प्रमिताधिकरणम्
शब्दादेव प्रमित:।१.३.२४
पू.- अङ्गुष्ठमात्र: पुरुष: मध्य आत्मनि तिष्ठति।
अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवावधूमक:।ईशानो भूतभव्यस्य स एवाद्य स उ श्व:॥एतद्वै तत्।(काठ. २.४.१३)
इत्यत्र निर्दिष्ट: अङ्गुष्ठमात्र: पुरुष: विज्ञानात्मा, न तु परमात्मा, परिमाणोपदेशात्। स्मृतेश्च।
अथ सत्यवत: कायात् पाशबद्धं वशं गतम्।अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्॥- (म.भा. ३.२९७.१७)
न हि यमेन परमात्मा बलान्निष्क्रष्टुं शक्य:।अत: अङ्गुष्ठमात्र: पुरुष: विज्ञानात्मा, न तु परमात्मा।
वे.-
१) ईशानो भूतभव्यस्य इति अस्मात् शब्दादेव परमात्मा प्रमित:।न हीदृशमीशानकर्म विज्ञानात्मन: उपपन्नम्।
३) एतद्वै तत् इति शब्दात् प्रकृतं पृष्टमिहानुसन्दधाति। प्रकृतं च ब्रह्म ।
पू.- सर्वगतस्य परमात्मन: अङ्गुष्ठमात्रपरिमाणोपदेश: कथम्?
हृद्यपेक्षया तु मनुष्याधिकारत्वात्।१.३.२५
वे.- हृदयेऽवस्थानमपेक्ष्य सर्वगतस्यापि परमात्मन: अङ्गुष्ठमात्रत्वमुपदिश्यते।
पू.- प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात् तदपेक्ष्यमपि अङ्गुष्ठमात्रत्वं नोपपद्यते।
वे.- शास्त्रं मनुष्यानेवाधिकरोति।मनुष्याणां चाङ्गुष्ठमात्रं हृदयम्।अत: तदपेक्षमङ्गुष्ठमात्रत्वं परमेश्वरस्योपपन्नम्।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् प्रथमाध्याये तृतीय: पाद: