समीहितार्थाः ।।
६८४२-१ उद्भिन्नसात्त्विकविकारपरिप्लवानि सद्यस्तिरस्कृतमनोभववेदनानि ।
६८४२-२ तन्वि त्वद गपरिरम्भसुखामृतानि प्रादुर्भवन्तु पुनरागतजीवितानि ।।
६८४३-१ उद्भिन्नस्तनकुड्मलद्वयमुरः किंचित्कपोलस्थलीं लिम्पत्येव मधूककान्तिरधरः संमुग्धलक्ष्मीमयः ।
६८४३-२ प्रत्यासीदति यौवने मृगदृशः किं चान्यदाविर्भवल् लावण्यामृतप कलेपलडहच्छायं वपुर्वर्तते ।।
६८४४-१ उद्भिन्नस्तबकावतंससुभगाः प्रे खन्मरुन्नर्तिताः पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्ड त्विषः ।
६८४४-२ गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्यमू भूरुहः ।।
६८४५-१ उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः ।
६८४५-२ अन्यस्तन्वि तथापि ते त्रिणयनप्लुष्टस्य जीवार्पणः पञ्चेषोरुचितप्रपञ्चितरसः पाकाञ्चितः पञ्चमः ।।
६८४७-१ उद्भेदं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमाथ्पुंनागाकृतिमाप्य पूगपदवीमारुह्य बिल्वश्रियं ।
६८४७-२ लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमिभावस्याः स्तनौ बिभ्रतः ।।
६८४८-१ उद्भ्रान्तभेककुलकीर्णजले तडागे कोऽप्यस्ति नाम यदि नान्यगतिर्बकोटः ।
६८४८-२ उत्फुल्लपद्मसुरभीणि सरांसि हित्वा न स्थातुमर्हति भवानिह राजहंस ।।
६८४९-१ उद्यच्छता धुरमकापुरुषानुरूपां गन्तव्यमाजिनिधनेन पितुः पथा वा ।
६८४९-२ आच्छिद्य वा स्वजननीजनलोचनेभ्यो नेयो मया रिपुवधूनयनानि बाष्पः ।।
६८५०-१ उद्यज्ज्वालावलीभिर्वरमिह भुवनप्लोषके हव्यवाहे र गद्वीचौ प्रविष्टं जलनिधिपयसि ग्राहनक्राकुले वा ।
६८५०-२ संग्रामे वारिरौद्रे विविधशरहतानेकयोधप्रधाने नो नारीसौख्यमध्ये भवशतजनितानन्तदुःखप्रवीणे ।।
६८५१-१ उद्यञ्छशी तरुणभास्करकान्तिचौरः स्पर्शेन शीतकरलालितया प्रदोषे ।
६८५१-२ ज्ञातोऽर्धसुप्तनलिनीप्रियया सलज्जः पाण्डुत्वमाप रभसादिव मन्मथार्तः ।।
६८५२-१ उद्यतं शस्त्रमालोक्य विषादं याति विह्वलः ।
६८५२-२ जीवनं प्रति संत्रास्तो नास्ति मृत्युसमं भयं ।।
६८५३-१ उद्यतमेकहस्तचरणं द्वितीयकररेचितं सुविनतं वंशमृद गवाद्यमधुरं विचित्रकरणान्वितं बहु विधं ।
६८५३-२ मद्रकमेतदद्य सुभगैर्विदग्धगतिचेष्टितैः सुललितैर् नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ।।
६८५४-१ उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः ।
६८५४-२ पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ।।
६८५५-१ उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
६८५५-२ अपि निर्मुक्तस गस्य कामरक्तस्य किं पुनः ।।
६८५६-१ उद्यतासिर्नृपो यत्र तत्रैव धनरक्षणं ।
६८५६-२ कण्टकाकुलशाख्यायां लग्नं गृह्णाति नो फलं ।।
६८५७-१ उद्यतेत यथाशक्ति न प्रसज्येत जातुचित् ।
६८५७-२ साध्यानां सिद्ध्यसिद्धी यन्नियत्या नियते कृते ।।
६८५८-१ उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
६८५८-२ सदैवावध्यभावेन यथार्थस्य हि वाचकः ।।
६८५९-१ उद्यतेष्वपि शस्त्रेषु यथोक्तं शासनं वदेत् ।
६८५९-२ रागापरागौ जानीयाद्दृष्टिवक्त्रविचेष्टितैः ।।
६८६०-१ उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः ।
६८६०-२ कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः ।।
६८६१-१ उद्यत्ताराधिनाथद्युतिहृतिपटवः सान्द्रसिन्दूरशोणाः श्रीमद्वेतण्डतुण्डप्रतिभटबटवः पद्मरागातिरागाः ।
६८६१-२ दूरादानम्रकम्रच्छविरविकिरणश्रेणिकिर्मीरितान्ता गुञ्जापुञ्जानुरागद्विगुणितमहसः पान्तु कृष्णा घ्रिभासः ।।
६८६२-१ उद्यत्तारुण्यवारुण्यतिशयितमदोच्छ्वासचारुण्यती व प्रोदञ्चत्पञ्चबाणप्रचुररुचिरदृक्चञ्चरीकप्रपञ्चे ।
६८६२-२ मन्दश्रीश्चन्द्रमास्ते सति सुतनु मुखे प्रोच्छ्वसत्तन्द्रमास्ते हीनं शोभाभिरम्भोरुहमपि रजनौ नैति रम्भोरु हासं ।।
६८६३-१ उद्यत्सौरभगर्भनिर्भरमिलद्वाला कुरश्रीमृतो माकन्दानवलोक्य यः प्रतिदिशं सानन्दमुत्कूजितः ।
६८६३-२ तानेवाद्य फलाशया परिरटल्लुण्ठाककाकावली- वाचालानुपलभ्य कोकिलयुवा जातः स वाचंयमः ।।
६८६४-१ उद्यद्गन्धप्रबन्धां परमसुखरसां कोकिलालापजल्पां पुष्पस्रक्सौकुमार्यां कुसुमशरवधूं रूपतो निर्जयन्तीं ।
६८६४-२ सौख्यं सर्वेन्द्रियाणामभिमतमभितः कुर्वतीं मानसेष्टां सत्सौभाग्याल्लभन्ते कृतसुकृतवशाः कामिनीं मर्त्यमुख्याः ।।
६८६५-१ उद्यद्दुःसहवित्ततानवतया बद्धावधाने मनस्य् उन्मार्गभ्रमणेऽवशस्य रभसाच्छ्वभ्रे परिभ्राम्यतः ।
६८६५-२ अन्योऽपाहितकोशपृष्ठलुठनात्संदर्शिता गक्षतेर् जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुल्ॐयो विधिः ।।
६८६६-१ उद्यद्बर्हिषि दर्दुरारवपुषि प्र्क्षीणपान्थायुषि श्च्योतद्विप्रुषि चन्द्ररु मुषि सखे हंसद्विषि प्रावृषि ।
६८६६-२ मा मुञ्चोच्चकुचाग्रसन्ततपतद्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्तभास्वत्त्विषि ।।
६८६७-१ उद्यद्बाला कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां रोहन्मूला सुगौरैरुरगपतिफणैरत्र पातालकुक्षौ ।
६८६७-२ अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधार्द्रं ।।
६८६८-१ उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो भृ गालीविरुतैः कलैरविशदव्याहारलीलाभृतः ।
६८६८-२ घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर्मुहुर् भ्रान्तिं प्राप्य मधुप्रस गमधुना मत्ता इवामी द्रुमाः ।।
६८६९-१ उद्यद्विलोचनहुताशतडिद्विकाश- व्यासंगिनी सुरधुनीपयसा सगर्भा ।
६८६९-२ भ्राजत्कलानिधिबलाकविशोभमाना पायाज्जटाघनघटा वृषभध्वजस्य ।।
६८७०-१ उद्यद्विवेकतपनप्रफुल्ले हृदयाम्बुज ।
६८७०-२ विशते भगवद्भक्तिररविन्द इवेन्दिरा ।।
६८७१-१ उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
६८७१-२ सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ।।
६८७२-१ उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः ।
६८७२-२ न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ।।
६८७३-१ उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
६८७३-२ आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ।।
६८७४-१ उद्यन्नित्यं त्वरितस् तमोऽपगमयति करैः समाकृष्य ।
६८७४-२ महितस्तदसि स्थाने मित्र पुमांस्त्वं परे क्लीबाः ।।
६८७५-१ उद्यन्नेव जगद्विसृत्वरघनध्वान्तौघमध्वंसयः पादन्यासमशेषभूधरशिरः पीठीतटेषु न्यधाः ।
६८७५-२ धिक्कृत्येन्दुमपि श्रियं व्यतनुथाः पद्माप्तपद्मोत्करे जीवेद्वासरमेव वा त्वमिव यस्तज्जीवनं जीवनं ।।
६८७६-१ उद्यन्महानिलवशोत्थविचित्रवीचि- विक्षिप्तनक्रमकरादिनितान्तभीतिं ।
६८७६-२ अम्भोधिमध्यमुपयाति विवृद्धवेलं लोभाकुलो मरणदोषममन्यमानः ।।
६८७७-१ उद्यन्महीपालमरीचिमाली- शिलीमुखश्रेणिकरावलीभिः ।
६८७७-२ उदारभूदारघनान्धकार- संभारमुच्छिन्नतरं चकार ।।
६८७८-१ उद्यमं कुरुते जन्तुर्दैवं सर्वत्र कारणं ।
६८७८-२ समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषं ।।
६८७९-१ उद्यमं कुर्वतां पुंसां फलं भाग्यानुसारतः ।
६८७९-२ समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषं ।।
६८८०-१ उद्यमं कुर्वतां पुंसां फलं मार्जारकर्मवत् ।
६८८०-२ जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यशः ।।
६८८१-१ उद्यमः कलहः कण्डूर्द्यूतमद्यपरस्त्रियः ।
६८८१-२ निद्रा मैथुनमालस्यं सेवनात्तु विवर्धते ।।
६८८२-१ उद्यमः साहसं धैर्यं बलं बुधिः पराक्रमः ।
६८८२-२ षडेते यस्य तिष्ठन्ति तस्य देवोऽपि श कितः ।।
