ब्रह्मातिरिक्तं जगत्कारणं न सम्भवतीति कथम् ...

प्र.- जन्माद्यस्य यत: इति सूत्रस्य भाष्ये ‘ब्रह्मातिरिक्तं जगत्कारणं न सम्भवतीति’ भामतीकारेण कथं प्रतिपादितम्?
उ.-
सन्दर्भ:-
जन्माद्यस्य यत: इति अस्मिन् सूत्रे ‘जगत: जन्म स्थिति: भङ्ग: च यस्मात् भवति, तत् ब्रह्म’ इति कथितम्।परं वेदान्तेतरशास्त्रेषु जगत: जन्म अन्यान्यकारणेभ्य: जातमिति प्रतिपाद्यते। एतेषां जगत्कारणत्वनिरास: आवश्यक: इति मत्त्वा भामतीकार: तन्निरासम् एवं साधयति- जगत्कारणविषये भामतीकारेण व्युदसनीयतया विचारितानि परमतानि एतानि -
जगत्कारणम् –प्रधानं
जगत्कारणम् - काल:
जगत्कारणम् –ग्रहा:
जगत्कारणम् –लोकपाला:
जगत्कारणम् –कर्म
जगत्कारणम् – यदृच्छा
जगत्कारणम् – स्वभाव:
जगत्कारणम् – अभाव:

जगत् नामरूपाभ्यां व्याकृतमस्ति।अत: अचेतनात् तस्य जन्म न सम्भवति। तदर्थम् इदम् अनुमानम्-
जगत् चेतनकर्तृकम्
नामरूपाभ्यां व्याकृतत्वात्
यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं यथा घटादि:।भामती १.१.२
एतेन अनुमानेन प्रधानं कर्म यदृच्छा अभाव: इति एतेषां जगत्कारणत्वं निरस्तं यतो हि एते सर्वे जडा: पदार्था:।
जगति नैके कर्तार: सन्ति, नैके भोक्तार: सन्ति, देशस्य नियम: अस्ति, कालस्य नियम: अस्ति, निमित्तस्य नियम: अस्ति,फलस्य नियम: अस्ति।एवम् एतादृशस्य समस्तस्य जगत: मनसा अपि चिन्तनम् अशक्यम्।एतादृशस्य जगत: निर्माणं सर्वज्ञात् सर्वशक्ते: एव सम्भवति।कोऽपि अल्पज्ञ: अल्पशक्ति: जगन्निर्माणे असमर्थ:।अत: ग्रहा:, लोकपाला:, काल: इति एते चेतना: अपि जगत्कारणं भवितुं नार्हन्ति।तस्माद् वेदान्तोदितं सर्वज्ञं सर्वशक्तिसमन्वितं ब्रह्म एव जगत्कारणम् इति मन्तव्यम्।
.......................................................

भामत्यां लघूत्तरप्रश्ना: