भट्टिकाव्यं तिङन्त काण्ड:

सर्ग १४ सम्पाद्यताम्


भका१४.१-१ ततो दशाऽऽस्यः स्मर-विह्वलाऽऽत्मा चार-प्रकाशीकृत-शत्रु-शक्तिः
भका१४.१-२ विमोह्य माया-मय-राम-मूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्.
भका१४.२-१ कम्बूनथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे,
भका१४.२-२ वेणून् पुपूरिरे, गुञ्जा जुगुञ्जुः कर-घट्टिताः
भका१४.३-१ वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः,
भका१४.३-२ काहलाः पूरयांचक्रुः, पूर्णाः पेरश् च सस्वनुः
भका१४.४-१ मृदङ्गा धीरमास्वेनुर्, हतैर् स्वेने च गोमुखैः
भका१४.४-२ घण्टाः शिशिञ्जिरे दीर्घं, जह्रादे पटहैर् भृशम्.
भका१४.५-१ हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः,
भका१४.५-२ संत्रस्ताः करभा रेटुश्, चुकुवुः पत्ति-पङ्क्तयः
भका१४.६-१ तुरङ्गा-पुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम्
भका१४.६-२ नार्यश् चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्.
भका१४.७-१ जगर्जुर्, जहृषुः, शुरा रेजुस् तुष्टुविरे परैः,
भका१४.७-२ बबन्धुरङ्गुलि-त्राणि, सन्नेहुः परिनिर्ययुः.
भका१४.८-१ धनूष्यारोपयांचक्रुरारुरुहू रथाऽऽदिषु,
भका१४.८-२ असीनुद्ववृहुर् दीप्तान्, गुर्वीरुच्चिक्षिपुर् गदाः
भका१४.९-१ शूलानि भ्रमयांचक्रुर्, बाणानाददिरे शुभान्,
भका१४.९-२ भ्रेमुश्, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः
भका१४.१०-१ अमुत्पेतुः कशा-घातै, रश्म्याकर्षैर् ममङ्गिरे
भका१४.१०-२ अश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे.
भका१४.११-१ गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः,
भका१४.११-२ तेनुः कक्षां, ध्वजांश् चैव समुच्छिश्रियुरुच्छिखान्.
भका१४.१२-१ विशिश्वासयिषांचक्रुरालिलिङ्गुश् च योषितः,
भका१४.१२-२ आजघ्नुर् मूर्ध्नि बालांश् च चुचुम्बुश् च सुत-प्रियाः.
भका१४.१३-१ गम्भीर-वेदिनः संज्ञा गजा जगृहुरक्षताः,
भका१४.१३-२ ववृधे शुशुभे चैषां मदो, हृष्टैश् च पुप्लुवे.
भका१४.१४-१ मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग् ववाशिरे,
भका१४.१४-२ अ-वामैः पुस्फुरे देहैः, प्रसेदे चित्त-वृत्तिभिः.
भका१४.१५-१ प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया
भका१४.१५-२ द्वारं ररङ्घतुर् याम्य्ं महापार्श्व-महोदरौ.
भका१४.१६-१ प्रययाविन्द्र-जित् प्रत्यगियाय स्वयमुत्तरम्.
भका१४.१६-२ सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम्.
भका१४.१७-१ शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः
भका१४.१७-२ विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी.
भका१४.१८-१ ईक्षांचक्रे ऽथ सौमित्रिमनुजज्ञे बलानि च,
भका१४.१८-२ नमश्चकार देवेभ्यः पर्ण-तल्पं मुमोच च.
भका१४.१९-१ चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः
भका१४.१९-२ वानरा, भूधरान्, रेधुर्, बभञ्जुश्, च ततस् तरून्.
भका१४.२०-१ ददाल भूर्, नभो रक्तं गोष्पदप्रं ववर्ष च,
भका१४.२०-२ मृगाः प्रससृपुर् वामं, खगाश् चुकुविरेऽशुभम्.
भका१४.२१-१ उल्का ददृशिरे दीप्ता, रुरुवुश् चाऽशिवं शिवाः,
भका१४.२१-२ चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्.
भका१४.२२-१ रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः,
भका१४.२२-२ स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्.
भका१४.२३-१ निरासू राक्षसा बाणान्, प्रजहुः शूल-पट्टिशान्
भका१४.२३-२ असींश् च वाहयांचक्रुः पाशैश् चाऽऽचकृषुस् ततैः
भका१४.२४-१ भल्लैश् च बिभिदुस् तीक्ष्णैर् विविधुस् तोमरैस् तथा.
भका१४.२४-२ गदाभिश् चूर्णयांचक्रुः, शितैश् चक्रैश् च चिच्छिदुः.
भका१४.२५-१ वानरा मुष्टिभिर् जघ्नुर् ददंशुर् दशनैस् तथा,
भका१४.२५-२ निरासुश् च गिरींस् तुङ्गान्, द्रुमान् विचकरुस् तथा.
भका१४.२६-१ लाङ्गूलैर् लोठयांचक्रुस्, तलैर्, निन्युश् च संक्षयम्,
भका१४.२६-२ नखैश् चकृततुः, क्रुद्धाः पिपिषुश् च क्षितौ बलात्.
भका१४.२७-१ संबभूवुः कबन्धानि, प्रोहुः शोणित-तोय-गाः,
भका१४.२७-२ तेरुर् भटाऽऽस्य-पद्मानि, ध्वजैः फेणैरिवाऽऽबभे,
भका१४.२८-१ रक्त-पङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः,
भका१४.२८-२ निममज्जुस् तुरङ्गाश् च, गन्तुं नोत्सेहिरे भटाः.
भका१४.२९-१ कोट्या कोट्या पुर-द्वारमेकैकं रुरुघे द्विषाम्,
भका१४.२९-२ षट्-त्रिंशद्धरि-कोट्यश् च निवव्रुर् वानराऽऽधिपम्,
भका१४.३०-१ तस्तनुर्, जह्वलुर्, मम्लुर्, जग्लुर्, लुलुठिरे क्षताः,
भका१४.३०-२ मुमूर्च्छुर्, ववमू रक्तं, ततृषुश् चोभये भटाः
भका१४.३१-१ सम्पातिना प्रजङ्घस् तु युयुधे, ऽसौ द्रुमाहतः
भका१४.३१-२ चकम्पे, तीव चुक्रोश, जीवनाशं ननाश च.
भका१४.३२-१ उच्चख्नाते नलेना ऽऽजौ स्फुरत्-प्रतपनाऽक्षिणी,
भका१४.३२-२ जम्बुमाली जहौ प्राणान् ग्राव्णा मारुतिना हतः.
भका१४.३३-१ मित्रिघ्नस्य प्रचुक्षोद गदया ऽङ्गं विभीषणः.
भका१४.३३-२ सुग्रीवः प्रघसं नेभे, बहून् रामस् ततर्द च.
भका१४.३४-१ वज्रमुष्टेर् विशिश्लेष मैन्देना ऽभिहतं शिरः,
भका१४.३४-२ नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्.
भका१४.३५-१ विरूपाक्षो जहे प्राणैस् तृढः सौमित्रि-पत्रिभिः,
भका१४.३५-२ प्रमोचयांचकाराऽसून् द्विविदस् त्वशनि-प्रभम्.
भका१४.३६-१ गदा शत्रु-जिता जिघ्ये, तां प्रतीयेष वालि-जः
भका१४.३६-२ रथं ममन्थ स-हयं शाखिना ऽस्य ततो ऽङ्गदः.
भका१४.३७-१ तत् कर्म वालि-पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये,
भका१४.३७-२ संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः.
भका१४.३८-१ सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः सŌविस्मयाः,
भका१४.३८-२ विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः.
भका१४.३९-१ ही चित्रं लक्ष्मणेनोदे, रावणिश् च तिरोदधे
भका१४.३९-२ विचकार ततो रामः शरान्, संतत्रसुर् द्विषः
भका१४.४०-१ विभिन्ना जुघुरुर् घोरं, जक्षुः क्रव्याऽशिनो हतान्,
भका१४.४०-२ चुष्च्योत व्रणिनां रक्तं, छिन्नाश् चेलुः क्षणं भुजाः
भका१४.४१-१ कृत्तैरपि दृढ-क्रोधो वीर-वक्त्रैर् न तत्यजे,
भका१४.४१-२ पलायांचक्रिरे शेषा, जिह्रियुः शूर-मानिनः.
भका१४.४२-१ राघवो न दयांचक्रे, दधुर् धैर्यं न केचन,
भका१४.४२-२ मम्रे पतङ्गवद् वीरैर् हाहेति च विचुक्रुशे.
भका१४.४३-१ तिरोबभूवे सूर्येण, प्रापे च निशया ऽऽस्पदम्,
भका१४.४३-२ जग्रसे काल-रात्रीव वानरान् राक्षसाम्श् च सा.
भका१४.४४-१ चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चा ऽऽजुहाव, सः
भका१४.४४-२ आजुहुवे तिरोभूतः परानीकं, जहास च.
भका१४.४५-१ बबाधे च बलं कृत्स्नं, निजग्राह च सायकैः
भका१४.४५-२ उत्ससर्ज शरांस्, तेऽस्य सर्प-साच् च प्रपेदिरे.
भका१४.४६-१ आचिचाय स तैः सेनामाचिकाय च राघवौ,
भका१४.४६-२ बभाण च, "न मे मायां जिगायेन्द्रोऽपि, किं नृभिः".
भका१४.४७-१ आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैः
भका१४.४७-२ तौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः
भका१४.४८-१ ततो रामेति चक्रन्दुस्, त्रेसुः परिदिदेविरे
भका१४.४८-२ निशश्वसुश् च सेनान्यः, प्रोचुर् धिगिति चाऽऽत्मनः.
भका१४.४९-१ मन्युं शेकुर् न ते रोद्धुं, ना ऽस्रं संरुरुधुः पतत्,
भका१४.४९-२ विविदुर् नेन्द्रजिन्-मार्गं, परीयुश् च प्लवङ्गमाः.
भका१४.५०-१ दधावा ऽद्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणः
भका१४.५०-२ विदांचकार धौताऽक्षः स रिपुं खे, ननर्द च.
भका१४.५१-१ उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः
भका१४.५१-२ विहाय रावणिस् तस्मादानंहे चा ऽन्तिकं पितुः.
भका१४.५२-१ आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावनः
भका१४.५२-२ गाढं चोपजुगूहैनं, शिरस्युपशिशिङ्घ च.
भका१४.५३-१ ध्वजानुद्दुधुवुस् तुङ्गान्, मांसं चेमुर्, जगुः, पपुः,
भका१४.५३-२ कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचराः.
भका१४.५४-१ दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात्,
भका१४.५४-२ तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे.
भका१४.५५-१ प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते,
भका१४.५५-२ उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च.
भका१४.५६-१ "लौह-बन्धैर् बबन्धे नु, वज्रेण किं विनिर्ममे
