पाशुपतमतेन कार्यं वर्णयत।

पाशुपतमतेन कार्यं वर्णयत।

पाशुपतदर्शनस्य आदिमं सूत्रम् एवम् –
अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः।
अस्मिन् सूत्रे पशुः नाम कार्यम्।तस्य विवरणम् एवम्-
आस्वतन्त्रं कार्यम्।
तत् त्रिविधम् विद्या कलाः पशुः च।
पशुगुणो विद्या।
सा द्विविधा बोधाबोधस्वभावभेदात्।
बोधस्वभावा विवेकाविवेकप्रवृत्तिभेदात् द्विधा।
सा चित्तम्।
चेतनपरतन्त्रत्वे सति अचेतना कला
सा कार्याख्या कारणाख्या च इति द्विविधा।
कार्याख्या दशविधा पृथिव्यादीनि पञ्चतत्त्वानि रूपादयः पञ्च गुणाः च।
कारणाख्या त्रयोदशविधा ज्ञानेन्द्रियाणि ५ कर्मेन्द्रियाणि५, अध्यवसायः अभिमानः सङ्कल्पः इति ३वृत्तयः-बुद्धिः अहङ्कारः मनः
पशुः - पशुत्वसम्बन्धी पशुः सः साञ्जनः निरञ्जनः इति द्विधा।
साञ्जनः शरीन्द्रियसम्बन्धी निरञ्जनः तद्रहितः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्