६८८३-१ उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः ।
६८८३-२ कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति ।।
६८८४-१ उद्यमाख्यानमपरं प्रकीर्णाख्यानकं तथा ।
६८८४-२ समस्याख्यानमपरं प्रहेल्यादिप्रशंसनं ।।
६८८५-१ उद्यमी लभते सिद्धिं अयोग्योऽपि सुनिश्चितं ।
६८८५-२ अनूरुर्गगनस्यान्तं प्रयात्येव दिने दिने ।।
६८८५आ-१ उद्यमी सिद्धिमाप्नोति सहाय्यविकलोऽपि चेत् ।
६८८५आ-२ एकचक्ररथोऽनूरुसूतोऽर्को व्य्ॐअ गाहते ।।
६८८६-१ उद्यमेन विना राजन्न सिध्यन्ति मनोरथाः ।
६८८६-२ कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति ।।
६८८७-१ उद्यमेन विना राजन्न सिध्यन्ति मनोरथाः ।
६८८७-२ नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।
६८८८-१ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
६८८८-२ नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।
६८८९-१ उद्यमे नास्ति दारिद्र्यं जप्यतो नास्ति पातकं ।
६८८९-२ मौनेन कलहो नास्ति नास्ति जागरतो भयं ।।
६८९०-१ उद्यमेनैव कार्याणि सिध्यन्ति न मनोरथैः ।
६८९०-२ नहि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ।।
६८९१-१ उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलं ।
६८९१-२ नारीलोचनचातुर्यश कासंकुचितं यथा ।।
६८९२-१ उद्यल्लावण्यलक्ष्मीवलयितवपुषां स्वर्गवारा गनानां आश्लेषे यः प्रमोदः स्फुरति च गरिमा योऽमृते माधुरीणां ।
६८९२-२ सौरभ्यं कु कुमे यत्पयसि विमलता याप्यहो तत्समस्तं मित्रैकत्रेक्षितुं चेदभिलषसि तदा पश्य कृष्णस्य काव्यं ।।
६८९३-१ उद्यात्येव सुहृत्कुलं प्रतिबलं यात्येव नीचैस्तरां आयान्त्येव यशःश्रियः प्रतिदिशं यान्त्येव सत्कीर्तयः ।
६८९३-२ येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रिया सर्वाश्चर्यमयः स एव जयति त्वत्खड्गधारापथः ।।
६८९४-१ उद्यानं क्ॐउदी गीतं कान्ता केलिः सुहृत्कथा ।
६८९४-२ कृतिनां सुकृतक्रीतः स्वर्गभोगो भुवि स्थितः ।।
६८९५-१ उद्यानं वनभूमयः कुसुमितैरुद्गन्धयः पादपैः शैला निर्झरहासिनो जलधरश्यामा गिरिः कृत्रिमः ।
६८९५-२ नद्यः सारसमूर्च्छितोर्मिवलया घर्माभिषेकास्पदं शीताः शीकरसंगमात्सुरभयो मित्रं सरोजानिलाः ।।
६८९६-१ उद्यानपाल कलशाम्बुनिषेचनानां एतस्य चम्पकतरोरयमेव कालः ।
६८९६-२ तस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः ।।
६८९७-१ उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः ।
६८९७-२ उदश्रयन्ति पान्थानां अस्पृशन्तोऽपि लोचने ।।
६८९८-१ उद्यानसहकाराणां अनुद्भिन्ना न मञ्जरी ।
६८९८-२ देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ।।
६८९९-१ उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासते भूमौ नोपविशन्ति ये खलु रजःसंपर्कतर्कादिव ।
६८९९-२ तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियं धिक्कष्टं परपुष्टतेति किमपि प्राचां फलं कर्मणां ।।
६९००-१ उद्यानेषु विचित्रभ्होजनविधिस्तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रमभितं भिक्षाटनं मण्डनं ।
६९००-२ आसन्नं मरणं च म गलसमं सत्यं समुत्पद्यते तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ।।
६९०१-१ उद्याने सहकारकोरकरसप्रत्याशया कोकिलः स्थातुं वाञ्छति चित्तजन्मनृपतेर्मित्रं च मन्त्री यतः ।
६९०१-२ किंतु ध्वा क्षविजृम्भितेषु च पिकप्रारब्धगानेषु च क्रेंकारेषु च पञ्चमध्वनिषु च श्रोता न वेत्त्यन्तरं ।।
६९०३-१ उद्योगः क्षयमेति हन्त सहसा जाड्यं समुज्जृम्भते मित्रस्यापि च दर्शनं भवति नो किं वान्यदाचक्ष्महे ।
६९०३-२ यल्लोकस्पृहणीयतां गतमभूत्तज्जीवनं व्यर्थतां प्राप्तं येन दुनोति तन्मम मनो दुर्दैववद्दुर्दिनं ।।