भका१४.५६-२ मनो मे, न विना रामाद् यत् पुस्फोट सहस्र-धा.
भका१४.५७-१ उत्तेरिथ समुद्रं त्वं मदर्थे, ऽरीन् जिहिंसिथ,
भका१४.५७-२ ममर्थ चाऽतिघोरां मां धिग् जीवित-लघूकृताम्.
भका१४.५८-१ न जिजीवा ऽसुखी तातः प्राणता रहितस् त्वया,
भका१४.५८-२ मृतेऽपि त्वयि जीवन्त्या किं मया ऽणकभार्यया."
भका१४.५९-१ सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि च
भका१४.५९-२ देहभाञ्जि, ततः केशान् लुलुञ्च, लुलुठे मुहुः.
भका१४.६०-१ जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे,
भका१४.६०-२ दैवं निनिन्द, चक्रन्द, देहे चा ऽतीव मन्युना.
भका१४.६१-१ आश्वासयांचकारा ऽथ त्रिजटा तां, निनाय च.
भका१४.६१-२ ततः प्रजागरांचक्रुर् वानराः स-विभीषणाः
भका१४.६२-१ चिचेत रागस् तत् कृच्छ्रमोषांचक्रे शुचा ऽथ सः,
भका१४.६२-२ मन्युश् चा ऽस्य समापिप्ये, विरुराव च लक्ष्मणम्.
भका१४.६३-१ समीहे मर्तुमानर्चे तेन वाचा ऽखिलं बलम्,
भका१४.६३-२ आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च.
भका१४.६४-१ आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम्,
भका१४.६४-२ प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्.
भका१४.६५-१ "नागाऽस्त्रमिदमेतस्य विपक्षस् तार्क्ष्य-संस्मृतिः"
भका१४.६५-२ विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः.
भका१४.६६-१ ततो विजघटे शैलैरुद्वेलं पुप्लुवे ऽम्बुधिः
भका१४.६६-२ वृक्षेभ्यश् चुच्युते पुष्पैर्, विरेजुर् भासुरा दिशः
भका१४.६७-१ जगाहिरे ऽम्बुधिं नागा, ववौ वायुर् मनो-रमः
भका१४.६७-२ तेजांसि शंशमांचक्रुः, शर-बन्धा विशिश्लिषुः.
भका१४.६८-१ भ्रेजिरे ऽक्षत-वद् योधा, लेभे संज्ञां च लक्ष्मणः,
भका१४.६८-२ विभीषणो ऽपि बभ्राजे, गरुत्मान् प्राप चा ऽन्तिकम्
भका१४.६९-१ संपस्पर्शा ऽथ काकुत्स्थौ, जज्ञाते तौ गत-व्यथौ
भका१४.६९-२ तयोरात्मानमाचख्यौ, ययौ चा ऽथ यथा-गतम्.
भका१४.७०-१ स्वेनुस्, तित्विषुरुद्येमुरच्चख्नुः पर्वतांस् तरून्,
भका१४.७०-२ वानरा दद्रमुश् चा ऽथ संग्रामं चाऽऽशशाशिरे.
भका१४.७१-१ डुढौकिरे पुनर् लङ्कां, बुबुधे तान् दशाननः
भका१४.७१-२ जीवतश् च विवेदा ऽरीन्, बभ्रंशे ऽसौ धृतेस् ततः.
भका१४.७२-१ सस्रंसे शर-बन्धेन दिव्येनेति बुबुन्द सः,
भका१४.७२-२ बभाजा ऽथ परं मोहमूहांचक्रे जयं न च.
भका१४.७३-१ घूम्राक्षो ऽथ प्रतिष्ठासांचक्रे रावण-संमतः
भका१४.७३-२ सिंहाऽऽस्यैर् युयुजे तस्य वृकाऽऽस्यैश् च रथः खगैः.
भका१४.७४-१ त्वक्-त्रैः संविव्ययुर् देहान्, वाहनान्यधिशिश्यिरे,
भका१४.७४-२ आनर्जुर् नृ-भुजोऽस्त्राणि, ववञ्चुश् चाऽऽहव-क्षितिम्.
भका१४.७५-१ अध्युवास रथं, तेये पुराच्, चुक्षाव चा ऽशुभम्,
भका१४.७५-२ संश्रावयांचकारा ऽऽख्यां धूम्राक्षस् तत्वरे तथा.
भका१४.७६-१ निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा विवाशिरे,
भका१४.७६-२ शिशीके शोणितं व्योम, चचाल क्ष्मा-तलं तथा.
भका१४.७७-१ ततः प्रजघटे युद्धं, शस्त्राण्यासुः परस्परम्,
भका१४.७७-२ वव्रश्चुराजुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा.
भका१४.७८-१ रुरुजुर्, भ्रेजिरे, फेणुर्, बहुधा हरि-राक्षसाः,
भका१४.७८-२ वीरा न बिभयांचक्रुर्, भीषयांचक्रिरे परान्.
भका१४.७९-१ रत्तं प्रचुश्चुतुः क्षण्णाः, शिश्वियुर् बाण-विक्षताः,
भका१४.७९-२ अस्यतां शुशुवुर् बाणान् भुजाः साऽङ्गुष्ठ-मुष्टयः.
भका१४.८०-१ रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः,
भका१४.८०-२ आददे च शिलां, साऽश्वं पिपेषा ऽस्य रथं तया.
भका१४.८१-१ पपात राक्षसो भूमौ, रराट च भयंकरम्,
भका१४.८१-२ तुतोद गदया चाऽरिं, तं दुध्रावा ऽद्रिणा कपिः.
भका१४.८२-१ अकम्पनस् ततो योद्धुं चकमे रावणाऽज्ञया,
भका१४.८२-२ स रथेना ऽभिदुद्राव, जुघुरे चाऽतिभैरवम्.
भका१४.८३-१ पस्पन्दे तस्य वामाऽक्षि, सस्यमुश् चाऽशिवाः खगाः,
भका१४.८३-२ तान् वव्राजा ऽवमत्या ऽसौ, बभासे च रणे शरैः.
भका१४.८४-१ खमूयुर्, वसुधामूवुः सायका रज्जु-वत् तताः
भका१४.८४-२ तस्माद् बलैरपत्रेपे, पुप्रोथा ऽस्मै न कश्चन.
भका१४.८५-१ स भस्म-साच् चकाराऽरीन्, दुदाव च कृतान्त-वत्,
भका१४.८५-२ चुक्रोध मारुतिस्, ताल- मुच्चख्ने च महा-शिखम्.
भका१४.८६-१ यमाया ऽकम्पनं तेन निरुवाप महा-पशुम्,
भका१४.८६-२ बभ्रज्ज निहते तस्मिन् शोको रावणमग्निवत्.
भका१४.८७-१ स बिभ्रेष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च,
भका१४.८७-२ प्रगोपायांचकारा ऽऽशु यत्नेन परितः पुरम्.
भका१४.८८-१ प्रहस्तमर्थयांचक्रे योद्धुमद्भुत-विक्रमम्.
भका१४.८८-२ "किं विचारेण, रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ"
भका१४.८९-१ चक्वाणा ऽशङ्कितो योद्धुमुत्सेहे च महा-रथः,
भका१४.८९-२ निर्येमिरे ऽस्य योद्धारश्, चक्wxलॄॠपे चाऽश्व-कुञ्जरम्.
भका१४.९०-१ युयुजुः स्यन्दनानश्वैरीजुर् देवान् पुरोहिताः
भका१४.९०-२ आनर्चुर् ब्राह्मणान् सम्यगाशिषश् चाऽऽशशंसिरे.
भका१४.९१-१ ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चा ऽऽलेभिरे भटैः,
भका१४.९१-२ प्रचुक्ष्णुवुर् महा ऽस्त्राणि, जिज्ञासांचक्रिरे हयान्.
भका१४.९२-१ ललुः खड्गान्, ममार्जुश् च, ममृजुश् च परश्वधान्
भका१४.९२-२ "अलंचक्रे, समालेभे ववसे, बुभुजे, पपे,
भका१४.९३-१ जहसे च क्षणं, यानैर् निर्जग्मे योद्धृभिस् ततः
भका१४.९३-२ विप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम्.
भका१४.९४-१ संवर्गयांचकारा ऽऽप्तान्, चन्दनेन लिलेप च,
भका१४.९४-२ चचाम मधु मार्द्वीकं, त्वक्-त्रं चाऽऽचकचे वरम्.
भका१४.९५-१ उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम्,
भका१४.९५-२ आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः.
भका१४.९६-१ आजघ्नुस् तूर्य-जातानि, तुष्टुवुश् चा ऽनुजीविनः,
भका१४.९६-२ रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः.
भका१४.९७-१ तं यान्तं दुद्रुवुर् गृध्राः, क्रव्यादश् च सिषेविरे
भका१४.९७-२ आववुर् वायवो घोराः, खादुल्काश् च प्रचक्षरुः.
भका१४.९८-१ सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः,
भका१४.९८-२ रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽ-श्वकुञ्जरम्.
भका१४.९९-१ प्रतोदा जगलुर्, वाममानञ्चुर् यज्ञिया मृगाः
भका१४.९९-२ ददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः
भका१४.१००-१ मिमेह रक्तं हस्त्यश्वं, राक्षसाश् च नितिष्ठिवुः,
भका१४.१००-२ ततः शुशुभतुः सेने, निर्-दयं च प्रजह्रतुः
भका१४.१०१-१ दिद्विशुर्, दुद्युवुश्, चच्छुश्, चक्लमुः, सुषुपुर्, हताः
भका१४.१०१-२ चखादिरे चखादुश् च, विलेपुश् च रणे भटाः
भका१४.१०२-१ प्रहस्तस्य पुरो-मात्यान् जिहिंसुर्, दधृषुस् तथा
भका१४.१०२-२ वानराः, कर्म सेनानी रक्षसां चक्षमे ने तत्.
भका१४.१०३-१ ऊर्णुनाव स शस्त्रौघैर् वानराणामनीकिनीम्,
भका१४.१०३-२ शशास च बहून्, योधान्, जीवितेन विवेच च,
भका१४.१०४-१ आससञ्ज भयं तेषां, दिद्युते च यथा रविः,
भका१४.१०४-२ नाऽऽययास, द्विषद्-देहैर् जगाहे च दिशो दश.
भका१४.१०५-१ केचित् संचुकुटुर् भीता, लेजिरे ऽन्ये पराजिताः,
भका१४.१०५-२ संग्रामाद् बभ्रशुः केचिद् ययाचुश् चा ऽपरे ऽभयम्.
भका१४.१०६-१ एवं विजिग्ये तां सेनां प्रहस्तो, ऽतिददर्प च,
भका१४.१०६-२ शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्.
भका१४.१०७-१ चुक्रुधे तत्र नीलेन, तरुश् चोच्चिक्षिपे महान्,
भका१४.१०७-२ प्रहस्तो ऽभिहतस् तेन बाणान् विससृजे बहून्,
भका१४.१०८-१ सेहे कपी, रथाऽश्वांश् च रिपोस् ततर्ह शाखिना,
भका१४.१०८-२ धरित्रीं मुसली तेये प्रहस्तश्, चिखिदे न च,
भका१४.१०९-१ संदुधुक्षे तयोः कोपः, पस्फाये शस्त्र-लाघवम्,
भका१४.१०९-२ नुनोद शाखिनं नील, आवव्रे मुसली तरुम्,
भका१४.११०-१ वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः,
भका१४.११०-२ प्रदुद्रुवतुरन्योन्यं वीरौ, शश्रमतुर् न च ,
भका१४.१११-१ समीरयांचकारा ऽथ राक्षसस्य कपिः शिलाम्,
भका१४.१११-२ क्षतस् तया ममारा ऽसावाशिश्राय च भू-तलम्.
भका१४.११२-१ तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशा-चराः,
भका१४.११२-२ जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च,
भका१४.११३-१ यदा न फेलुः क्षणदा-चराणां मनोरथा राम-बलाऽभियोगे,
भका१४.११३-२ लङ्कां तदा भेजुरुदीर्ण-दैन्या, व्याचख्युरुच्चैश् च हतं प्रहस्तम्,


