मूलम्
मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः।
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः।।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये।
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्।। २५।।

पदच्छेदः-
मनः प्रत्यक्चित्ते सविधम् अवधाय आत्त-मरुतः।प्रहृष्यद्-रोमाणः प्रमद-सलिल-उत्सङ्गित-दृशः।।
यदा आलोक्य आह्लादं ह्रदे इव निमज्य अमृतमये।दधति अन्तः तत्त्वं किम् अपि यमिनः तत् किल भवान्।। २५।।

अन्वयः-
आत्त-मरुतः यमिनः मनः प्रत्यक्चित्ते सविधम् अवधाय,प्रहृष्यद्-रोमाणः, प्रमद-सलिल-उत्सङ्गित-दृशः (सन्तः) यत् किम् अपि तत्त्वं आलोक्य, अमृतमये ह्रदे इव निमज्य,अन्तः आह्लादं दधति तत् (तत्त्वं)किल भवान्।। २५।।

सरलार्थः
योगिनः प्राणायामं कृत्वा चित्तं आत्मनि योगशास्त्रोक्तविधिना अवधारयन्ति। तदा तेषां शरीराणि रोमाञ्चितानि जायन्ते। आनन्दातिशयेन नेत्रेषु सलिलं प्रादुर्भवति।अमृतमये तडागे निमज्जनेन यः आनन्दः स्यात् तादृशं कञ्चन अपूर्वम् आनन्दं ते अन्तःकरणे अनुभवन्ति।अन्तःकरणे यत् तत्वं दृष्ट्वा तेषाम् ईदृशी स्थितिः भवति, तत् तत्वं त्वम् असि॥२५


शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=मनः_प्रत्यक्...&oldid=6180" इत्यस्माद् प्रतिप्राप्तम्