६९०४-१ उद्योगः शत्रुवन्मित्रं आलस्यं मित्रवद्विषं ।
६९०४-२ विषवच्चामृतं विद्या सुधावद्विषम गना ।।
६९०५-१ उद्योगः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
६९०५-२ उत्साहः षड्विधो यस्य तस्य देवोऽपि श कते ।।
६९०६-१ उद्योगमेधाधृतिसत्त्वसत्य- त्यागानुरागस्थितिगौरवाणि ।
६९०६-२ जितेन्द्रियत्वं प्रसहिष्णुता ह्रीः प्रागल्भ्यमित्यात्मगुणप्रवेकः ।।
६९०७-१ उद्योगादनिवृत्तस्य सुसहायस्य धीमतः ।
६९०७-२ छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ।।
६९०७आ-१ उद्योगानुसारी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
६९०७आ-२ अभ्यासानुसारी विद्या बुद्धिः कर्मानुसारिणी ।।
६९०८-१ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति ।
६९०८-२ दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।।
६९०९-१ उद्योगिनः करालम्बं करोति कमलालया ।
६९०९-२ अनुद्योगिकरालम्बं करोति कमलाग्रजा ।।
६९१०-१ उद्योगेन कृते कार्ये सिद्धिर्यस्य न विद्यते ।
६९१०-२ दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ।।
६९११-१ उद्योगेन विना नैव कार्यं किमपि सिध्यति ।
६९११-२ नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।
६९१३-१ उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद्द्रुतैव ।
६९१३-२ वियोगिवैरात्कुचयोर्नखा कैर् अर्धेन्दुलीलैर्गलहस्तितेव ।।
६९१४-१ उद्वर्तितमपि बहुधा- नुलिप्तमपि चन्दनागुरुरसाद्यैः ।
६९१४-२ भजति तथापि शरीरं दौर्गन्ध्यं तत्र को हेतुः ।।
६९१५-१ उद्वासयितुं वेश्मनि सरघाः कुर्वन्ति यन्मधुच्छत्त्रं ।
६९१५-२ दुर्गा करोति नीडं कुर्युर्वल्मीकमुपदीकाः ।।
६९१६-१ उद्वाहारोपितार्द्रक्षतनिजपदयोः संगतामिन्दुमौला- वानम्रे यां सुधांशोर्व्यधित किल कलां तूर्णमेवान्नपूर्णां ।
६९१६-२ सक्तानामक्षतानाममृतदृगनलोपाधितः पक्वभावान् नानार्थैरन्नपूर्णा प्रणतजनततेः पूर्णतामातनोतु ।।
६९१७-१ उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।
६९१७-२ धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ।।
६९१८-१ उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर् वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
६९१८-२ अम्भोभिर्मुहुरसिचद्वधूरमर्षादात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ।।
६९१९-१ उद्वृत्तदैत्यपृतनापतिकण्ठपीठ- च्छेदोच्छलद्बहलशोणितशोणधारं ।
६९१९-२ चक्रं क्रियादभिमतानि हरेरुदार- दिग्दाहदारुणनभः श्रियमुद्वहद्वः ।।
६९२०-१ उद्वृत्तस्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिक्यतमोष्ठपल्लवदलं कुर्वन्तु नाम व्यथां ।
६९२०-२ सौभाग्याक्षरप क्तिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्था हि करोति तापमधिकं र्ॐआवली केन सा ।।
६९२१-१ उद्वृत्तस्तनभारभ गुरमुरो नोत्कञ्चुकं कारिता संयोगस्तु यथा तथेति सकला नीवी न विस्रंसिता ।
६९२१-२ भूयः संगम आवयोः क्व नु भवेदेवं च नोल्लापिता संभ्रान्तत्वरितेन भीतसुरतेनैवं वयं वञ्चिताः ।।
६९२२-१ उद्वेगं जनयन्ति संचितवृषव्याप्ताजिरोपान्तकाः प्रातः शीर्णकुटीरपुञ्जतलताशिम्बीतुषारावि लाः ।
६९२२-२ ग्रामा ग्ॐअयधूमसंततिपरिक्लिष्टारुणश्मश्रुभिर् वृद्धैः कुड्यनिवातलीननिभृतैरभ्यर्थ्यमानातपाः ।।
६९२२आ-१ उद्वेगस्य निवारणाय दुरितच्छेदाय पुण्याप्तये पानाय श्रवणामृतस्य धृतये कस्मैचिदार्तिच्छिदे ।
६९२२आ-२ उच्छ्वासं पुरुषोत्तमाच्युत हरे गोविन्द नारायण श्रीवत्सा क मुकुन्द कृष्ण कमलाकान्तेति वाच्यं मुहुः ।।
६९२३-१ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
६९२३-२ त्रयाणामपि लोकानां ईश्वरोऽपि न तिष्ठति ।।
६९२४-१ उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
६९२४-२ तस्माद्यथार्हतो दण्डं नयेत्पक्षमनाश्रितः ।।
६९२५-१ उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
६९२५-२ दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते ।।
६९२६-१ उद्वेजयति दरिद्रं परमुद्राया झणत्कारः ।
६९२६-२ गृहपतिरतिमिलितायाः क कणरावो यथा जारं ।।
६९२७-१ उद्वेजयति भूतानि दण्डपारुष्यवान्नृपः ।
६९२७-२ भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं ।।
६९२८-१ उद्वेजयति भूतानि यस्य राज्ञः कुशासनं ।
६९२८-२ सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनं ।।
६९२९-१ उद्वेजयत्य गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र ।
६९२९-२ न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ।।
६९३०-१ उद्वेष्ट्य स्वयमेव लेखमुदितप्रस्वेदकम्पा गुलिस् तस्मिन्सेकविलुप्तशेषशिथिलं दृष्ट्वा लिपिप्रक्रमं ।
६९३०-२ एतत्किन्नु हतास्मि संप्रति दशा तस्यैवमासीदयं बाष्पो हन्त करस्य कम्पितमिदं हन्तेति सा रोदिति ।।
६९३१-१ उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।
६९३१-२ आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुरभवद्भुजस्तरुण्याः ।।
६९३२-१ उन्नतं पदमवाप्य यो लघुर् हेलयैव स पतेदिति ब्रुवन् ।
६९३२-२ शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ।।
६९३३-१ उन्नतं मानसं यस्य भाग्यं तस्य समुन्नतं ।
६९३३-२ नोन्नतं मानसं यस्य भाग्यं तस्यासमुन्नतं ।।
६९३४-१ उन्नतं सदनमुच्चकैर्हयो माक्षिकं दधि सशर्करं पयः ।
६९३४-२ यामिनी शशिकला सुक्ॐअला लभ्यते कथमनर्चिते शिवे ।।
६९३५-१ उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
६९३५-२ पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणं ।।
६९३६-१ उन्नतघनमध्यगतं निर्गुणमपि सुरधनुः शोभां ।
६९३६-२ तेन महद्भिः साकं संवासः प्रार्थ्यते विज्ञैः ।।
६९३७-१ उन्नतदक्षिणपक्षा भक्ष्यमुखी विहितपार्थिवनिनादा ।
६९३७-२ तारा तरुमधिगच्छति तद्यच्छति वाञ्छितादधिकं ।।
६९३८-१ उन्नतानां सुवंशानां द्वैधं तावन्न जायते ।
६९३८-२ यावत्कुठारधारेव योषिद्विशति नान्तरं ।।
६९३९-१ उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियं ।
६९३९-२ भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ।।
६९४०-१ उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
६९४०-२ नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः ।।
६९४१-१ उन्नतोऽपि विशदोऽपि क्ॐअलोऽप्य् अद्य जाड्यहरणक्षमोऽपि च ।
६९४१-२ अन्तरुज्ज्वलगुणोऽपि निर्धनस् तूलराशिरिव याति लाघवं ।।
६९४२-१ उन्नत्यै नमति प्रभुं प्रभुगृहान्द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया ।
६९४२-२ प्राणान्प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदृक्सेवकः ।।
६९४३-१ उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या ।
६९४३-२ हुं हु मुञ्च मम मेति च मन्दं जल्पितं जयति मानधनायाः ।।
६९४४-१ उन्नमितैकभ्रूलतं आननमस्याः पदानि रचयन्त्याः ।
६९४४-२ कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ।।
६९४५-१ उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बजाड्याः ।
६९४५-२ दोलाविलासेन जितश्रमत्वाथ्प्रकर्षमापुः पुरुषायितेषु ।।
६९४६-१ उन्नम्योन्नम्य तत्रैव दरिद्राणां मनोरथाः ।
६९४६-२ पतन्ति हृदये व्यर्था विधवास्त्रीस्तना इव ।।
६९४७-१ उन्नम्रस्वपयोधरान्तरपयोधाराभिरानन्दि सः चञ्चद्बालकलापकान्कलगिरो मुग्धान्नवा घ्रिक्रमान् ।
६९४७-२ त्वय्याधाय शिखण्डिनः शिव शिव प्रावृट्समाप्तिं गता तेषु त्वं तु शरच्छरारुचलिता जातासि धौतासिवत् ।।
६९४८-१ उन्नयति नाभिनिम्नान् मुक्तावलिपाशि र्ॐअराजिनलं ।
६९४८-२ स्मरशबरः स्तनभूधर- निपतत्तरुनाक्षिपक्षिबन्धाय ।।
६९४९-१ उन्निद्रकन्दलदलान्तरलीयमान- गुञ्जन्मदान्धमधुपे नवमेघकाले ।
६९४९-२ स्वप्नेऽपि यः प्रवसति प्रविहाय कान्तां तस्मै विषाणरहिताय नमो वृषाय ।।
६९५०-१ उन्निद्रकोकनदरेणुपिश गिता गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु ।
६९५०-२ एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाभमुदयाचलचुम्बि बिम्बं ।।
६९५१-१ उन्निद्रता मत्स्यसगन्धिता च प्रवालहानिः सपिपीलिकात्वं ।
६९५१-२ त्वग्भ्रंशनाद्वारिकृतादजीर्णाथ्तरोर्भवेत्तत्र चिकित्सनीयं ।।
६९५२-१ उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।
६९५२-२ युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ।।
६९५३-१ उन्निद्रेण मयाद्य चिन्तितमभूद्यत्रावतारा हरेर् आख्याता दश कीर्तितोऽसि न कथं तत्र त्वमेकादशः ।
६९५३-२ त्विच्चारित्रमगोचरं कविगिरां जानन्नपि क्ष्मापते न प्रस्त्ॐइ भयेन भारतकवेः कस्तादृशं वक्ष्यति ।।
६९५४-१ उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश्चीर्णः कमलायुधेन सुचिरं येनागमत्केशटः ।
६९५४-२ यः श्रीवाक्पतिराजपादरजसां संपर्कपूतश्चिरं दिष्ट्या श्लाघ्यगुणस्य कस्यचिदसौ मार्गः समुन्मीलति ।।
६९५५-१ उन्मग्नचञ्चलवनानि वनापगानां आश्यानसैकततर गपरंपराणि ।
६९५५-२ निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि ।।
६९५६-१ उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः ।
६९५६-२ गाण्डीवी कनकशिलानिभं भुजाभ्यां आजघ्ने विषमविलोचनस्य वक्षः ।।
६९५७-१ उन्मत्त कण्टकिफलप्रतियोगिबुद्ध्या वैरं वृथैव कुरुषे पनसेन सार्धं ।
६९५७-२ सन्तो हसन्ति न भजन्ति भजन्ति चेत्त्वां भ्रान्ता भवन्ति सहसा न पुनर्भजन्ति ।।
६९५८-१ उन्मत्त धूर्त तरुणेन्दुनिवासयोग्ये स्थाने पिशाचपतिना विनिवेशितोऽसि ।
६९५८-२ किं कैरवाणि विकसन्ति तमः प्रयाति चन्द्रोपलो द्रवति वार्धिरुपैति वृद्धिं ।।
६९५९-१ उन्मत्तप्रेमसंरम्भादारभन्ते यद गनाः ।
६९५९-२ तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ।।
६९६०-१ उन्मत्तमासाद्य हरः स्मरश्च द्वावप्यसीमां मुदमुद्वहेते ।
६९६०-२ पूर्वं परस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूनं ।।
६९६१-१ उन्मत्तानां च या गाथाः शिशूनां यच्च भाषितं ।
६९६१-२ स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ।।
६९६२-१ उन्मत्तानां भुज गानां मद्यपानां च दन्तिनां ।
६९६२-२ स्त्रीणां राजकुलानां च विश्वसन्ति गतायुषः ।।
६९६३-१ उन्मत्तानां भुज गानां शृ गिणां शस्त्रपाणिनां ।
६९६३-२ विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ।।
६९६४-१ उन्मदतया कयाचिथ्कदाचिदपथप्रवृत्तमपि पुरुषं ।
६९६४-२ सद्यः सुहृदुपदेशः सृणिरिव करिणं निवर्त्तयति ।।
६९६५-१ उन्मादगद्गदगिरो मदविह्वलाक्षा भ्रश्यन्निजप्रकृतयः कृतमस्मरन्तः ।
६९६५-२ ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ।।
६९६६-१ उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशं ।
६९६६-२ दास्यमेके च गच्छन्ति परेषामर्थहेतुना ।।
६९६७-१ उन्मीलत्त्रिवलीतर गवलया प्रोत्तु गपीनस्तन- द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ।
६९६७-२ कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते संसारार्णवमज्जनं यदि ततो दूरेण संत्यज्यतां ।।
६९६८-१ उन्मीलत्पुलकं विलोलदलकं स्विद्यत्कपोलस्थलं भ्राम्यत्कुण्डलमाकुलाकुललसत्सीत्कारमुद्यत्करं ।