सर्ग १५ सम्पाद्यताम्


भका१५.१-१ राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्,
भका१५.१-२ प्रातिष्ठिपच् च बोधाऽर्थं कुम्भकर्णस्य राक्षसान्,
भका१५.२-१ ते ऽभ्यगुर् भवनं तस्य, सुप्तं चैक्षिषता ऽथ तम्,
भका१५.२-२ व्याहार्षुस् तुमुलान् शब्दान्, दण्डैश् चा ऽवधिषुर् द्रुतम्
भका१५.३-१ केशानलुञ्चिषुस्, तस्य गजान् गात्रेष्वचिक्रमन्,
भका१५.३-२ शीतैरभ्यषिचंस् तोयैरलातैश् चाऽप्यदम्भिषुः.
भका१५.४-१ नखैरकर्तिषुस् तीक्ष्णैरदाङ्क्षुर् दशनैस् तथा,
भका१५.४-२ शितैरतौत्सुः शूलैश् च, भेरीश् चाऽवीवदन् शुभाः.
भका१५.५-१ स तान् ना ऽजीगणत् सर्वा- निच्छया ऽबुद्ध च स्वयम्,
भका१५.५-२ अबूबुधत कस्मान् मा- मप्राक्षीच् च निशा-चरान्.
भका१५.६-१ ते ऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदा-चर !"
भका१५.६-२ सोऽस्नासीद्, व्यलिपन्, मांसमप्सासीद्, वारुणीमपात्
भका१५.७-१ न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात्.
भका१५.७-२ राजा यान्तं तमद्राक्षीदुदस्थाच् चेषदासनात्.
भका१५.८-१ अतुषत्, पीठमासन्ने निरदिक्षच् च काञ्चनम्.
भका१५.८-२ अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथा ऽन्तिके.
भका१५.९-१ अवादीन् "मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः
भका१५.९-२ "माज्ञासीस् त्वं सुखी, रामो यदकार्षीत् स रक्षसाम्.
भका१५.१०-१ उदतारीदुदन्वन्तं, पुरं नः परितो ऽरुधत्,
भका१५.१०-२ व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान् क्षयम्.
भका१५.११-१ न प्रावोचमहं किंचित् प्रियं, यावदजीविषम्,
भका१५.११-२ बन्धुस् त्वमर्चितः स्नेहान् माद्विषो न वधीर् मम
भका१५.१२-१ वीर्यं मा न ददर्शस् त्वं, मा न त्रास्थाः क्षतां पुरम्,
भका१५.१२-२ तवा ऽद्राक्ष्म वयं वीर्यं, त्वमजैषीः पुरा सुरान्"
भका१५.१३-१ अवोचत् कुम्भकर्णस् तं, "वयं मन्त्रेऽभ्यधाम यत्
भका१५.१३-२ न त्वं सर्वं तदश्रौषीः, फलं तस्येदमागमत्.
भका१५.१४-१ प्राज्ञ-वाक्यान्यवामंस्था, मूर्ख-वाक्येष्ववाऽस्थिथाः
भका१५.१४-२ अध्यगीष्ठाश् च शास्त्राणि, प्रत्यपत्था हितं न च
भका१५.१५-१ मूर्खास् त्वामववञ्चन्त, ये विग्रहमचीकरन्,
भका१५.१५-२ अभाणीन् माल्यवान् युक्तमक्षंस्थास् त्वं न तन् मदात्
भका१५.१६-१ राघवस्या ऽमुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः,
भका१५.१६-२ मा नाऽनुभूः स्वकान् दोषान्, मा मुहो मा रुषोऽधुना.
भका१५.१७-१ तस्याऽप्यत्यक्रमीत् कालो, यत् तदाऽहमवादिषम्
भका१५.१७-२ अघानिषत रक्षासि परैः, कोशांस् त्वमव्ययीः
भका१५.१८-१ सन्धान-कारणं तेजो न्यगभूत् ते, कृथास् तथा,
भका१५.१८-२ यत् त्वं वैराणि कोशं च सह-दण्डमजिग्लपः."
भका१५.१९-१ अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्णं दशाननः
भका१५.१९-२ "किं त्वं मामजुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्.
भका१५.२०-१ मोज्जिग्रहः सु-नीतानि, मा स्म क्रंस्था न संयुगे,
भका१५.२०-२ मोपालब्धाह् कृतैर् दोषैर् मा न वाक्षीर् हितं परम्."
भका१५.२१-१ कुम्भकर्णस् ततो ऽगर्जीद्, भटांश् चा ऽन्यान् न्यवीवृतत्.
भका१५.२१-२ उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः.
भका१५.२२-१ मूर्ध्ना दिवमिवा ऽलेखीत्, खं व्यापद् वपुषोरुणा,
भका१५.२२-२ पादाभ्यां क्ष्मामिवा ऽभैस्तीत्, दृष्ट्या ऽधाक्षीदिव द्विशः
भका१५.२३-१ दग्ध-शैल इवा ऽभासीत्, प्राक्रंस्त क्षय-मेघ-वत्,
भका१५.२३-२ प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्.
भका१५.२४-१ स-पक्षो ऽद्रिरिवा ऽचालीन्, न्यश्वसीत् कल्प-वायु-वत्,
भका१५.२४-२ अभार्षीद् ध्वनिना लोका- नभ्राजिष्ट क्षयाऽग्नि-वत्.
भका१५.२५-१ अनंसीद् भूर् भरेणा ऽस्य, रंहसा शाखिनो ऽलुठन्,
भका१५.२५-२ सिंहाः प्रादुद्रुवन् भीताः, प्राक्षुभन् कुल-पर्वताः
भका१५.२६-१ उत्पाताः प्रावृतंस् तस्य, द्यौरशीकिष्ट शोणितम्,
भका१५.२६-२ वायवोऽवासिषुर् भीमाः, क्रूराश् चाऽकुषत द्विजाः.
भका१५.२७-१ अस्पन्दिष्टा ऽक्षि वामं च, घोराश् चा ऽराटिषुः शिवाः,
भका१५.२७-२ न्यपप्तन् मुसले गृध्रा, दीप्तया ऽपाति चोल्कया.
भका१५.२८-१ आंहिष्ट तान-संमान्य दर्पात् स प्रधन-क्षितिम्,
भका१५.२८-२ ततोऽनर्दीदनन्दीच् च, शत्रूनाह्वास्त चाऽऽहवे.
भका१५.२९-१ प्राशीन्, न चा ऽतृपत् क्रूरः, क्षुच् चाऽस्याऽवृधदश्नतः,
भका१५.२९-२ अधाद् वसामधासीच् च रुधिरं वन-वासिनाम्.
भका१५.३०-१ माम्सेना ऽस्या ऽश्वतां कुक्षी, जठरं चा ऽप्यशिश्वियत्,
भका१५.३०-२ बहूनामग्लुचत् प्राणा- नग्लोचीच् च रणे यशः.
भका१५.३१-१ सामर्थ्यं चा ऽपि सो ऽस्तम्भीद् विक्रमं चाऽस्य ना ऽस्तभन्,
भका१५.३१-२ शाखिनः केचिदध्यष्ठुर् न्यमाङ्क्षुरपरे ऽम्बु-धौ.
भका१५.३२-१ अन्ये त्वलङ्घिषुः, शैलान्, गुहास्वन्ये न्यलेषत,
भका१५.३२-२ केचिदासिषत स्तब्धा, भयात् केचिदघूर्णिषुः.
भका१५.३३-१ उदतारिषुरम्भो-धिं वानराः सेतुना ऽपरे,
भका१५.३३-२ अलज्जिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चोर्जितम्.
भका१५.३४-१ सत्त्वं समदुधुक्षच् च वानराणामयुद्ध च,
भका१५.३४-२ ततः शैलानुदक्षैप्सुरुदगूरिषत द्रुमान्.
भका१५.३५-१ अनर्दिषुः कपि-व्याघ्राः, सम्यक् चा ऽयुत्सताऽऽहवे,
भका१५.३५-२ तानमर्दीदखादीच् च, निरास्थच् च तलाऽऽहतान्,
भका१५.३६-१ प्राचुचूर्णच् च पादाभ्यामबिभीषत च द्रुतम्,
भका१५.३६-२ अतर्हीच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान्.
भका१५.३७-१ अतौत्सीद् गदया गाढमपिषच् चोपगूहनैः,
भका१५.३७-२ जनुभ्यामदमीच् चाऽन्यान्, हस्त-वर्तमवीवृतत्,
भका१५.३८-१ अदालिषुः शिला देहे, चूर्ण्यभूवन् महा-द्रुमाः,
भका१५.३८-२ क्षिप्तास् तस्य न चा ऽचेतीत् तानसौ, ना ऽपि चा ऽक्षुभत्.
भका१५.३९-१ अद्राष्टां तं रघु-व्याघ्रौ आख्यच् चैनं विभीषणः
भका१५.३९-२ "एष व्यजेष्ट देवेन्द्रं, नाऽशङ्किष्ट विवस्वतः.
भका१५.४०-१ यक्षेन्द्र-शक्तिमच्छासीन्, ना ऽप्रोथीदस्य कश्चन,
भका१५.४०-२ कुम्भकर्णान् न भैष्टं मा युवामस्मान् नृपाऽऽत्मजौ.
भका१५.४१-१ घ्नन्तं मोपेक्षिषाथां च, मा न कार्ष्टमिहाऽऽदरम्.,
भका१५.४१-२ "अमुं मा न वधिष्टे"ति रामोऽवादीत् ततः कपीन्.
भका१५.४२-१ ते व्यरासिषुराह्वन्त राक्षसं चा ऽप्यपिप्लवन्,
भका१५.४२-२ अबभासन् स्वकाः शक्तीर्, द्रुम-शैलं व्यकारिषुः
भका१५.४३-१ ते तं व्याशिषता ऽक्षौत्सुः पादैर्, दन्तैस् तथा ऽच्छिदन्.
भका१५.४३-२ आर्जिजत् शरभो वृक्षं, नीलस् त्वा ऽऽदित पर्वतम्.
भका१५.४४-१ ऋषभो ऽद्रीनुदक्षैप्सीत्, ते तैररिमतर्दिषुः.
भका१५.४४-२ अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः,
भका१५.४५-१ अकूर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् बहून्.
भका१५.४५-२ स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न.
भका१५.४६-१ अमन्थीच् च पराऽनीकमप्लोष्ट च निरङ्कुशः,
भका१५.४६-२ निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच् चाऽङ्कमागतान्.
भका१५.४७-१ व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चाऽऽयति,
भका१५.४७-२ हस्ताभ्यां नश्यदक्राक्षीद्, भीमे चोपाधिताऽऽनने.
भका१५.४८-१ रक्तेना ऽचिक्लिदद् भूमिं, सैन्यैश् चा ऽतस्तरद्धतैः,
भका१५.४८-२ ना ऽतार्प्सीद् भक्षयन् क्रूरो, ना ऽश्रमद् घ्नन् प्लवङ्गमान्,
भका१५.४९-१ न योद्धुमशकन् केचिन्, ना ऽढौकिषत केचन,
भका१५.४९-२ प्राणशन् नासिकाभ्यां च, वक्त्रेण च वनौकसः.
भका१५.५०-१ उदरे चा ऽजरन्नन्ये तस्य पाताल-सन्निभे,
भका१५.५०-२ आक्रन्दिषुः, सखीनाह्वन्, प्रपलायिषताऽस्विदन्.
भका१५.५१-१ रक्तमश्च्योतिषुः क्षुण्णाः, क्षताश् च कपयोऽतृषन्,
भका१५.५१-२ उपास्थायि नृपो भग्नैरसौ सुग्रीवमैजिहत्.
भका१५.५२-१ योद्धुं सो प्यरुषच्छत्रोरैरिरच् च महा-द्रुमम्.
भका१५.५२-२ तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चोग्रामुदग्रहीत्.
भका१५.५३-१ स तामबिभ्रमद् भीमां, वानरेन्द्रस्य चा ऽमुचत्.
भका१५.५३-२ प्रापप्तन् मारुतिस् तत्र तां चा ऽलासीद् वियद्-गताम्.
भका१५.५४-१ अशोभिष्टाऽचखण्डच् च शक्तिं वीरो, न चा ऽयसत्.
भका१५.५४-२ लौह-भार-सहस्रेण निर्मिता निरकारि मे
भका१५.५५-१ शक्तिरत्यकुपद् रक्षो, गिरिं चोदखनीद् गुरुम्,
भका१५.५५-२ व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूर्च्छीदसौ क्षतः.
भका१५.५६-१ अलोठिष्ट च भू-पृष्ठे, शोणितं चा ऽप्यसुस्रुवत्,
भका१५.५६-२ तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः.
भका१५.५७-१ अभैषुः कपयो, ऽन्वारत् कुम्भुकर्णं मरुत्-सुतः,
भका१५.५७-२ शनैरबोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण-नासिकम्
भका१५.५८-१ राक्षसस्य, न चा ऽत्रासीत्, प्रनष्टुमयतिष्ट च.
भका१५.५८-२ अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ.
भका१५.५९-१ सुग्रीवो ऽस्या ऽभ्रशद्धस्तात्, समगाहिष्ट चा ऽम्बरम्,
भका१५.५९-२ तूर्णमन्वसृपद् राम- माननन्दच् च वानरान्.
भका१५.६०-१ अतत्वरच् च तान् योद्धुमचिचेष्टच् च राघवौ.
भका१५.६०-२ कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः.
भका१५.६१-१ अविवेष्टन् नृपाऽऽदेशादारुक्षंश् चाऽऽशु राक्षसम्
भका१५.६१-२ तानधावीत् समारूढांस् ते ऽप्युस्रंसिषता ऽऽकुलाः.
