प्रतिमानाटके प्रथमाङ्के पद्यानां पदच्छेद
सीताभव: पातु सुमन्त्रतुष्ट: सुग्रीवराम: सहलक्ष्मणः च।
यः रावणार्यप्रतिमः च देव्या विभीषणात्मा भरतः अनुसर्गम्।।1.1।।
चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा।
मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षी इव।।1.2।।
छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं
न्यस्ता हेममया: सदर्भकुसुमाः तीर्थाम्बुपूर्णा घटा:।
युक्त: पुष्यरथः च मन्त्रिसहिता: पौरा: समभ्यागता:
सर्वस्य अस्य हि मङ्गलं स भगवान् वेद्यां वसिष्ठ: स्थित:।। 1.3।।
इदानीं भूमिपालेन कृतकृत्या: कृता: प्रजा:।
रामाभिधानं मेदिन्यां शशाङ्कम् अभिषिञ्चता।।1.4।।
आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते
स्कन्ध-उच्चारण-नम्यमानवदन-प्रच्योति-तोये घटे ।
राज्ञा आहूय विसर्जिते मयि जनो धैर्येण मे विस्मित:
स्व: पुत्र: कुरुते पितुः यदि वच: कः तत्र भो:! विस्मय: ।।1.5 ।।
समं बाष्पेण पतता तस्य उपरि मम अपि अध:।
पितुः मे क्लेदितौ पादौ मम अपि क्लेदितं शिर:।। 1.6।।
शत्रुघ्न-लक्ष्मणगृहीतघटे अभिषेके छत्रे स्वयं नृपतिना रुदता गृहीते।
सम्भ्रान्तया किमपि मन्थरया च कर्णे राज्ञ:शनैः अभिहितं च न च अस्मि राजा।।1.7।।
कर्णौ त्वरा-अपहृतभूषणभुग्नपाशौ संस्रंसित-आभंरणगौरतलौ च हस्तौ।
एतानि च आभरण-भार-नतानि गात्रे स्थानानि न एव समताम् उपयान्ति तावत्।।१.8।।
आदर्शे वल्कलानि इव किम् एते सूर्यरश्मय:।
हसितेन परिज्ञातं क्रीडा इयं नियमस्पृहा।। १.9।।
मा स्वयं मन्युम् उत्पाद्य परिहासे विशेषत:।
शरीरार्धेन मे पूर्वम् आबद्धा हि यदा त्वया।।१.10 ।।
नारीणां पुरुषाणां च निर्मर्यादो यदा ध्वनि:।
सुव्यक्तं प्रभवामि इति मूले दैवेन ताडितम् ।।१.11।।
यस्या: शक्रसमो भर्ता मया पुत्रवती च या ।
फले कस्मिन् स्पृहा तस्याः येन अकार्यं करिष्यति ।।१. 13 ।।
वनगमन-निवृत्ति: पार्थिवस्य एव तावत्
मम पितृपरवत्ता बालभाव: स एव।
नव-नृपति-विमर्शे न अस्ति शङ्का प्रजानाम्
अथ च न परिभोगैः वञ्चिता भ्रातरो मे ।।१.14।।
शुल्के विपणितं राज्यं पुत्र-अर्थे यदि याच्यते।
तस्या: लोभः अत्र न अस्माकं भ्रातुराज्यापहरिणाम् ।। १.15 ।।
शोकाद् अवचनाद् राज्ञा हस्तेन एव विसर्जित:
किमपि अभिमतं मन्ये मोहं च नृपतिः गत: ।।१. 16 ।।
अक्षोभ्य: क्षोभित: केन लक्ष्मणो धैर्यसागर:।
येन रुष्टेन पश्यामि शताकीर्णम् इव अग्रत: ।।१.17।।
यदि न सहसे राज्ञः मोहं धनु: स्पृश मा दया
स्वजननिभृत: सर्वः अपि एवं मृदु: परिभूयते।
अथ न रुचितं मुञ्च त्वं मामा अहं कृतनिश्र्चयः
युवति-रहितं लोकं कर्तुं यतः छलिता वयम् ।। १.18 ।।
क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे।
इदानीम् अपि सन्देह: किं क्षमा निर्मनस्विता ।।१. 19 ।।
भरतो वा भवेद् राजा वयं वा ननु तत् समम्।
यदि ते अस्ति धनु:श्लाघा स राजा परिपाल्यताम् ।।१. 20 ।।
त्रैलोक्यं दग्धुकामा इव ललाटपुटसंस्थिता।
भ्रकुटिः लक्ष्मणस्य एषा नियती इव व्यवस्थिता ।। १.21 ।।
ताते धनुः न मयि सत्यम् अवेक्षमाणे मुञ्चानि मातरि शरं स्वधनं हरन्त्याम्।
दोषेषु बाह्यम् अनुजं भरतं हनानि किं रोषणाय रुचिरं त्रिषु पातकेषु ।। १.22 ।।
यत्कृते महति क्र्लेशे राज्ये मे न मनोरथ:।
वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया ।। १.23 ।।
मङ्गलार्थे अनया दत्तान् वल्कलान् तावद् आनय।
करोमि अन्यैः नृपैः धर्मं नैव आप्तं न उपपादितम् ।। १.24 ।।
त्यजति न च करेणु: पङ्कलग्नं गजेन्द्रं
व्रजतु चरतु धर्मं भर्तृनाथा हि नार्य: ।। १.25 ।।
निर्योगाद् भूषणात् माल्यात् सर्वेभ्यः अर्धं प्रदाय मे ।
चीरम् एकाकिना बद्धं चीरे खलु असि मत्सरी ।। १.26 ।।
गुरोः मे पादशुश्रूषां त्वम् एका कर्तुम् इच्छसि।
तव एव दक्षिण: पादः मम सव्यः भविष्यति ।।१. 27 ।।
तप: सङ्ग्रामकवचं नियमद्विरद-अङ्कुश:।
खलीनम् इन्द्रिय-अश्वानां गृह्यतां धर्मसारथि: ।।१. 28 ।।
स्वैरं हि पश्यन्तु कलत्रम् एतद् बाष्प-आकुलाक्षैः वदनैः भवन्त:।
निर्दोषद्दश्या हि भवन्ति नार्यः यज्ञे विवाहे व्यसने वने च ।।१. 29 ।।
श्रुत्वा ते वनगमनं वधूसहायं सौभ्रात्र-व्यवसित-लक्षमण-अनुयात्रम्।
उत्थाय क्षितितलरेणुरूषिताङ्ग: कान्तारद्विरद इव उपयाति जीर्ण: ।।१. 30 ।।
----------
प्रतिमानाटके पद्यानां पदच्छेदः अन्वयः सरलार्थः च