प्रकृतैतावत्त्वाधिकरणम्।
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय:।३.२.२२
विषय:- द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च।(बृ.२.३.१)
अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति।(बृ.२.३.१)
विशय: - अत्र नेति इति प्रतिषेधस्य विषय: क:?ब्रह्मण: रूपद्वयम् अथवा ब्रह्म?अथवा उभयम्?
पूर्वपक्ष:- प्रकृतस्य प्रतिषेध:। अत्र प्रकृतत्वं मूर्तामूर्तरूपयो: अपि विद्यते, ब्रह्मण्यपि। अत: उभयो: प्रतिषेध: अयम्।
पूर्वपक्ष:- नेति नेति इति द्विवारं निषेधाद् उभयो: निषेध: ।
वे.- उभयप्रतिषेध: नोपपद्यते, शून्यवादप्रसङ्गात्।
पू.-ब्रह्म अत्र प्रतिषिध्यते, अवाङ्मनसगोचरत्वात्।अवाङ्मनसगोचरस्य सद्भावे प्रमाणाभाव:, अत: निषेध: उपपन्न:। नेति नेति इति द्विवारं निषेधा: आदरार्थ:।
वे.-न च ब्रह्मण: प्रतिषेध: उपपद्यते -
१ ‘ब्रह्म ते ब्रवाणि’(बृ.२.१.१) इत्युपक्रमविरोधात्।
२ असन् एव स भवति, असद्ब्रह्मेति चेद्वेद (तैत्ति.२.६.१) इति ब्रह्मासत्त्ववादिन: निन्दादर्शनात्।
३ अस्तीत्येवोपलब्धव्य: (कठ ६.१३) इति अवधारणविरोधात्
४ सर्ववेदान्तव्याकोपप्रसङ्गाच्च।
अत: प्रकृतं यद् एतावत्, मूर्तामूर्तलक्षणं ब्रह्मणो रुपद्वयं तदेव प्रतिषेधति।
पू.- शास्त्रं स्वयं ब्रह्मणो रूपद्वयं दर्शयति अथ प्रतिषेधतीति कथम्?
वे.- नेदं शास्त्रं ‘प्रतिपाद्यम्’ इति कृत्वा रुपद्वयं दर्शयति।इदं रूपद्वयं लोकप्रसिद्धं ब्रह्मणि कल्पितम्।तत् तु प्रतिषिद्ध्यतवेन एव वक्ति श्रुति:। प्रतिपाद्यं तु शुद्धब्रह्म एव ।
द्वौ प्रतिषेधौ किमर्थम्?
वे.- मूर्तप्रतिषेधार्थम् अमूर्तप्रतिषेधार्थं च।प्रतिषेधानन्तरं तत: भूय: ब्रवीति ‘अन्यत्परमस्ति’ (बृ.२.३.६) यदि सर्वाभावे एव प्रतिषेधस्यावसानं विवक्षितं तर्हि अन्यत्परं किमुपदेष्टव्यमवशिष्यते? अत: नेदं प्रतिषेधनं अभावावसानं मन्तव्यम्। इदं तु ब्रह्मावसानम्।
तृतीयाध्याये द्वितीय: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्