भका१५.६२-१ अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच् च निर्-दयम्.
भका१५.६२-२ ते चा ऽप्यघोरिषुर् घोरं, रक्तं चा ऽवमिषुर् मुखैः.
भका१५.६३-१ स चाऽपि रुधिरैर् मत्तः स्वेषामप्यदयिष्ट न,
भका१५.६३-२ अग्रहीच् चा ऽऽयुरन्येषामरुद्ध च पराक्रमम्.
भका१५.६४-१ संत्रस्तानांअपाहारि सत्त्वं च वन-वासिनाम्,
भका१५.६४-२ अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा.
भका१५.६५-१ अभेदि च शरैर् देहः प्राशंसीत् तं निशा-चरः.
भका१५.६५-२ अस्पर्धिष्ट च रामेण तेना ऽस्या ऽक्षिप्सतेषवः,
भका१५.६६-१ यैरघानि खरो, वाली, मारीचो, दूषणस् तथा.
भका१५.६६-२ अवामंस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्.
भका१५.६७-१ वायव्याऽस्त्रेण तं पाणिं रामो ऽच्छैत्सीत् सहाऽऽयुधम्,
भका१५.६७-२ आदीपि तरु-हस्तो ऽसा- वधावीच् चा ऽरि-संमुखम्.
भका१५.६८-१ स-वृक्षमच्छिदत् तस्य शक्राऽस्त्रेण करं नृपः,
भका१५.६८-२ जङ्घे चा ऽशीशतद् बाणैरप्रासीदिषुभिर् मुखम्.
भका१५.६९-१ ऐन्द्रेण हृदये ऽव्यात्सीत्, सो ऽध्यवात्सीच् च गां हतः.
भका१५.६९-२ अपिक्षातां सहस्रे द्वे तद्-देहेन वनौकसाम्.
भका१५.७०-१ अस्ताविषुः सुरा रामं, दिशः प्रापन् निशा-चराः,
भका१५.७०-२ भूरकम्पिष्ट साऽद्रीन्द्रा, व्यचालीदम्भसां पतिः.
भका१५.७१-१ हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्,
भका१५.७१-२ अरोदीद् रावणो ऽशोचीन्, मोहं चा ऽशिश्रियत् परम्.
भका१५.७२-१ अपप्रथद् गुणान् भ्रातुरचिकीर्तच् च विक्रमम्,
भका१५.७२-२ "क्रुद्धेन कुम्भकर्णेन ये ऽदिर्षिशत शत्रवः
भका१५.७३-१ कथं न्वजीविषुस् ते च, स चा ऽमृत महा-बलः."
भका१५.७३-२ अयुयुत्सिषता ऽऽश्वास्य कुमारा रावणं ततः
भका१५.७४-१ देवान्तको ऽतिकायश् च त्रिशिराः स नरान्तकः
भका१५.७४-२ ते चांऽऽहिषत संग्रामं बलिनो रावणाऽऽत्मजाः.
भका१५.७५-१ युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत्
भका१५.७५-२ सुतानां, निरगातां तौ राक्षसौ रण-पण्डितौ.
भका१५.७६-१ तैरजेषत सैन्यानि, द्विषो ऽकारिषता ऽऽकुलाः
भका१५.७६-२ पर्वतानिव ते भूमावचैषुर् वानरोत्तमान्.
भका१५.७७-१ अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः,
भका१५.७७-२ प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीदङ्गदोरसि.
भका१५.७८-१ अश्वान् वालि-सुतो ऽहिंसीदतताडच् च मुष्टिना.
भका१५.७८-२ रावणिश् चा ऽव्यथो योद्धुमारब्ध च महीं गतः.
भका१५.७९-१ तस्या ऽहारिषत प्राणा मुष्टिना वालि-सूनुना.
भका१५.७९-२ प्रादुद्रुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्.
भका१५.८०-१ ततो नील-हनूमन्तौ रावणीनववेष्टताम्,
भका१५.८०-२ अकारिष्टां गिरींस् तुङ्गानरौत्सीत् त्रिशिराः शरैः
भका१५.८१-१ परिघेणा ऽवधिष्टा ऽथ रणे देवान्तको बली,
भका१५.८१-२ मुष्टिना ऽददरत् तस्य मूर्धानं मारुताऽऽत्मजः.
भका१५.८२-१ अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैः
भका१५.८२-२ युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्.
भका१५.८३-१ अबभ्राजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे,
भका१५.८३-२ हनूमता क्षतास् तस्य रणे ऽमृषत वाजिनः.
भका१५.८४-१ अस्रसच् चाऽऽहतो मूर्ध्नि, खड्गं चा ऽजीहरद् द्विषा,
भका१५.८४-२ प्राणानौज्झीच् च खड्गेन छिन्नैस् तेनैव मूर्धभिः.
भका१५.८५-१ मत्तेना ऽमारि संप्राप्य शरभाऽस्तां महा-गदाम्,
भका१५.८५-२ सहस्र-हरिणा ऽक्रीडीदतिकायस् ततो रणे.
भका१५.८६-१ रथेना ऽविव्यथच् चाऽरीन्, व्यचारीच् च नि-रङ्कुशः,
भका१५.८६-२ विभीषणेन सो ऽख्यायि राघवस्य महा-रथः.
भका१५.८७-१ "अतस्तम्भदयं वज्रं, स्वयम्भुवमतूतुषत्,
भका१५.८७-२ अशिक्षिष्ट महाऽस्त्राणि, रणे ऽरक्षीच् च राक्षसान्.
भका१५.८८-१ अद्यगीष्टा ऽर्थ-शास्त्राणि, यमस्या ऽह्नोष्ट विक्रमम्,
भका१५.८८-२ देवाऽऽहवेष्वदीपिष्ट, ना ऽजनिष्टा ऽस्य साध्वसम्.
भका१५.८९-१ एष रावणिरापादि वानराणां भयङ्करः"
भका१५.८९-२ आह्वता ऽथ स काकुत्स्थं धनुश् चा ऽपुस्फुरद् गुरु.
भका१५.९०-१ सौमित्रिः सर्प-वत् सिंहमार्दिदत् तं महाऽऽहवे.
भका१५.९०-२ तौ प्रावीवृततां जेतुं शर-जालान्यनेकशः.
भका१५.९१-१ अच्छैत्तां च महाऽऽत्मानौ, चिरमश्रमतां न च,
भका१५.९१-२ तथा तावास्थतां बाणानतानिष्टां तमो यथा.
भका१५.९२-१ सौर्याऽऽग्नेये व्यकारिष्टामस्त्रे राक्षस-लक्ष्मणौ,
भका१५.९२-२ ते चोपागमता नाशं समासाद्य परस्परम्
भका१५.९३-१ अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे,
भका१५.९३-२ तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्.
भका१५.९४-१ ततः सौमित्रिरस्मार्षीददेविष्ट च दुर्-जयम्
भका१५.९४-२ ब्रह्माऽस्त्रं, तेन मूर्धानमदध्वंसन् नर-द्विषः.
भका१५.९५-१ ततो ऽक्रन्दीद् दशग्रीवस् तमाशिश्वसदिन्द्रजित्,
भका१५.९५-२ निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्.
भका१५.९६-१ अहौषीत् कृष्णवर्त्मानं, समयष्टा ऽस्त्र-मण्डलम्,
भका१५.९६-२ सो ऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम्.
भका१५.९७-१ तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिः
भका१५.९७-२ छन्न-रूपस् ततो ऽकर्तीद् देहान् रावण-विद्विषाम्.
भका१५.९८-१ सप्त-षष्टिं प्लवङ्गानां कोटीर् बाणैरसूषुपत्.
भका१५.९८-२ निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्.
भका१५.९९-१ अपिस्फवत् स्व-सामर्थ्यमगूहीत् सायकैर् दिशः,
भका१५.९९-२ अघोरीच् च महा-घोरं, गत्वा, प्रैषीच् च रावणम्.
भका१५.१००-१ विभीषणस् ततो ऽबोधि स-स्फुरौ राम-लक्ष्मणौ,
भका१५.१००-२ अपारीत् स गृहीतोल्को हत-शेषान् प्लवङ्गमान्.
भका१५.१०१-१ "मा शोचिष्ट, रघु-व्याघ्रौ नाऽमृषातामिति ब्रुवन्
भका१५.१०१-२ अवाबुद्ध स नीलाऽऽदीन् निहतान् कपि-यूथ-पान्.
भका१५.१०२-१ तत्रैषज् जाम्बवान् प्राणीदुदमीलीच् च लोचने,
भका१५.१०२-२ पौलस्त्यं चाऽगदीत् "कच्चिदजीवीन् मारुताऽऽत्मजः."
भका१५.१०३-१ तस्य क्षेमे महा-राज ! ना ऽमृष्मह्यखिला वयम्.
भका१५.१०३-२ पौलस्त्यो ऽशिश्रवत् तं च जीवन्तं पवनाऽऽत्मजम्.
भका१५.१०४-१ आयिष्ट मारुतिस् तत्र, तौ चा ऽप्यहृषतां ततः,
भका१५.१०४-२ प्राहैष्टां हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः
भका१५.१०५-१ तौ हनूमन्तमानेतुमोषधीं मृत-जीविनीम्
भका१५.१०५-२ सन्धान-करणीं चाऽन्यां वि-शल्य-करणीं तथा.
भका१५.१०६-१ प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः,
भका१५.१०६-२ यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्र-शः
भका१५.१०७-१ निरचायि यदा भेदो नौषधीनां हनू-मता,
भका१५.१०७-२ सर्व एव समाहारि तदा शैलः महौषधिः.
भका१५.१०८-१ प्राणिषुर् निहताः केचित्, केचित् तु प्रोदमीलिषुः
भका१५.१०८-२ तमो ऽन्ये ऽहासिषुर् योधा, व्यजृम्भिषत चाऽपरे.
भका१५.१०९-१ अजिघ्रपंस् तथैवाऽन्यानोषधीरालिपंस् तथा,
भका१५.१०९-२ एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्.
भका१५.११०-१ अजिह्लदत् स काकुत्स्थौ, शेषांश् चा ऽजीजिवत् कपीन्
भका१५.११०-२ हनूमानथ ते लङ्का- मग्निना ऽदीदिपन् द्रुतम्.
भका१५.१११-१ समनात्सीत् ततः सैन्यममार्जीद् भल्ल-तोमरम्,
भका१५.१११-२ अमार्क्षीच् चा ऽसिपत्राऽऽदीनबभासत् परश्वधान्.
भका१५.११२-१ कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ
भका१५.११२-२ निकुम्भश् चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान्.
भका१५.११३-१ अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम्,
भका१५.११३-२ अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः.
भका१५.११४-१ अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम्,
भका१५.११४-२ अच्युतच् च क्षतं रक्तं, हतं चा ऽध्यशयिष्ट गाम्.
भका१५.११५-१ अङ्गदेना ऽहसातां तौ युध्यकम्पन-कम्पनौ,
भका१५.११५-२ अभ्यार्दीद् वालिनः पुत्रं प्रजङ्घो ऽपि स-मत्सरः.
भका१५.११६-१ तस्या ऽप्यबेभिदिष्टा ऽसौ मूर्धानं मुष्टिना ऽङ्गदः,
भका१५.११६-२ अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः.
भका१५.११७-१ शरीरं लोहिताक्षस्य न्यभाङ्क्षीद् द्विविदस् तदा,
भका१५.११७-२ क्रुद्धः कुम्भस् ततो ऽभैत्सीन् मैन्दं स-द्विविदं शरैः
भका१५.११८-१ आघूर्णिष्टां क्षतौ, क्ष्मां च तावाशिश्रियतामुभौ.
भका१५.११८-२ मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः
भका१५.११९-१ प्रौर्णावीच्, छर-वर्षेण तानप्रौहीन् निशा-चरः.
भका१५.११९-२ वानरानैजिहद् रामस्य तूर्णं रक्षितुमङ्गदम्.
भका१५.१२०-१ द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रु-संकटात्,
भका१५.१२०-२ मुष्टिना कौम्भकर्णिं च क्रुद्धः प्राणैरतित्यजत्.
भका१५.१२१-१ निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः,
भका१५.१२१-२ हनूमांश् चा ऽऽपतन्तं तमभाङ्क्षीद् भोगि-भीषणम्.
भका१५.१२२-१ प्रौर्णुवीत् तेजसाऽरातिमरासीच् च भयंकरम्,
भका१५.१२२-२ ग्रीवां चा ऽस्य तथाक्राक्षीदजिजीवद् यथा न तम्.
भका१५.१२३-१ समगतकपि-सैन्यं सम्मदेना ऽतिमात्रं, विटप-हरिण-नाथः सिद्धिमौहिष्ट नित्याम्,
भका१५.१२३-२ नृ-पति-मतिररंस्त प्राप्त-कामेव हर्षात्, रजनि-चर-पतीनां सन्ततो ऽतायि शोकः.

सर्ग १६ सम्पाद्यताम्


भका१६.१-१ ततः प्ररुदितो राजा रक्षसां हत-बान्धवः
भका१६.१-२ "किं करिष्यामि राज्येन, सीतया किं करिष्यते
भका१६.२-१ अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्.
भका१६.२-२ ह्रेपयिष्यति कः शत्रून्, केन जायिष्यते यमः.
भका१६.३-१ अतिकायाद् विना पाश्यं को वा छेत्स्यति वारुणम्,
भका१६.३-२ रावणं मंस्यते को वा, स्वयम्भूः कस्य तोक्ष्यति.
भका१६.४-१ श्लाघिष्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः,
भका१६.४-२ कः प्रेष्यति पित् न् काले, कृत्वा कित्थष्यते न कः.
भका१६.५-१ उद्यंस्यति हरिर् वज्रं, विचरिष्यति निर्-भयः,
भका१६.५-२ भोक्ष्यते यज्ञ-भागांश् च शूर-मानं च वक्ष्यति.
भका१६.६-१ रविस् तप्स्यति निः-शङ्कं, वास्यत्यनियतं मरुत्,
भका१६.६-२ निर्वर्त्स्यत्यृतु-संघातः, स्वेच्छयेन्दुरुदेष्यति.
भका१६.७-१ तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः,
भका१६.७-२ अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा.
भका१६.८-१ अन्मीलिष्यति चक्षुर् मे वृथा, यद् विनयाऽऽगतम्
भका१६.८-२ आज्ञा-लाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम्.
भका१६.९-१ धिङ् मां, त्रिशिरसा ना ऽहं सन्दर्शिष्ये ऽद्य यत् पुनः,
भका१६.९-२ घानिष्यन्ते द्विषः केन तस्मिन् पञ्चत्वमागते.
भका१६.१०-१ शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्,
भका१६.१०-२ युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे.
भका१६.११-१ आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-क्रतुः,
भका१६.११-२ प्रकल्प्स्यति च तस्या ऽर्थो निकुम्बे दुर् हणे हते
भका१६.१२-१ कल्पिष्यते हरेः प्रीतिर्, लङ्का चोपहनिष्यते,
भका१६.१२-२ देवान्तक ! त्वया त्यक्तो रिपोर् यास्यामि वश्यताम्.
भका१६.१३-१ मरिष्यामि, विजेष्ये वा, हताश् चेत् तनया मम,
भका१६.१३-२ हनिष्यामि रिपूंस् तूर्णं, न जीविष्यामि दुःखितः
भका१६.१४-१ स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम्
भका१६.१४-२ "दश-ग्रीवस्य दुर्-नीतेर् विनष्टं रक्षसां कुलम्."
भका१६.१५-१ केन सम्भावितं तातŌकुम्भकर्णस्य राघवः
भका१६.१५-२ रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति.
भका१६.१६-१ पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते.
भका१६.१६-२ नभस्वान् भङ्क्ष्यते व्योम मुष्टिभिस् ताडयिष्यते.
भका१६.१७-१ इन्द्रोः स्यन्दिष्यते वह्निः, समुच्चोक्ष्यति सागरः,
भका१६.१७-२ जलं धक्ष्यति, तिग्मांशोः स्यन्त्यन्ति तमसां चयाः.
भका१६.१८-१ कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते
भका१६.१८-२ संभावितानि नैतानि कदाचित् केनचिज् जने.
भका१६.१९-१ कुम्भकर्णे हते लङ्का- मारोक्ष्यन्ति प्लवङ्गमाः,
भका१६.१९-२ दङ्क्ष्यन्ति राक्षसान्, दृप्ता भङ्क्ष्यन्ति च ममा ऽऽश्रमान्.
भका१६.२०-१ चर्त्स्यन्ति बाल-वृद्धांश् च, नर्त्स्यन्ति च मुदा युताः
भका१६.२०-२ तेन राक्षस-मुख्येन विना तान् को निरोत्स्यति.
भका१६.२१-१ अमर्षो मे परः, सीतां राघवः कामयिष्यते,
भका१६.२१-२ च्युत-राज्यात् सुखं तस्मात् किं किला ऽसाववाप्स्यति.
भका१६.२२-१ मारयिष्यामि वैदेहीं, खादयिश्यामि राक्षसैः,
भका१६.२२-२ भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम्
भका१६.२३-१ ना ऽनुरोत्स्ये जगल्-लक्ष्मीं, घटिष्ये जीवितुं न वा
भका१६.२३-२ न रंस्ये विषयैः शून्ये भवने बान्धवैरहम्.
भका१६.२४-१ मोदिष्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे,
भका१६.२४-२ आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना.
भका१६.२५-१ याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः,
भका१६.२५-२ ताः किं मन्यु-क्षताऽऽभोगा न विपत्सु विपत्तयः.
भका१६.२६-१ "विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः,
भका१६.२६-२ अ-सन्धित्सोस् तवे"त्येतद् विभीषण-सुभाषितम्.
भका१६.२७-१ "अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्,
भका१६.२७-२ संयोत्स्यामह," इत्येतत् प्रहस्तेन च भाषितम्.
भका१६.२८-१ मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम्
भका१६.२८-२ योधयिष्यति संग्रामे दिव्याऽस्त्र-रथ-दुर्जयम्.
भका१६.२९-१ सन्नत्स्याम्यथवा योद्धुं, न कोष्ये सत्त्व-हीन-वत्,
भका१६.२९-२ अद्य तप्र्स्यन्ति मांसाऽदा, भूः पास्यत्यरि-शोणितम्.
भका१६.३०-१ आकर्क्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा,
भका१६.३०-२ अनुभाविष्यते शोको मैथिल्या ऽद्य पति-क्षयात्.
भका१६.३१-१ मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः,
भका१६.३१-२ ग्लास्यन्त्य-पति-पुत्राश् च वने वानर-योषितः.
भका१६.३२-१ सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्,
भका१६.३२-२ न विक्रोक्ष्यन्ति राक्षस्यो, नरांश् चा ऽत्स्यन्ति हर्षिताः.
भका१६.३३-१ प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी
भका१६.३३-२ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः
भका१६.३४-१ तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम्,
भका१६.३४-२ ततः परेण भूयो ऽपि लङ्कामेष्याम्यमत्सरः"
भका१६.३५-१ तमेव-वादिनं मूढमिन्द्र्जित् समुपागतः
भका१६.३५-२ "युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः.
भका१६.३६-१ ना ऽभिज्ञा ते महाराज !, जेष्यावः शक्र-पालितम्
भका१६.३६-२ दृप्त-देव-गुणाऽऽकीर्ण- मावां सह सुराऽऽलयम्,
भका१६.३७-१ ना ऽभिज्ञा ते, स-यक्षेन्द्रं भङ्क्ष्यावो यद् यमं बलात्,
भका१६.३७-२ रत्नानि चा ऽऽहरिष्यावः, प्राप्स्यावश् च पुरीमिमाम्.
भका१६.३८-१ एष पेक्ष्याम्यरीन् भूयो, न शोचिष्यसि रावण !
भका१६.३८-२ जगद् द्रक्ष्यसि नी-राममवगाहिष्यसे दिशः.
भका१६.३९-१ सह-भृत्यः सुराऽऽवासे भयं भूयो विधास्यसि
भका१६.३९-२ प्रणंस्यत्यद्य देवेन्द्रस् त्वां, वक्ष्यति स सन्नतिम्.
भका१६.४०-१ भेष्यते मुनिभिस् त्वत्तस् त्वमधिष्ठास्यसि द्विषः,
भका१६.४०-२ ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर-मानिभिः.
भका१६.४१-१ ज्ञायिष्यन्ते मया चा ऽद्य वीरं-मन्या द्विषद्-गणाः,
भका१६.४१-२ गूहिष्यामि क्षितिं कृत्तै- रद्य गात्रैर् वनाकसाम्.
भका१६.४२-१ आरोक्ष्यामि युगान्त-वारिद-घटा- संघट्ट-धीर-ध्वनिं निर्यास्यन् रथमच्छ्रित-ध्वज-धनुः- खड्ग-प्रभा-भासुरम्.
भका१६.४२-२ श्रोष्यस्यद्य विकीर्ण-वृक्ण-विमुख- व्यापन्न-शत्रौ रणे तृप्तांश् छोणित-शोण-भीषणमुखान् क्रव्याऽशिनः क्रोशतः."

सर्ग १७ सम्पाद्यताम्


भका१७.१-१ आशासत ततः शान्तिमस्नुरग्नीनहावयन्,
भका१७.१-२ विप्रानवाचयन् योधाः, प्राक्कुर्वन् मङ्गलानि च.
भका१७.२-१ अपूजयन् कुल-ज्येष्ठानुपागूहन्त बालकान्.
भका१७.२-२ स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा.
भका१७.३-१ आच्छादयन्, व्यलिम्पंश् च, प्राश्नन्नथ सुराऽऽमिषम्,
भका१७.३-२ प्रापिबन् मधु-माध्वीकं भक्ष्यांश् चा ऽऽदन् यथेप्सितान्
भका१७.४-१ न्यश्यन् शस्त्राण्यभीष्टानि, समनह्यंश् च वर्मभिः,
भका१७.४-२ अध्यासत सु-यागानि, द्विषद्भ्यश् चा ऽशपंस् तथा.
भका१७.५-१ अपूजयंश् चतुर्-वक्त्रं, विप्रानार्चंस् तथा ऽस्तुवन्,
भका१७.५-२ समालिपत शक्राऽरिर् यानं चा ऽभ्यलषद् वरम्.
भका१७.६-१ आमुञ्चद् वर्म रत्नाऽऽढ्यमबध्नात् खड्गमुज्ज्ल्वलम्,
भका१७.६-२ अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः
भका१७.७-१ आघ्नन् भेरीर् महा-स्वानाः, कम्बूंश् चा ऽप्यधमन् शुभान्,
भका१७.७-२ अताडयन् मृदङ्गांश् च, पेराश् चा ऽपूरयन् कलाः.
भका१७.८-१ अस्तुवन् बन्दिनः, शब्दानन्योन्यं चोदभावयन्,
भका१७.८-२ अनदन् सिंहनादांश् च, प्राद्रेकत हय-द्विपम्.
भका१७.९-१ अ-निमित्तान्यथा ऽपश्यन्नस्फुटद् रवि-मण्डलम्,
भका१७.९-२ औक्षन् शोणितमम्भोदा, वायवोऽवान्सु-दुःसहाः.
भका१७.१०-१ आर्च्छन् वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन् भटाः,
भका१७.१०-२ रक्तं न्यष्ठीवदक्लाम्य- दखिद्यद् वाजि-कुञ्जरम्.
भका१७.११-१ न तानगणयन् सर्वानास्कन्दंश् च रिपून्, द्विषः
भका१७.११-२ अच्छिन्दन्नसिभिस् तीक्ष्णैरभिन्दंस् तोमरैस् तथा
भका१७.१२-१ न्यकृन्तंश् चक्र-धाराभिरतुदन् शक्तिभिर् दृढम्,
भका१७.१२-२ भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस् तोमरैरलम्.
भका१७.१३-१ आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भू-धरैर् भृशम्,
भका१७.१३-२ अहिंसन् मुष्टिभिः क्रोघाददशन् दशनैरपि.
भका१७.१४-१ प्रादुन्वन् जानुभिस् तूर्णमतुदंस् तल-कूर्परैः,
भका१७.१४-२ प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च.
भका१७.१५-१ अतृणेट् शक्र-जिच् छत्रूनभ्राम्यच् च समन्ततः,
भका१७.१५-२ अध्वनच् च महा-घोरं, न च कंचन नाऽदुनोत्.
भका१७.१६-१ नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम्
भका१७.१६-२ नेषूनचेतन्नस्यन्तं, हतास् तेना ऽविदुर् द्विषः.
भका१७.१७-१ अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा ऽन्यतः,
भका१७.१७-२ आक्रन्दमन्यतोऽकुर्वंस् तेना ऽहन्यन्त चाऽन्यतः.
भका१७.१८-१ प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्,
भका१७.१८-२ पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽम्रियन्त च.
भका१७.१९-१ सौमित्रिराकुलस् तस्मिन् ब्रह्माऽस्त्रं सर्व-रक्षसाम्
भका१७.१९-२ निधनाया ऽऽजुहूषत् तं व्य्ष्टभ्नाद् रघु-नन्दनः.
भका१७.२०-१ ततो माया-मयीं सीतां घ्नन् खड्गेन वियद्-गतः
भका१७.२०-२ अदृश्यतेन्द्रजिद्, वाक्यमवदत् तं मरुत्-सुतः.
भका१७.२१-१ "मा ऽपराध्नोदियं किंचिदभ्रश्यत् पत्युरन्तिकात्
भका१७.२१-२ सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्"
भका१७.२२-१ "पीडा-करम-मित्राणां कर्तव्यमिति शक्रजित्
भका१७.२२-२ अब्रवीत्, खड्ग-कृष्टश् च तस्या मूर्धानमच्छिनत्.
भका१७.२३-१ "यत्-कृते ऽरीन् व्यगृह्णीम, समुद्रमतराम च,
भका१७.२३-२ सा हते"ति वदन् राममुपातिष्ठन् मरुत्-सुतः.
भका१७.२४-१ ततः प्रामुह्यतां वीरौ राघवावरुतां तथा,
भका१७.२४-२ उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा.
भका१७.२५-१ तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम्,
भका१७.२५-२ ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भिलाम्.
भका१७.२६-१ मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽस्माव-हुताऽनलः,
भका१७.२६-२ अस्त्रे ब्रह्म-शिरस्युग्रे स्यन्दने चा ऽनुपार्जिते.
भका१७.२७-१ ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते"
भका१७.२७-२ प्रायच्छदाज्ञां सौमित्रेर् युथपानां च राघवः.
भका१७.२८-१ तां प्रत्यैच्छन् सु-संप्रितास् ततस् ते स-विभीषणाः,
भका१७.२८-२ निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः
भका१७.२९-१ दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत्,
भका१७.२९-२ ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ,
भका१७.३०-१ तत्रेन्द्रजितमैक्षेतां कृत-धिष्ण्यं समाहितम्.
भका१७.३०-२ सो ऽजुहोत् कृष्णवर्त्मानमामनन् मन्त्रमुत्तमम्.
भका१७.३१-१ अध्यायच् छक्रजिद् ब्रह्म, समाधेरचलन् न च.
भका१७.३१-२ तमाह्वयत सौमित्रिरगर्जच् च भयंकरम्.
भका१७.३२-१ अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः
भका१७.३२-२ "त्वमत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः,
भका१७.३३-१ इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम्,
भका१७.३३-२ नाऽपश्यः पाणिमार्द्रं त्वं, बन्धु-त्वं नाऽप्यपैक्षथाः.
भका१७.३४-१ अ-धर्मान् ना ऽत्रसः पाप ! लोक-वादान् न चा ऽबिभेः,
भका१७.३४-२ धर्म-दुषण ! नूनं त्वं ना ऽजाना, ना ऽशृणोरिदम्.
भका१७.३५-१ निराकृत्य यथा बन्धून् लघु-त्वं यात्य-संशयम्."
भका१७.३५-२ पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित्
भका१७.३६-१ "मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाह्
भका१७.३६-२ सत्यं समभवं वंशे पापानां रक्षसामहम्.
भका१७.३७-१ न त्वजायत मे शीलं तादृक्, यादृक् पितुस् तव.
भका१७.३७-२ क्षयाऽऽवहेषु दोषेषु वार्यमाणो मया ऽरमत्
भका१७.३८-१ दश-ग्रीवं ऽहमेतस्मादत्यजं, न तु विद्विषन्.
भका१७.३८-२ पर-स्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्.
भका१७.३९-१ व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते,
भका१७.३९-२ आशङ्कत सुहृद्-बन्धून-वृद्धान् बह्वमन्यत.
भका१७.४०-१ दोषैररमतैभिस् ते पिता ऽत्यज्यत यैर् मया.
भका१७.४०-२ ततो-रुष्यदनर्दच् च, द्वि-विंशतिभिरेव च
भका१७.४१-१ शरैरताडयद् बन्धुं, पञ्च-विंशतिभिर् नृपम्
भका१७.४१-२ रावणिस् तस्य सौमित्रिरमथ्नाच् चतुरो हयान्.
भका१७.४२-१ सागरथिं चा ऽलुनाद् बाणैरभनक् स्यन्दनं तथा,
भका१७.४२-२ सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः.
भका१७.४३-१ तावस्फावयतां शाक्तिं, बाणांश् चाऽकिरतां मुहुः.
भका१७.४३-२ वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्.
भका१७.४४-१ ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्,
भका१७.४४-२ आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्,
भका१७.४५-१ तस्मान् निरपतद् भूरि शिला-शूलेष्टि-मुद्गरम्.
भका१७.४५-२ माहेश्वरेण सौमित्रिरस्तभ्नात् तत् सुदुर्जयम्.
भका१७.४६-१ ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्,
भका१७.४६-२ तेनाऽऽगम्यत घोरेण, शिरश् चा ऽह्रियत द्विषः
भका१७.४७-१ अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपि-यूथपाः,
भका१७.४७-२ पर्यष्वजत सौमित्रिं, मूर्ध्न्यजिघ्रच् च राघवः.
भका१७.४८-१ अरोदीद् राक्षसाऽनीकमरोदन् नृ-भुजां पतिः,
भका१७.४८-२ मैथिल्यै चा ऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः.
भका१७.४९-१ "अ-युक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन्,
भका१७.४९-२ न्यरुन्धंश् चा ऽस्य पन्थानं बन्धुता शुचमारुणत्.
भका१७.५०-१ आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्यतायत
भका१७.५०-२ रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्.
भका१७.५१-१ अग्नीनवरिवस्यंश् च ते, ऽनमस्यंश् च शङ्करम्,
भका१७.५१-२ द्विजानप्रीणयन् शान्त्यै यातुधाना भवद्-भियः.
भका१७.५२-१ परितः पर्यवाद् वायुराज्य-गन्धिर् मनो-रमः,
भका१७.५२-२ अश्रूयत स पुण्याहः स्वस्ति-घोषः समुच्चरन्.
भका१७.५३-१ योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,
भका१७.५३-२ रत्नानि चा ऽददुर् गाश् च, समवाञ्छन्नथाऽऽशिषः.
भका१७.५४-१ अदिहंश् चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्,
भका१७.५४-२ अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये ऽदधुर् द्रुतम्.
भका१७.५५-१ समक्ष्णुवत शस्त्राणि, प्रामृजन् खड्ग-संहतीः,
भका१७.५५-२ गजाऽऽदीनि समारोहन्, प्रातिष्ठन्ता ऽऽथ सत्वराः
भका१७.५६-१ अपूरयन् नभः शब्दो बल-संवर्त-संभवः
भका१७.५६-२ अपूर्यन्त च दिग्-भागास् तुमुलैस् तूर्य-निस्वनैः.
भका१७.५७-१ आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम्
भका१७.५७-२ समहान-निमित्तैश् च समभूयत भीषणैः
भका१७.५८-१ कपयो ऽबिभयुस् तस्मिन्नभञ्जंश् च महा-द्रुमान्
भका१७.५८-२ प्रोदखायन् गिरींस् तूर्णमगृह्णंश् च महा-शिलाः.
भका१७.५९-१ ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः,
भका१७.५९-२ अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च.
भका१७.६०-१ प्रावर्धत रजो भौमं, तद् व्याश्नुत दिशो दश,
भका१७.६०-२ पराऽऽत्मीय-विवेकं च प्रामुष्णात् कपि-रक्षसाम्.
भका१७.६१-१ ततो ऽद्विषुर् निरालोके स्वेभ्यो ऽन्येभ्यश् च राक्षसाः.
भका१७.६१-२ अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः
भका१७.६२-१ अघुरंस् ते महा-घोरमश्च्योतन्नथ शोणितम्,
भका१७.६२-२ समपद्यत रक्तेन समन्तात् तेन कर्दमः.
भका१७.६३-१ गम्भीराः प्रावहन् नद्यः, समजायन्त च ह्रदाः,
भका१७.६३-२ वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः.
भका१७.६४-१ ततो ऽचित्रीयता ऽस्त्रौघैर् धनुश् चा ऽधूनयन् महत्
भका१७.६४-२ रामः, समीहितं तस्य नाऽचेतन् स्वे न चा ऽपरे.
भका१७.६५-१ छिन्नानैक्षन्त भिन्नांश् च समन्ताद् राम-सायुकैः.
भका१७.६५-२ क्रुष्टं हाहेति चा ऽशृण्वन् न च रामं न्यरूपयन्.
भका१७.६६-१ अभिनच् छत्रु-संघातानक्षुणद् वाजि-कुञ्जरम्,
भका१७.६६-२ अपिनट् च रथाऽनीकं, न चा ऽज्ञायत संचरन्.
भका१७.६७-१ दश दन्ति-सहस्राणि रथिनां च महाऽऽत्मनाम्
भका१७.६७-२ चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम्
भका१७.६८-१ लक्षे च द्वे पदातीनां राघवेण धनुर्-भृता
भका१७.६८-२ अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्.
भका१७.६९-१ यम-लोकमिवाऽग्रथ्नाद्, रुद्राऽऽक्रीडमिवा ऽकरोत्,
भका१७.६९-२ शैलैरिवा ऽचिनोद् भूमिं बृहद्भी राक्षसैर् हतैः.
भका१७.७०-१ अस्तुवन् देव-गन्धर्वा, व्यस्मयन्त प्लवङ्गमाः
भका१७.७०-२ कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्.
भका१७.७१-१ राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्.
भका१७.७१-२ अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः.
भका१७.७२-१ सर्वतश् चाऽभयं प्राप्नोन् नैच्छन् नृभ्यस् तु रावणः,
भका१७.७२-२ फलं तस्येदमभ्यायाद् दुरुक्तस्येति चा ऽब्रुवन्.
भका१७.७३-१ ततो ऽधावन् महा-घोरं रथमास्थाय रावणः,
भका१७.७३-२ अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः.
भका१७.७४-१ मेघाः स-विद्युतो ऽवर्षंश् चेल-क्नोपं च शोणितम्,
भका१७.७४-२ अवान् भीमा नभस्वन्तः, प्रारुवन्न-शिवाः शिवाः
भका१७.७५-१ आटाट्यता ऽवमत्या ऽसौ दुर्निमित्तानि, संयुगे
भका१७.७५-२ अधुनोद् धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः
भका१७.७६-१ व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः,
भका१७.७६-२ ततो व्यरसदग्लायदध्य्शेत मही-तलम्.
भका१७.७७-१ आश्च्योतद् रुधिरं, तोयमलसच् चाऽति विह्वलम्,
भका१७.७७-२ अशीयत नृ-मांसाऽदां बलं सुग्रीव-बाधितम्.
भका१७.७८-१ विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त-हस्तिना,
भका१७.७८-२ मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः.
भका१७.७९-१ अचूर्णयच् च यूपाक्षं शिलया तदनन्तरम्.
भका१७.७९-२ संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्.
भका१७.८०-१ ततो ऽकुष्णाद् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्,
भका१७.८०-२ अगोपायच् च रक्षांसि दिशश् चा ऽरीनभाजयत्.
भका१७.८१-१ आलोकयत् स काकुत्स्थमधृष्णोद्, घोरमध्वनत्,
भका१७.८१-२ धनुरभ्रमयद् भीममभीषयत विद्विषः.
भका१७.८२-१ आस्कन्दल् लक्ष्मणं बानैरत्यक्रामच् च तं द्रुतम्,
भका१७.८२-२ राममभ्यद्रवज् जिष्णुरस्कुनाच् चेषु-वृष्टिभिः.
भका१७.८३-१ अपौहद् बाण-वर्षं तद् भल्लै रामो निराकुलः,
भका१७.८३-२ प्रत्यस्कुनोद् दष-ग्रीवं शरैराशी-विषोपमैः.
भका१७.८४-१ मण्डलान्याटतां चित्रमच्छित्तां शस्त्र-संहतीः,
भका१७.८४-२ जगद् विस्मापयेतां तौ, न च वीरावसीदताम्.
भका१७.८५-१ व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः,
भका१७.८५-२ अभित्तां तूर्णमन्योन्यं शिक्षाश् चा ऽतनुतां मुहुः.
भका१७.८६-१ समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर-विक्रमः,
भका१७.८६-२ तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीषणान्.
भका१७.८७-१ न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः
भका१७.८७-२ अदीव्यद् रौद्रमत्युग्रं, मुसलाऽऽद्यगलत् ततः
भका१७.८८-१ गान्धर्वेण न्यविद्यत् तत् क्षितीन्द्रो, ऽथ नराऽशनः
भका१७.८८-२ सर्व-मर्मसु काकुत्स्थ- मौम्भत् तीक्ष्णैः शिलीमुखैः
भका१७.८९-१ ततस् त्रिशिरसं तस्य प्रावृश्चल् लक्ष्मणो ध्वजम्,
भका१७.८९-२ अमथ्नात् सारथिं चाऽऽशु, भूरिभिश् चा ऽतुदच्छरैः.
भका१७.९०-१ अश्वान् विभीषनो ऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम्,
भका१७.९०-२ नाऽक्षुभ्नाद् राक्षसो, भ्रातुः शक्तिं चोदवृहद् गुरुम्.
भका१७.९१-१ तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः,
भका१७.९१-२ अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः
भका१७.९२-१ अष्ट-घण्टां महा-शक्तिमुदयच्छन् महत्तराम्,
भका१७.९२-२ रामाऽनुजं तया ऽविध्यत्, स महीं व्यसुराश्रयत्.
भका१७.९३-१ राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतः
भका१७.९३-२ ततस् तूर्णं दशग्रीवो रण-क्ष्मा पर्यशेषयत्.
भका१७.९४-१ स-स्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्र-जः,
भका१७.९४-२ असिञ्चदोषधीस् ता याः समानीता हनूमता.
भका१७.९५-१ उदजीवत् सुमित्रा-भूर् भ्राता ऽऽश्लिष्यत तमायतम्,
भका१७.९५-२ सन्यङ् मूर्धन्युपाशिङ्घ- दपृच्छच् च निरामयम्
भका१७.९६-१ ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान्,
भका१७.९६-२ अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन ऽरावणः.
भका१७.९७-१ "भूमि-ष्ठस्या ऽसमं युद्धं रथ-स्थेने"ति मातलिः
भका१७.९७-२ आहरद् रथमत्युग्रं स-शस्त्रं मघवा ऽऽज्ञया.
भका१७.९८-१ सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः
भका१७.९८-२ निरास्यत दशाऽऽस्यस्, तच्छक्राऽस्त्रेणाजयन् नृपः.
भका१७.९९-१ ततः शत-महस्रेण रामः प्रौर्णोन् निशाचरम्
भका१७.९९-२ बाणानामक्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्.
भका१७.१००-१ अदृश्यन्ता ऽनिमित्तानि, प्राह्वलत् क्षिति-मण्डलम्,
भका१७.१००-२ रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं मही-पतिः.
भका१७.१०१-१ ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः,
भका१७.१०१-२ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः
भका१७.१०२-१ अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः,
भका१७.१०२-२ अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्.
भका१७.१०३-१ राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम्,
भका१७.१०३-२ निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम्
भका१७.१०४-१ उभावकृन्ततां केतूनाव्यथेतामुभौ न तौ
भका१७.१०४-२ अदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम्
भका१७.१०५-१ उभौ मायां व्यतायेतां, वीरौ ना ऽश्राम्यतामुभौ
भका१७.१०५-२ मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ
भका१७.१०६-१ न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौ
भका१७.१०६-२ स्यन्दनौ समपृच्येतामुभयोर् दीप्त-वाजिनौ.
भका१७.१०७-१ ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे,
भका१७.१०७-२ रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः.
भका१७.१०८-१ समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः,
भका१७.१०८-२ सन्त्रासमबिभः शक्रुः, प्रैंखच्च, क्षुभिता क्षितिः.
भका१७.१०९-१ ततो मातलिना शस्त्रमस्मर्यत महीपतेः
भका१७.१०९-२ वधाय रावणस्योग्रं स्वयम्भूर् यदकल्पयत्.
भका१७.११०-१ नभस्वान् यस्य वाजेषु, फले तिग्मांशु-पावकौ
भका१७.११०-२ गुरुत्वं मेरु-सङ्काशं, देहः सूक्ष्मो वियन्मयः.
भका१७.१११-१ राजितं गारुडैः पक्षैर् विश्वेषां घाम तेजसाम्
भका१७.१११-२ स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्यशाययत्.
भका१७.११२-१ आबध्नन् कपि-वदनानि संप्रसादं, प्राशंसत् सुर-समितिर् नृपं जिता ऽरिम्,
भका१७.११२-२ अन्येषां विगत-परिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्न-बन्धुः

