भूमाधिकरणम्
भूमा सम्प्रसादादध्युपदेशाच्च।१.३.८
पूर्वपक्ष:-अत्र भूमा इति पदेन प्राणः निर्दिष्ट:
भूय: प्रश्नप्रतिवचनपरम्परायां प्राणात्परं भूय: प्रश्नप्रतिवचनपरम्परा न दृश्यते।
वेदान्ती.- प्रश्नप्रतिवचनरूपयैव अर्थानतरविवक्षा भवतीति नास्ति नियम:। प्रकृतसम्बन्धासम्भवाद् अर्थान्तरविवक्षा भवति।सम्प्रसाद: प्राण:।तत: अग्रे भूम्न उपदेश: (अध्युपदेश:)।प्राणादनन्तरं भूमोपदेश: अत: भूमशब्देन प्राणग्रहणमनुचितम्।
पू.- प्राणवचनं, तत: अतिवादित्ववचनम् तत: सत्येनातिवादित्वम्।अत: प्राणपदमनुकृष्यमाणमग्रेऽप्यन्वेति।
वे.- न, विशेषवचनात्।य: सत्येनातिवदति इति विशेषवचनात् प्राणपदस्य निवृत्ति:।
पू.-ननु विशेषवाद: प्राणविषय एव।यथा ‘एषोऽग्निहोत्री य: सत्यं वदति’ नात्र सत्यवदनेन अग्निहोत्रित्वम्।अग्निहोत्रेणैव अग्निहोत्रित्वम्।सत्यवदनमग्निहोत्रिणो विशेष उच्यते।तथा ‘एष तु वा अतिवदति य: सत्येनातिवदति’ इत्यत्र प्राणविद एवातिवादित्वम्।सत्यवदनं तु प्राणवादिनो विशेष:।
वे.-न।
१ श्रुत्यर्थपरित्यागप्रसङ्गात्।सत्यवदनेनातिवादित्वं प्रतीयते श्रुत्या।प्राणविद: अतिवादित्वं प्रतीयते प्रकरणात्।प्रकरणानुरोधेन श्रुतित्यागो नोचित:।
२ एष तु वातिवदति इत्यत्र तुकार: प्रकृतव्यावृत्त्यर्थं विद्यते ।स न सङ्गच्छते।अत: एकवेदप्रशंसायां प्रकृतायाम् ‘एष तु महाब्राह्मणो य: चतुरो वेदानधीते’ इत्यर्थान्तरभूत: चतुर्वेद: प्रशस्यते तथात्र द्रष्टव्यम्।
धर्मोपपत्तेश्च ।१.३.९
वे.-दर्शनादिव्यवहाराभाव:, सुखरूपत्वं, सत्यत्वं, स्वमहिमप्रतिष्ठितत्वं, सर्वगतत्वं, सर्वात्मत्वमिति अत्र श्रूयमाणा: धर्मा: परमात्मनि एव उपपद्यन्ते, नान्यत्र।
पू.- ननु सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव:, सुखरूपत्वं च प्राणस्यापि श्रूयते-
१ प्राणग्नय एवास्मिन् पुरे जाग्रति-प्र.४.२.३ इति सुषुप्तौ प्राणस्य दर्शनादिव्यवहाराभाव: श्रूयते
२ अत्रैव देव: स्वप्नान् न पश्यति,अथ यदेतस्मिन् शरीरे सुखं भवति।– प्र.४.२.६ इति प्राणस्य सुखरूपत्वं श्रूयते
वे.- असौ दर्शनादिव्यवहार: आत्मनोऽसङ्गत्वविवक्षयोक्त:, न तु प्राणस्वभावविवक्षया, परमात्मप्रकरणात्।यत्सुषुप्तौ सुखरूपत्वमुक्तं, तदपि आत्मन: सुखरूपत्वविवक्षया। -बृ. ४.३.३२
पू. यो वै भूमा तदमृतम् (छा.७.२४.१) तदपि प्राणस्याविरुद्धम्। प्राणो वा अमृतम् (कौ.३.२) इति श्रुते:।
वे.- इह श्रूयमाणम् अमृतत्वं परमकारणं गमयति।विकाराणाममृतत्वस्य आपेक्षिकत्वात। अतोऽन्यदार्तमिति (बृ. ३.४.२)श्रुते:।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये तृतीय: पाद: