मूलम्
मधुस्फीता वाचः परमममृतं निर्मितवतः।
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्।।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः।
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता।। ३।।

पदच्छेदः-
मधुस्फीता वाचः परमम् अमृतं निर्मितवतः।तव ब्रह्मन् किं वाग् अपि सुरगुरोः विस्मयपदम्।। मम तु एतां वाणीं गुणकथनपुण्येन भवतः।पुनामि इति अर्थे अस्मिन् पुरमथन बुद्धिः व्यवसिता।। ३।।

अन्वयः-
हे ब्रह्मन् , परमम् अमृतं मधुस्फीता वाचः निर्मितवतः।तव (कृते) सुरगुरोः अपि वाक् किं विस्मयपदम्? हे, पुरमथन मम तु एतां वाणीं भवतः गुणकथनपुण्येन । पुनामि इति अस्मिन् अर्थे बुद्धिः व्यवसिता।। ३।।

सरलार्थः -
वेदाः नाम मधुपरिपूर्णं वचनं, परमम् अमृतं च। तद् वेदवचनं त्वया निर्मितम् अतः बृहस्पते: वचनम् अपि तव कृते विस्मयजनकं नास्ति।हे पुरमथन, तथापि तव गुणानां कथनं पुण्यं कर्म।तेन पुण्येन मम एतां वाणीं पवित्रां करोमि इति विचारेण अस्मिन् स्तोत्ररचनाकार्ये मया मम बुद्धिः योजिता॥ ३


शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=मधुस्फीता_वाचः...&oldid=6158" इत्यस्माद् प्रतिप्राप्तम्