ब्रह्म न जिज्ञास्यम्...

प्र.-‘ब्रह्म न जिज्ञास्यम्’ इति एतं पूर्वपक्षं भामतीटीकानुसारं लिखत।
उ.-
सन्दर्भ:-अध्यासभाष्ये टीकाम् आरभमाण: वाचस्पतिमिश्र: ब्रह्मण: जिज्ञास्यताविषये पूर्वपक्षम् उत्थाप्य तस्य समाधानं करोति।
पूर्वपक्ष:-
अस्मिन् पूर्वपक्षे अनुमानद्वयं प्रतिपादितम्।
पूर्वपक्षस्य प्रथमम् अनुमानम्-
ब्रह्म न जिज्ञास्यं,
असन्दिग्धत्वात्,
यद् यद् असन्दिग्धं तत् तत् न जिज्ञास्यं,
यथा स्फुटप्रकाशे विद्यमान: घट:
आत्मा एव ब्रह्म।‘अहम्’ इति या प्रतीति: प्रत्येकं प्राणिन: अन्त:करणे भवति तस्या: प्रतीते: विषय: नाम आत्मा, तदेव ब्रह्म।स च आत्मा आकीटदेवं प्रसिद्ध:।सर्व: प्राणी ‘अहम्’ इति अनुभवति।‘नाहम्’ इति कस्यापि अनुभूति: नास्ति।अत: ब्रह्मविषये सन्देह: नास्ति।

पूर्वपक्षं प्रति प्रश्न:-
क्वचित् ‘अहं स्थूल:’, ‘अहं कृश:’, ‘अहं क्षुधित:’ ‘अहम् ‘अन्ध:’ इति प्रयोग: भवति।तेषु प्रयोगेषु ‘अहम्’ इति प्रतीते: विषय: देह:, इन्द्रियम् इत्यदिक: आत्मभिन्न: दृश्यते।अत: सन्देह: जायते किं नाम ब्रह्म इति।
पूर्वपक्षस्य उत्तरम्-
एते प्रयोगा: गौणा: मन्तव्या:।यतो हि प्रयोगकर्ता स्वयं जानाति यद् अहं देहादिव्यतिरिक्त: अस्मीति।यथा माणवकस्य प्रशंसायां कश्चिद् वदति, ‘सिंह: माणवक:’ इति।तत्र माणवक: सिंहाद् भिन्न: अस्तीति जानन् वक्ता तयो: अभेदेन प्रयोगं करोति।अत: एतादृशं प्रयोगं श्रुत्वा माणवक: सिंह: वा मानव: वा इति सन्देह: न जायते।तथैव अहं स्थूल: इति प्रयोगं श्रुत्वा अहम् इत्यस्य अर्थ: आत्मा वा देह: वा इति सन्देह: न कार्य:।

पूर्वपक्षस्य द्वितीयम् अनुमानम्-
ब्रह्म न जिज्ञास्यम्,
निष्प्रयोजनत्वात्,
यत्र यत्र निष्प्रयोजनत्वं तत्र तत्र अजिज्ञास्यत्वं,
यथा काकदन्तगवेषणम्।
काकस्य कति दन्ता: सन्ति इति जिज्ञासा न भवति यतो हि तद् ज्ञात्वा किमपि प्रयोजनं न सिद्ध्यति।तथैवात्र।ब्रह्म ज्ञात्वा किमपि प्रयोजनं न सिद्ध्यति अत: तदविषये जिज्ञासा अपि न सम्भवति।
पूर्वपक्षं प्रति प्रश्न:-
वेदान्तमते ब्रह्मज्ञानेन संसारस्य निवृत्ति: भवति। अत: ब्रह्म ज्ञात्वा संसारनिवृत्ति: इति प्रयोजनं सिद्ध्यति।तस्मात् ब्रह्मजिज्ञासा निष्प्रयोजना नास्ति।
पूर्वपक्षस्य उत्तरम् -
वेदान्तमते संसार: अनादि: , ब्रह्मज्ञानमपि अनादि।तयो: सहवर्तमानत्वात् परस्परं बाध्यबाधकभाव: न सिद्ध्यति। अत: संसारनिवृत्ति: ब्रह्मज्ञानेन न सम्भवति।
उपसंहार:-
एवं नि:सन्दिग्धता तथा निष्प्रयोजनता इति एताभ्यां हेतुभ्यां साहाय्येन पूर्वपक्षेण ब्रह्मण: अजिज्ञास्यत्वं प्रतिपादितम्।

भामत्यां दीर्घोत्तरप्रश्ना:
"https://sa.wikibooks.org/w/index.php?title=ब्रह्म_न_जिज्ञास्यम्...&oldid=5828" इत्यस्माद् प्रतिप्राप्तम्