मूलम्
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं।
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा।।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममु।
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः।। २२।।

पदच्छेदः-
प्रजानाथं नाथ प्रसभम् अभिकं स्वां दुहितरं।गतं रोहिद्-भूतां रिरमयिषुम् ऋष्यस्य वपुषा।।
धनुष्पाणेः यातं दिवमपि सपत्राकृतम् अमुं।त्रसन्तं ते अद्य अपि त्यजति न मृगव्याधरभसः।। २२।।

अन्वयः
हे नाथ, रोहिद्-भूतां स्वां दुहितरं प्रसभम् रिरमयिषुम् ऋष्यस्य वपुषा गतं अभिकं अमुं प्रजानाथं दिवं यातं अपि सपत्राकृतम् त्रसन्तं धनुष्पाणेः ते मृगव्याधरभसः अद्य अपि न (त्वां)त्यजति ।। २२।।

सरलार्थः-
हे नाथ, ब्रह्मदेवः स्वकन्यां प्रति रन्तुं गतः।सा मृगी जाता।तदा मृगरूपेण सः कामुकः बलात् तां प्रति यदा गतः, तदा धनुः हस्ते गृहीत्वा त्वया बाणः क्षिप्तः।सः ब्रह्मदेवः तेन बाणेन सह स्वर्गं प्रयातः।तथापि अद्यापि सः व्याधस्य आवेगः त्वां न त्यजति।२२



शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=प्रजानाथं_नाथ...&oldid=6177" इत्यस्माद् प्रतिप्राप्तम्