६९६८-२ किंचित्कुञ्चदुदञ्चितभ्रु विलसच्चोलं गलन्नीविकं स्याद्भूयोऽपि कदा मदाकुलदृशोर्बिम्बाधरास्वादनं ।।
६९६९-१ उन्मीलत्पुलका कुरेण निविडाश्लेषे निमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने मुधा नर्मभिः ।
६९६९-२ आनन्दाभिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभूथ्प्रत्यूहो न तयोर्बभूव सुरतारम्भः प्रियंभावुकः ।।
६९७०-१ उन्मीलत्युरसा गुणालिनिचिता निर्दूषणा भूषणा सोल्लासोषसि लोलया सुमनसा सूक्त्या मनोहारिणी ।
६९७०-२ शय्यामेत्य मृदुं मदीयकवितेवाम्भोजिनीनायिका कस्याप्युन्नतपूर्वपुण्यतपसः कण्ठं समालि गति ।।
६९७१-१ उन्मीलत्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन् दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मरः ।
६९७१-२ नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भवज् जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणां ।।
६९७२-१ उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां तस्मात्कोऽपि त्वयाद्यप्रभृति न सहसा संमुखं वीक्षणीयः ।
६९७२-२ यावच्चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यः कर्तव्या रूपरक्षा वचसि न हृदयं देयमस्मद्विधानां ।।
६९७३-१ उन्मीलद्रसबिन्दुगन्धकुसुमावल्ल्यो वसन्तोदये कान्ताः क्ॐअलपल्लवाः कति कति क्रीडावने सन्ति न ।
६९७३-२ सौभाग्यैकनिधे रसाल तदपि श्रीमञ्जरीशालिनस् त्वत्तोऽन्यत्र च कुत्रचिन्मधुकरश्रेणी न विश्राम्यति ।।
६९७४-१ उन्मीलद्वदनेन्दुकान्तिविसरैर्दूरं समुत्सारितं भग्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतं ।
६९७४-२ एतस्याः कलविंककण्ठकदलीकल्पं मिलत्कौतुकादप्राप्ताभिमुखं रुषेव सहसा केशेषु लग्नं तमः ।।
६९७५-१ उन्मीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे तत्त्वेतावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च ।
६९७५-२ कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ।।
६९७६-१ उन्मीलन्ति नखैर्लुनीहि वहति क्ष्ॐआञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्त्रासय ।
६९७६-२ इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठीषु संकेतिक- व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ।।
६९७७-१ उन्मीलन्ति निशानिशाचरवधूत्प्रोच्चाटनामान्त्रिकाः सायं सालससुप्तप कजवनप्रोद्बोधवैतालिकाः ।
६९७७-२ फुल्लत्प कजकोशगर्भकुहरप्रोद्भूतभृ गावली- झ कारप्रणवोपदेशगुरवस्तीव्रद्युतेरंशवः ।।
६९७८-१ उन्मीलन्ति मृणालक्ॐअलरुचो राजीवसंवर्तिका- संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः ।
६९७८-२ अप्युस्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तम्ॐअयो निधिरपामह्नाय फेनायते ।।
६९७९-१ उन्मीलन्नयनान्तकान्तिलहरीनिष्पीतयोः केवलादामोदादवधारणीयवपुषोः कान्तासखेन क्षणं ।
६९७९-२ यत्कर्णोत्पलयोः स्थितेन भवता किंचित्समुद्गुञ्जितं भ्रातस्तिष्ठति कुत्र तत्कथय मे कान्तं प्रियाया मुखं ।।
६९८०-१ उन्मीलन्मणिरश्मिजालजटिलच्छायं रणत्क कणं बिभ्राणस्तव देव वैरिकदनक्रीडाकठोरः करः ।
६९८०-२ त्यक्त्वा संयति जीवितानि रिपवो ये स्वर्गमार्गे गतास् तानाक्रष्टुमिवाविवेश रभसाच्चण्डद्युतेर्मण्डलं ।।
६९८१-१ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूता कुर- क्रीडत्कोकिलकाकलीकलरवैरुद्गीर्णकर्णज्वराः ।
६९८१-२ नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ।।
६९८२-१ उन्मीलन्मुकुलकरालकुन्दकोश- प्रश्च्योतद्घनमकरन्दगन्धबन्धो ।
६९८२-२ तामीषत्प्रचलविलोचनां नता गीं आलिन्गन्पवन मम स्पृशा गम गं ।।
६९८३-१ उन्मीलयन्ति कुसुमानि मनोरमाणि के नाम नात्र तरवः समयोचितानि ।
६९८३-२ कस्येदृशं कथय दोहदमस्ति तस्य यादृक्विनिर्मितमशोकमहीरुहस्य ।।
६९८४-१ उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर- क्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचि ः ।
६९८४-२ एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली- व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ।।
६९८५-१ उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दं ।
६९८५-२ बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ।।
६९८६-१ उन्मील्याक्षि सखीर्न पश्यसि न चाप्युक्ता ददास्युत्तरं नो वेत्सीदृशमत्र नेदृशमिमां शून्यामवस्थां गता ।
६९८६-२ तल्पादृश्यकर कपञ्जरमिदं जीवेन लिप्तं मना मुञ्चन्ती किमु कर्तुमिच्छसि कुरु प्रेमान्यदेशागते ।।
६९८७-१ उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि ।
६९८७-२ धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ।।
६९८८-१ उन्मुक्तकञ्चुकतयेयमुदारकान्तिः शस्त्रीव शम्बररिपोरपनीतकोशा ।
६९८८-२ रक्तावकुण्ठनपटीरचितापिधाना संध्याम्बुवाहकलितेव शशा करेखा ।।
६९८९-१ उन्मुक्तक्रमहारिमेरुशिखरात्क्रामन्तमन्यो धरः कोऽत्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
६९८९-२ तस्माद्दुर्गमशृ गल घनकलादुर्लालितात्मन्व्रज त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः ।।
६९९०-१ उन्मुक्तमानकलहा रमध्वं दयितान्विताः ।
६९९०-२ इतीव मधुरालापाः कोकिला जगदुर्जनान् ।।
६९९१-१ उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत् ।
६९९१-२ पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रा गीयं रमयति तमःस्त्ॐअलीला धरित्री ।।
६९९२-१ उन्मुच्य स्वजनानुपेक्ष्य तृणवत्प्राणानपि प्रेयसस् तीर्त्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया ।
६९९२-२ श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातःपरं त्वं वा केवलम गम गमुरग व्यालिम्प गन्धद्रवैः ।।
६९९३-१ उन्मुद्रीकृतविश्वविस्मयभरैस्तत्तन्महार्घैर्गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन्नः सूक्तिग गा यदि ।
६९९३-२ विश्वश्वित्रमत गिनीघनरसस्यन्दिन्यमन्दध्वनिर् ग गासागरसंगमः पुनरिवापूर्वः समुन्मीलति ।।
६९९४-१ उन्मूलितालानविलाभनाभिश्छिन्नस्खलच्छृ खलर्ॐअराजिः ।
६९९४-२ मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ।।
६९९५-१ उन्मूल्य सितकेशांस्तु मूले मुले च तत्क्षिपेत् ।
६९९५-२ ततः केशाः प्रजायन्ते कृष्णाः कौतुककारिणः ।
६९९५-३ युक्त्या पूर्वोक्तया युञ्ज्यान्मेषशृ गीपयः सुधीः ।।
६९९६-१ उन्मूल्यालानभूमीरुहमतितरसोत्खण्डिताण्डूवितानान्य्- आकर्षन्नेष पादैर्मदजलकलुषः क्षिप्तनक्षत्रमालः ।
६९९६-२ शुण्डादण्डाभिघातैर्नभसि विदलयन्पुष्करावर्तकादीन् धावत्याधूतमूर्धा हरिमभिरभसाद्देवपुत्रः करीन्द्रः ।।
६९९७-१ उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालि गनाथ्कोपो मास्तु पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे ।
६९९७-२ कोपेणारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु नः क्षेमं कटाक्षा कुरः ।।
६९९८-१ उन्मृष्टपत्रा लुलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः ।
६९९८-२ कुचस्थलीष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः ।।
६९९९-१ उन्मेषं यो मम न सहते जातिवैरी निशायां इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः ।
६९९९-२ नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल् लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ।।
७०००-१ उपकरोत्यपकृतो ह्युत्तमोऽप्यन्यथाधमः ।
७०००-२ मध्यमः साम्यमन्विच्छेदपरः स्वार्थतत्परः ।।