मनोजवं ... शरणं प्रपद्ये

मूलम्
मनोजवं मारुततुल्यवेगं । जितेद्रियं दुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं । श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

पदच्छेदः
मनोजवं मारुततुल्यवेगं । जित-इद्रियं दुद्धिमतां वरिष्ठं ।
वात-आत्मजं वानरयूथमुख्यं । श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

अन्वयः
मनोजवं, मारुततुल्यवेगं, जित-इद्रियं, दुद्धिमतां वरिष्ठं,वात-आत्मजं, वानरयूथमुख्यं, श्रीरामदूतम् (अहं) शरणं प्रपद्ये ॥३३॥

सरलार्थः
यस्य वेग मनोवेगतुल्यः, यस्य वेगः वायुवेगसदृशः, येन इन्द्रियाणि जितानि, यः बुद्धिमत्सु वरिष्ठः, तं वायुपुत्रं, वानरगणस्य मुख्यं रामदूतं मारुतिम् अहं शरणं गच्छामि॥३३

सन्धिविग्रहः ३३

सन्धिः विग्रहः सूत्रम्
मनोजवं मनस्-जवं ससजुषो रुः।८.२.६६

हशि च।६.१.११२

जितेद्रियं जित-इद्रियं आद्गुणः।६.१.८६
वातात्मजं वात-आत्मजं अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः३३
मनोजवम्
मनसः जवः इव जवः यस्य सः मनोजवः, तम्।...अनेकमन्यपदार्थे।२.२.२४

मारुततुल्यवेगम्
मारुतेन तुल्यः मारुततुल्यः।
मारुततुल्यः वेगः यस्य सः मारुततुल्यवेगः, तम्।...अनेकमन्यपदार्थे।२.२.२४

जितेद्रियम्
जितानि इन्द्रियाणि येन सः जितेन्द्रियः, तम्।...अनेकमन्यपदार्थे।२.२.२४

वातात्मजम्
आत्मनः जातः आत्मजः।
वातस्य आत्मजः वातात्मजः, तम्।... षष्ठी।२.२.८

वानरयूथमुख्यम्
वानराणां यूथं वानरयूथम्।... षष्ठी।२.२.८
वानरयूथस्य मुख्यः वानरयूथमुख्यः, तम्।... षष्ठी।२.२.८

श्रीरामदूतम्
श्रीरामस्य दूतः श्रीरामदूतः।... षष्ठी।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=मनोजवं_..._शरणं_प्रपद्ये&oldid=7207" इत्यस्माद् प्रतिप्राप्तम्