सर्ग १८ सम्पाद्यताम्


भका१८.१-१ व्यश्नुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः
भका१८.१-२ विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्.
भका१८.२-१ "भूमौ शेते दश-ग्रीवो महार्ह-शयनोचितः,
भका१८.२-२ नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति.
भका१८.३-१ विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया.
भका१८.३-२ त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि.
भका१८.४-१ भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदः
भका१८.४-२ तान्, मदान् नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्.
भका१८.५-१ अ-पथ्यमायतौ लोभादामनन्त्यनुजीविनः
भका१८.५-२ प्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः.
भका१८.६-१ प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च,
भका१८.६-२ तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च.
भका१८.७-१ लेढि भेषज-वन् नित्यं यः पथ्यानि कटून्यपि,
भका१८.७-२ तदर्थं सेवते चा ऽऽप्तान्, कदाचिन् न स सीदति.
भका१८.८-१ सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति,
भका१८.८-२ वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति.
भका१८.९-१ द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्,
भका१८.९-२ वैरायते महद्भिश् च शीयते वृद्धिमानपि.
भका१८.१०-१ समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्-गतः
भका१८.१०-२ लोक-त्रय-पतिर् भ्राता यस्य मे स्वपिति क्षितौ
भका१८.११-१ अहो जागर्ति कृच्छ्रेषु दैवं, यद् बल-भिज्जितः
भका१८.११-२ लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च.
भका१८.१२-१ शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्,
भका१८.१२-२ दशग्रीव-सनाभीनां समदन्त्यामिषं खगाः,
भका१८.१३-१ येन पूत-क्रतोर् मूर्ध्नि स्थीयते स्म महाऽऽहवे,
भका१८.१३-२ तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते.
भका१८.१४-१ स्वर्भानुर् भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः,
भका१८.१४-२ अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन.
भका१८.१५-१ त्वमजानन्निदं राजन्नीडिषे स्म स्व-विक्रमम्,
भका१८.१५-२ दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे.
भका१८.१६-१ मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे,
भका१८.१६-२ कथं नाम भवांस् तत्र ना ऽवैति हितमात्मनः
भका१८.१७-१ अ-पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्,
भका१८.१७-२ "न करोमीतिपौलस्त्य ! तदा मोहात् त्वमुक्तवान्
भका१८.१८-१ त्वं स्म वेत्थ महाराज ! यत् स्माऽऽह न विभीषनः.
भका१८.१८-२ पुरा त्यजति यत् क्रुद्दो मां निराकृत्य संसदि.
भका१८.१९-१ हविर् जक्षिति निःशङ्को मखेषु मधवानसौ,
भका१८.१९-२ प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः.
भका१८.२०-१ धनानामीशते यक्षा, यमो दाम्यति राक्षसान्,
भका१८.२०-२ तनोति वरुणः पाशमिन्दुनोदीयते ऽधुना.
भका१८.२१-१ शाम्यत्यृतु-समाहारस्, तपस्यन्ति वनौकसः,
भका१८.२१-२ नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः
भका१८.२२-१ श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः,
भका१८.२२-२ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः.
भका१८.२३-१ शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्,
भका१८.२३-२ देव-वन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः.
भका१८.२४-१ बिभ्रत्यस्त्राणि साऽमर्षा रण-काम्यन्ति चा ऽमराः,
भका१८.२४-२ चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति.
भका१८.२५-१ चञ्चूर्यते ऽभितो लङ्कामस्मांश् चा ऽप्यतिशेरते,
भका१८.२५-२ भूमयन्ति स्व-सामर्थ्यं, कीर्तिं नः कनयन्ति च.
भका१८.२६-१ दिशो व्यष्नुवते दृप्तास् त्वत्-कृतां जहति स्थितिम्,
भका१८.२६-२ क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्-गतम्.
भका१८.२७-१ शमं शमं नभस्वन्तः पुनन्ति परितो जगत्,
भका१८.२७-२ उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः
भका१८.२८-१ प्रोर्णोति शोकस् चित्तं मे, सत्वं संशाम्यतीव मे
भका१८.२८-२ प्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना.
भका१८.२९-१ केन संविद्रते-नाऽन्यस् त्वत्तो बान्धव-वत्सलः,
भका१८.२९-२ विरौमि शून्ये, प्रोर्णौमि कथं मन्यु-समुद्भवम्.
भका१८.३०-१ रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया,
भका१८.३०-२ प्रमाणं नोपकाराणामवगच्छामि यस्य ते
भका१८.३१-१ नेदानीं शक्र-यक्षेन्द्रौ बिभीतो, न दरिद्रितः,
भका१८.३१-२ न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशाऽऽनन !
भका१८.३२-१ त्वया ऽपि नाम रहिताः कार्याणि तनुमो वयम्,
भका१८.३२-२ कुर्मश् च जीविते बुद्धिं, धिक् तृष्णां कृत-नाशिनीम्.
भका१८.३३-१ तृणेह्मि देहमात्मीयं।
त्वं वाचं न ददासि चेत्,
भका१८.३३-२ द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास् तव.
भका१८.३४-१ उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्,
भका१८.३४-२ नेदयत्यासनं को मे, को हि मे वदति प्रियम्.
भका१८.३५-१ न गच्छामि पुरा लङ्का- मायुर् यावद् दधाम्यहम्,
भका१८.३५-२ कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्.
भका१८.३६-१ ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षत-बान्धवः,
भका१८.३६-२ मन्त्रे स्म हितमाख्यामि, न करोमि तवा ऽप्रियम्.
भका१८.३७-१ अन्तःपुराणि पौलस्त्यं पौराश् च भृश-दुःखिताः
भका१८.३७-२ संश्रुत्य स्मा ऽभिधावन्ति हतं रामेण संयुगे.
भका१८.३८-१ मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्मा ऽतिविह्वलम्,
भका१८.३८-२ अधीयन्त्युपकाराणां मुहुर् भर्तुः प्रमन्यु च.
भका१८.३९-१ रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च."
भका१८.३९-२ भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम्Ō
भका१८.४०-१ "दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पित् न्
भका१८.४०-२ युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि
भका१८.४१-१ बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्,
भका१८.४१-२ किं न पश्यसि, सर्वो ऽयं जनस् त्वामवलम्बते.
भका१८.४२-१ त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्या ऽस्य च शोक-भङ्गम्,
भका१८.४२-२ धुर्ये विपन्ने त्वयि राज्य-भारो मज्जत्यनूढः क्षणदा-चरेन्द्र !"

सर्ग १९ सम्पाद्यताम्


भका१९.१-१ अप-मन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्Ō
भका१९.१-२ "अ-शोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किम्.
भका१९.२-१ तं नो देवा विधेयासुर् येन रावण-वद् वयम्
भका१९.२-२ सपत्नांश् च ऽधिजीयास्म, संग्रामे च मृषीमहि.
भका१९.३-१ क्रियेरंश् च दशाऽऽस्येन यथा ऽन्येना ऽपि नः कुले
भका१९.३-२ देवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः.
भका१९.४-१ स एव घारयेत् प्राणानीदृशे बन्धु-विप्लवे,
भका१९.४-२ भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः.
भका१९.५-१ म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः,
भका१९.५-२ आशंसा च हि नः, प्रेते जीवेम-दशमूर्धनि.
भका१९.६-१ प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्,
भका१९.६-२ यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः."
भका१९.७-१ आमन्त्रयेत तान् प्रह्वान् मन्त्रिणोऽथ विभीषणःŌ
भका१९.७-२ "गच्छेत त्वरितं लङ्कां, राज-वेश्म विशेत च.
भका१९.८-१ आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः
भका१९.८-२ उद्धुनीयात सत्-केतून्, निर्हरेताऽग्र्य-चन्दनम्.
भका१९.९-१ मुञ्चेताऽऽकाश-धूपांश्च, ग्रथ्नीयात स्रजः शुभाः,
भका१९.९-२ आनयेता ऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम्.
भका१९.१०-१ उह्येरन् यज्ञ पात्राणि, ह्रियेत च विभावसुः,
भका१९.१०-२ भ्रियेत चाऽऽज्यमृत्विग्भिः, कल्प्येत च समित्-कुशम्.
भका१९.११-१ स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकैः,
भका१९.११-२ अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर् दशाऽऽननम्.
भका१९.१२-१ वासयेत सु-वासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम्,
भका१९.१२-२ ऋत्विक् स्रग्विणमादध्यात् प्राङ्-मूर्धानं मृगाऽजिने.
भका१९.१३-१ यज्ञ-पात्राणि गोत्रेषु चिनुयाच् च यथा-विधि,
भका१९.१३-२ जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगाः."
भका१९.१४-१ गत्वा ऽथ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम्
भका१९.१४-२ समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम्Ō
भका१९.१५-१ "कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्नि-जल-क्रियाम्
भका१९.१५-२ प्रयतेथा महाराज ! सह सर्वैः स्व-बन्धुभिः.
भका१९.१६-१ अज्ञा-वन् नोत्सहेथास् त्वं, धेया धीर-त्वम-च्युतम्,
भका१९.१६-२ स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः.
भका१९.१७-१ नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपि
भका१९.१७-२ न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः.
भका१९.१८-१ यच्च यत्र भवांस् तिष्ठेत्, तत्रा ऽन्यो रावणस्य न,
भका१९.१८-२ यच्च यत्र भवान् सीदेन् महद्भिस् तद् विगर्हितम्.
भका१९.१९-१ आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्,
भका१९.१९-२ अपि साक्षात् प्रशिष्यास् त्वं कृच्छ्रेष्विन्द्र-पुरोहितम्.
भका१९.२०-१ कामो जनस्यŌ"जह्यास् त्वं प्रमादं नैरृताऽधिप !"
भका१९.२०-२ उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः.
भका१९.२१-१ स भवान् भ्रातृ-वद् रक्षेद् यथावदखिलं जनम्,
भका१९.२१-२ न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः,
भका१९.२२-१ ततः स गतवान् कर्तुं भ्रातुरग्नि-जल-क्रियाम्.
भका१९.२२-२ प्रोक्तवान् कृत-कर्तव्यं वचो रामोऽथ राक्षसम्.
भका१९.२३-१ अम्भांसि रुक्म-कुम्भेन सिञ्चन् मूर्धि समाधिमान्Ō
भका१९.२३-२ "त्वं राजा रक्षसां लङ्का- मवेक्षेथा विभीषन ?
भका१९.२४-१ क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः,
भका१९.२४-२ मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयेः.
भका१९.२५-१ इच्छा मे परमा, नन्देः कथं त्वं वृत्र-शत्रु-वत्,
भका१९.२५-२ इच्छेद्धि सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत्.
भका१९.२६-१ वर्धिषीष्टाः स्वजातेषु, वध्यास् त्वं रिपु-संहतीः,
भका१९.२६-२ भूयास् त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ.
भका१९.२७-१ धेयास् त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः,
भका१९.२७-२ सोमं पेयाश् च, हेयाश् च हिंस्रा हानि-करीः क्रियाः
भका१९.२८-१ अवसेयाश् च कार्याणि धर्मेण पुर-वासिनाम्,
भका१९.२८-२ अनुरागं क्रिया राजन् ! सदा सर्व-गतं जने.
भका१९.२९-१ घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः,
भका१९.२९-२ रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते.
भका१९.३०-१ मन्युं वध्या भट-वध-कृतं बाल-वृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः,
भका१९.३०-२ संरंसीष्ठाः सुर-मुनि-गते वर्त्मनि प्राज्य-धर्मे, संभुत्सीष्ठाः सु-नय-नयनैर् विद्विषामीहितानि."


सर्ग २० सम्पाद्यताम्


भका२०.१-१ समुपेत्य ततः सीतामुक्तवान् पवनाऽऽत्मजःŌ
भका२०.१-२ दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः
भका२०.२-१ अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः
भका२०.२-२ रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्.
भका२०.३-१ तृण्हानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः,
भका२०.३-२ हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्.
भका२०.४-१ पश्चिमं करवामैतत् प्रियं देवि ! वयं तव,"
भका२०.४-२ ततः प्रोक्तवती सीता वानरं करुणाऽऽशया.
भका२०.५-१ "उपशाम्यतु, ते बुद्धिः पिण्ड-निर्वेश-कारिषु
भका२०.५-२ लघु-सत्वेषु, दोषोऽयं यत्-कृतो-निहतो ऽसकौ.
भका२०.६-१ न हि प्रेष्य-वधं घोरं करवान्यस्तु ते मतिः,
भका२०.६-२ एधि कार्य-करस् त्वं मे गत्वा प्रवद राघवम्.
भका२०.७-१ "दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्".
भका२०.७-२ तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्.
भका२०.८-१ "उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन !"
भका२०.८-२ क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्
भका२०.९-१ उक्तवान् राघवः-"सीतामानया ऽलंकृतामिति."
भका२०.९-२ गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः.
भका२०.१०-१ "जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,
भका२०.१०-२ रावणे जहिहि द्वेषां, जहाहि प्रमदा-वनम्.
भका२०.११-१ स्नाह्यनुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम्,
भका२०.११-२ रत्नान्याऽऽमुञ्च, संदीप्ते हविर् जुहुधि पावके,
भका२०.१२-१ अद्धि त्वं पञ्च-गव्यं च, छिन्धि संरोध-जं तमः,
भका२०.१२-२ आरोह शिबिकां हैमीं, द्विषां जहि मनो-रथान्.
भका२०.१३-१ तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम्,
भका२०.१३-२ भवतादधियुक्ता त्वमत ऊर्ध्वं स्व-वेश्मनि.
भका२०.१४-१ दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,
भका२०.१४-२ दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्.
भका२०.१५-१ अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा,
भका२०.१५-२ भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च
भका२०.१६-१ मुदा संयुहि काकुत्स्थं, स्वयं चा ऽऽप्नूहि सम्पदम्,
भका२०.१६-२ उपेह्यूर्ध्वं मुहूर्तात् त्वं देवि ! राघव-सन्निधिम्.
भका२०.१७-१ ऊर्ध्वं मुहूर्तादह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेः
भका२०.१७-२ राज-पत्नी-नियोग-स्थमनुशाधि पुरी-जनम्.
भका२०.१८-१ उत्तिष्ठस्व मते पत्युर्, यतस्वा ऽलङ्कृतौ तथा,
भका२०.१८-२ प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही-पतिम्."
भका२०.१९-१ अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा
भका२०.१९-२ ममारूढवती यानं पट्टांऽशुक-वृताऽऽनना.
भका२०.२०-१ लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला
भका२०.२०-२ साऽस्रा गत्वा ऽन्तिकं पत्युर् दीना रुदितवत्यसौ.
भका२०.२१-१ प्राप्त-चारित्र्य-सन्देहस् ततस् तामुक्तवान् नृपः
भका२०.२१-२ इच्छामे-"ना ऽऽददे सीते ! त्वामहं गम्यतामतः".
भका२०.२२-१ रावणाऽङ्क-परिश्लिष्टा त्वं हृल्-लेख-करी मम
भका२०.२२-२ मतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा.
भका२०.२३-१ अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा,
भका२०.२३-२ कामाद् वा याहि, मुच्यन्तामाशा राम-निबन्धनाः.
भका२०.२४-१ क्व च ख्यातो रघोर् वंशः, क्व तं पर-गृहोषिता,
भका२०.२४-२ अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे.
भका२०.२५-१ यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,
भका२०.२५-२ कामास् तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्-गताम्.
भका२०.२६-१ ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्Ō
भका२०.२६-२ "स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्.
भका२०.२७-१ दैवाद् बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,
भका२०.२७-२ मिथ्या मामभिसंक्रुध्य- न्न-वशां शत्रुणा हृताम्.
भका२०.२८-१ चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्,
भका२०.२८-२ विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः
भका२०.२९-१ त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्Ōत्रयम्
भका२०.२९-२ चरन् देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम्.
भका२०.३०-१ खमट, द्यामटा ऽटोर्वीमित्यटन्त्यो ऽति-पावनाः
भका२०.३०-२ यूयमापो ! विजानीत मनो-वृत्तिं शुभां मम.
भका२०.३१-१ जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !
भका२०.३१-२ अवेहि मम चारित्रं नक्तं-दिवम-विच्युतम्.
भका२०.३२-१ रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,
भका२०.३२-२ इतीहमानस् तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे.
भका२०.३३-१ स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्ग-निलये भव,
भका२०.३३-२ एवं वसन् ममा ऽऽकाश ! संबुध्यस्व कृताऽकृतम्.
भका२०.३४-१ चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम्,
भका२०.३४-२ रामस् तुष्यतु मे वा ऽद्य, पापां प्लुष्णातु वा ऽनलः
भका२०.३५-१ राघवस्य मतेना ऽथ लक्ष्मणेनाऽऽचितां चिताम्
भका२०.३५-२ दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः
भका२०.३६-१ प्रवपाणि वपुर् वह्नौ रासा ऽहं शाङ्किता त्वया,
भका२०.३६-२ सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः.
भका२०.३७-१ मां दुष्टां ज्वलित-वपुः प्लुषाण वह्ने ! संरक्ष क्षत-मलिनां सुहृद् यथा वा,
भका२०.३७-२ एषा ऽहं क्रतुषु वसोर् यथा ऽऽज्य-धारा त्वां प्राप्ता विधि-वदुदीर्ण-दीप्ति-मालम्.

सर्ग २१ सम्पाद्यताम्


भका२१.१-१ समुत्क्षिप्य ततो वह्निर् मैथिलीं राममुक्तवान्
भका२१.१-२ "काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम्
भका२१.२-१ ना भविष्यदियं शुद्धा यद्यपास्यमहं ततः
भका२१.२-२ न चैनां, पक्षपातो मे धर्मादन्यत्र राघव !
भका२१.३-१ अपि तत्र-रिपुः सीतां ना ऽर्थयिष्यत दुर्-मतिः,
भका२१.३-२ क्रूरं जात्ववदिष्यच् च जात्वस्तोष्यच्छ्रियं स्वकाम्.
भका२१.४-१ सङ्कल्पं ना ऽकरिष्यच् च तत्रेयं शुद्ध-मानसा,
भका२१.४-२ सत्याऽमर्षमवाप्स्यस् त्वं रामः सीता-निबन्धनम्.
भका२१.५-१ त्वया ऽद्रक्ष्यत किं ना ऽस्याः शीलं संवसता चिरम्,
भका२१.५-२ अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्.
भका२१.६-१ यावज्जिवमशोचिष्यो, ना ऽहास्यश् चेदिदं तमः,
भका२१.६-२ भानुरप्यपतिष्यत् क्ष्मामक्षोभिष्यत चेदियम्.
भका२१.७-१ समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्,
भका२१.७-२ लोक-पाला इहा ऽऽयास्यंस् ततो ना ऽमी कलि-द्रुहः.
भका२१.८-१ आश्चर्यं यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव,
भका२१.८-२ त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्.
भका२१.९-१ यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता
भका२१.९-२ तदसूया-रतौ लोके तस्या वाच्या ऽऽस्पदं मृषा.
भका२१.१०-१ अमंत्स्य भवान् यद्वद् तथैव च पिता तव
भका२१.१०-२ ना ऽऽगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः.
भका२१.११-१ ना ऽकल्प्स्यत् सन्निधिं स्थानुः शूली वृषभ-वाहनः
भका२१.११-२ अन्वभाविष्यता ऽन्येन मैथिली चेत् पतिव्रता.
भका२१.१२-१ आनन्दयिष्यदागम्य कथं त्वामरविन्द-सत्
भका२१.१२-२ राजेन्द्र ! विश्व-सूर् धाता चारित्र्ये सीतया क्षते.
भका२१.१३-१ प्रणमन् ब्रह्मणा प्रोक्तो राजका ऽधिपतिस् ततः
भका२१.१३-२ "ना, शोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिदं यदि.
भका२१.१४-१ नाऽमोक्ष्याम वयं शङ्का- मिहाधास्यन् न चेद् भवान्,
भका२१.१४-२ किं वा चित्रमिदं युक्तं, भवान् यदकरिष्यत.
भका२१.१५-१ प्रावर्तिष्यन्त चेष्टाश् चेद्-याथातथ्य-वत् तव,
भका२१.१५-२ अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः
भका२१.१६-१ प्राणमन्तम् ततो राममुक्तवानिति शङ्करः
भका२१.१६-२ "किं नारायणमात्मानं ना ऽभोत्स्यत भवानजम्.
भका२१.१७-१ को न्यो ऽकर्त्स्यदिह प्राणान् दृप्तानां च सुर-द्विषाम्,
भका२१.१७-२ को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत
भका२१.१८-१ दैत्य-क्षये महा-राज ! यच्च यत्रा ऽघटिष्यथाः
भका२१.१८-२ समाप्तिं जातु तत्रापि किं ना ऽनेष्यस् त्वमीहितम्.
भका२१.१९-१ तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम्
भका२१.१९-२ सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान्.
भका२१.२०-१ प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततः
भका२१.२०-२ संजाताः फलिना ऽऽनम्र-रोचिष्णु-द्रुम-सद्रवः.
भका२१.२१-१ भ्रमर कुला ऽऽकुलोल्बण-सुगन्धि-पुष्प-तरुस् तरुण-मधूक-सम्भव-पिशङ्गित-तुङ्ग-शिखः
भका२१.२१-२ शिखर-शिला ऽन्तराल-परिक्wxलॄॠप्त-जला ऽवसरः स-रस-फल-श्रियं स विततान सुवेल-गिरिः.
भका२१.२२-१ संवाद्भिः स-कुसुम-रेणुभिः समीरै- रानम्रैर् बहु-फल-धारिभिर् वना ऽन्तैः
भका२१.२२-२ श्च्योतद्भिर् मधु-पटलैश् च वानराणाम् आप्यानो रिपु-वध-सम्भवः प्रमोदः
भका२१.२३-१ आयान्त्यः स्व-फल-भरेण भङ्गुरत्वं भृङ्गाऽऽली-निचय-चिता लतास् तरूणाम्
भका२१.२३-२ सा ऽऽमोदाः क्षिति-तल-संस्थिताऽवलोप्या भोक्त् णां ष्रममदयं न नीतवत्यः.


सर्ग २२ सम्पाद्यताम्


भका२२.१-१ ततो रामो हनूमन्तमुक्तवान् हृष्ट-मानसम्
भका२२.१-२ "अयोध्यां श्वः प्रयातासि कपे ! भरत-पालिताम्.
भका२२.२-१ गाधितासे नभो भूयः स्फुटन्-मेघ-घटाऽऽवलि,
भका२२.२-२ ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम्.
भका२२.३-१ सेवितासे प्लवङ्ग ! त्वं महेन्द्रा ऽद्रेरधित्यकाः
भका२२.३-२ व्युत्क्रान्त-वर्त्मनो भानोः सह-ज्योत्स्ना-कुमुद्वतीः.
भका२२.४-१ चन्दन-द्रुम-संच्छन्ना निराकृत-हिम-श्रथाः
भका२२.४-२ दर्शितारस् त्वया ताश् च मलयोपत्यकाः शुभाः.
भका२२.५-१ प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते
भका२२.५-२ लताः स्तबक-शालिन्यो मधुलेहि-कुलाऽऽकुलाः.
भका२२.६-१ द्रष्टासि प्रीति-मानारात् सखिभिः सह सेविताम्
भका२२.६-२ स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः.
भका२२.७-१ त्वया सन्दर्शितारौ ते माल्यवद्-दण्डका-वने,
भका२२.७-२ उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम्.
भका२२.८-१ आप्तारौ भवता रम्यावाश्रमौ हरिणा ऽऽकुलौ
भका२२.८-२ पुण्योदक-द्विजाऽऽकीर्णौ सुतीक्ष्ण-शरभङ्गयोः
भका२२.९-१ अतिक्रान्ता त्वया रम्यं दुःखमत्रेस् तपो-वनम्,
भका२२.९-२ पवित्र-चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात्.
भका२२.१०-१ ततः परं भरद्वाजो भवता दर्शिता मुनिः,
भका२२.१०-२ द्रष्टारश् च जनाः पुन्या यामुनाऽम्बुक्षतांऽहसः.
भका२२.११-१ स्यन्त्वा स्यन्त्वा दिवः शम्भोर्- मूर्ध्नि स्कन्त्वा भुवं गताम्
भका२२.११-२ गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्.
भका२२.१२-१ तमसाया महा-नील-पाषाण-सदृश-त्विषः
भका२२.१२-२ वना ऽन्तात् बहु मन्तासे नागराऽऽक्रीड-शाखिनः.
भका२२.१३-१ नगर-स्त्री-स्तन-न्यस्त-धौत-कुङ्कुम-पिञ्जराम्
भका२२.१३-२ विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी.
भका२२.१४-१ आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चावयोः शिवम्
भका२२.१४-२ मातरः सह मैथिल्या, तोष्टा च भरतः परम्.
भका२२.१५-१ आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्,
भका२२.१५-२ सुग्रीवं चा ऽर्जितं मित्रं, सर्वांश् चाऽऽगामुकान् द्रुतम्
भका२२.१६-१ गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस् तव,
भका२२.१६-२ ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्.
भका२२.१७-१ गते त्वयि पथा ऽनेन वयमप्यंहितास्महे,
भका२२.१७-२ लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे.
भका२२.१८-१ गते तस्मिन् गृहीता ऽर्थे रामः सुग्रीव-राक्षसौ
भका२२.१८-२ उक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्.
भका२२.१९-१ द्रष्टास्थस् तत्र तिस्रो मे मात् स् तुष्टऽन्तराऽऽत्मनः
भका२२.१९-२ आन्त्यन्तीनं सखि-त्वं च प्राप्तास्थो भरता ऽऽश्रयम्.
भका२२.२०-१ नैवं विरह-दुःखेन वयं व्याघानितास्महे,
भका२२.२०-२ श्रमो नुभविता नैवं भवद्भ्यां च वियोग-जः,
भका२२.२१-१ एवं युवां मम प्रीत्यै कल्प्तास्थः कपि-राक्षसौ !
भका२२.२१-२ गन्तुं प्रयतितासाथे प्रातः सह मया यदि.
भका२२.२२-१ उत्कवन्तौ ततो रामं वचः पौलस्त्य-वानरौ
भका२२.२२-२ अनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह.
भका२२.२३-१ अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया
भका२२.२३-२ अपि प्राप्य सुरेन्द्र-त्वं, किं नु प्रत्तं, त्वया ऽऽस्पदम्.
भका२२.२४-१ ततः कथाभिः समतीत्य दोषा- मारुह्य सैन्यैः सह पुष्पकं ते
भका२२.२४-२ सम्प्रस्थिता वेग-वशाद-गाधं प्रक्षोभयन्तः सलिलं पयोधेः.
भका२२.२५-१ सेतुं, महेन्द्रं, मलयं स-विन्ध्यं, स-माल्यवन्तं गिरिमृष्यमूकम्,
भका२२.२५-२ स-दण्डकाऽरण्य-वातीं च पम्पां रामः प्रियायाः कथयन् जगाम.
भका२२.२६-१ एते ते मुनि-जन-मण्डिता दिगन्ताः, शैलोऽयं लुलित-वनः स चित्रकूटः,
भका२२.२६-२ गङ्गेयं सु-तनु-! विशाल-तीर-रम्या, मैथिल्या रघु-तनयो दिशन् ननन्द.
भका२२.२७-१ शिञ्जान-भ्रमर-कुलाऽऽकुलाऽग्र-पुष्पाः शीता-ऽम्भः-प्रविलय-संप्लवा ऽभिलीनाः
भका२२.२७-२ एते ते सु-तनु ! पुरी-जनोपभोग्या दृश्यन्ते नयन-मनोरमा वना ऽन्ताः.
भका२२.२८-१ स्थानं नः पूर्व-जानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुत-विविध-हविः- प्रीणिता ऽशेष-देवा,
भका२२.२८-२ सो ऽयं देशो, रुदन्तं पुर-जनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वना ऽन्तं सह धृत-धृतिना लक्ष्मणेन क्षपाऽन्ते.
भका२२.२९-१ तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन् विक्रान्तैः करिणां गिरीन्द्र-सदृशां क्ष्मां कम्पयन् सर्वतः
भका२२.२९-२ सा ऽऽनन्दा ऽश्रु-विलोचनः प्रकृतिभिः सार्धं सहा ऽन्तः पुरः सम्प्राप्तो भरतः स-मारुतिरलं नम्रः समं मातृभिः
भका२२.३०-१ अथ स-सम्भ्रम-पौर-जना ऽऽवृतो भरत-पाणि-धृतोज्ज्वल-चामरः
भका२२.३०-२ गुरु-जन-द्विज-बन्द्यभिनन्दितः प्रविशति स्म पुरं रघु-नन्दनः.
भका२२.३१-१ प्रविधाय धृतिं परां जनानां युव-राजं भरतं ततोऽभिषिच्य
भका२२.३१-२ जघटे तुरगाऽध्वरेण यष्टुं कृत-सम्भार-विधिः पतिः प्रजानाम्.
भका२२.३२-१ इदमधिगत-मुक्ति-मार्ग-चित्रं विवदिषतां वदतां च सन्-निबन्धात्
भका२२.३२-२ जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथा ऽस्त्रम्.
भका२२.३३-१ दीप-तुल्यः प्रबन्धो ऽयं शब्द-लक्षण-चक्षुषाम्
भका२२.३३-२ हस्ता ऽमर्ष इवा ऽन्धानां भवेद् व्याकरणादृते.
भका२२.३४-१ व्याख्या-गम्यमिदं काव्य- मुत्सवः सु-धियामलम्,
भका२२.३४-२ हता दुर्-मेघसश् चा ऽस्मिन् विद्वत्-प्रिय-तया मया.
भका२२.३५-१ काव्यमिदं विहितं मया वलभ्यां श्रीधरसेन-नेरन्द्र-पालितायाम्,
भका२२.३५-२ कीर्तिरतो भवतान् नृपस्य, तस्य प्रेम-करः क्षिति-पो यतः प्रजानाम्.