साङ्ख्यशास्त्रे प्रत्यक्षम् अनुमानं तथा आप्तवचनम् इति प्रमाणत्रितयम् अङ्गीक्रियते।तत्र अनुमानं त्रिविधमुक्तम् – पूर्ववदनुमानं, शेषवदनुमानं, सामान्यतोदृष्टमनुमानं च ।
पूर्ववदनुमानस्य लक्षणम् - कारणलिङ्गकम् अनुमानं पूर्ववदनुमानम्।
यत्र कारणेन कार्यमनुमीयते, तत् पूर्ववद् अनुमानम्।यथा गगने मेघोन्नतिं दृष्ट्वा वृष्टिः अनुमीयते।अत्र मेघः कारणम्।वृष्टिः कार्यम्।कारणात् कार्यमनुमीयते अतः पूर्ववदनुमानमिदम्।

आयुर्वेदे साङ्ख्योक्तस्य पूर्ववदनुमानस्य प्रयोगाः सम्पाद्यताम्

१ तस्याशितीयाध्याये एतत् सूत्रं विद्यते-
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति॥(च.सू.६) ४१
अत्र चक्रपाणेः टीका एवम्-
आचितम् इति वर्षासु।– चक्रपाणिः
अत्र एवं प्रश्नः उत्पन्नः यत् शरदि यत् कुप्यति, तत् पित्तं ‘वर्षासु’ आचितम् इति ग्रन्थे तु न निबद्धम्। वर्षासु पित्तसञ्चयः भवति इति वर्षाचर्यायामपि नोक्तम्। कथमयमर्थः चक्रपाणिना कृतः?
अत्रोत्तरं वर्षासु पित्तचयस्य प्रमाणसिद्धत्वात्।किं तत्र प्रमाणम्? पूर्ववदनुमानम्। अनुमानस्य आकारः एवं भविष्यति-

वर्षासु पित्तचयसद्भावः प्रतिज्ञा
पित्तचयकारणाहारात् (व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि।च.सू..३७) हेतुः
यत्र पित्तचयकारणाहारः, तत्र पित्तचयःयथा कस्मिंश्चित् पित्तरोगिणि। व्याप्तिपूर्वकः!दृष्टान्तः
वर्षासु अपि पित्तचयकारणीभूताहारः विद्यते उपनयः
तस्मात् वर्षासु पित्तचयसद्भावः निगमनम्

अतः यद्यपि सूत्रे वर्षासु आचितं पित्तम् इति उल्लेखः न दृश्यते, तथापि इदमाचितं पित्तं वर्षासु एव, पूर्ववदनुमानसिद्धत्वात्।अत्र अम्ल-लवणप्रचुरः आहारः कारणम्।पित्तचयः कार्यम्।कारणात् कार्यस्य अनुमितिः जाता, अतः इदं पूर्ववदनुमानम्।

साङ्ख्यायुर्वेदयोः 
"https://sa.wikibooks.org/w/index.php?title=पूर्ववदनुमानम्&oldid=7236" इत्यस्माद् प्रतिप्राप्तम्