परिच्छिन्नत्वहेतूपपत्ति:

प्र.- परिच्छिन्नत्वहेतूपपत्तिं प्रतिपादयत
उ.- सन्दर्भ:-
विमतं मिथ्या परिच्छिन्नत्वात् शुक्तिरजतवत् इति अनुमानम् अद्वैतसिद्धिकारेण ग्रन्थारम्भे उपस्थापितम्।अस्मिन् अनुमाने परिच्छिन्नत्वम् इति हेतु:।तस्य विवेचनं ‘परिच्छिन्नत्वहेतूपपत्तिप्रकरणे ग्रन्थकार: करोति।
प्रतिपादनम्-
परिच्छिन्नत्वं त्रिधा- देशत:, कालत:, वस्तुत: च।
देशत: परिच्छिन्नत्वं नाम अत्यन्ताभावप्रतियोगित्वम्।
कालत: परिच्छिन्नत्वं नाम ध्वंसप्रतियोगित्वम्।
वस्तुत: परिच्छिन्नत्वं नाम अन्योन्याभावप्रतियोगित्वम्।

पूर्वपक्ष:-
देशत: परिच्छिन्नत्वम् आदौ चिन्तयाम:। देशत: परिच्छिन्नत्वं नाम अत्यन्ताभाव-प्रतियोगित्वम्।तत्र अत्यन्ताभावप्रतियोगित्वं संयोगसम्बन्धेन वा? समवाय-सम्बन्धेन वा ? समवायसम्बन्धेन अत्यन्ताभावप्रतियोगित्वम् अभिप्रेतं चेत् तल्लक्षणम् आत्मनि अपि विद्यते।आत्मा दिक् काल: आकाश: इत्येतानि द्रव्याणि समवायसम्बन्धेन कुत्रापि न वर्तन्ते अत: समवायसम्बन्धेन अभावप्रतियोगित्वं तेषु विद्यते।यदि समवायसम्बन्धेन अभावप्रतियोगित्वं परिच्छिन्नत्वं तर्हि तादृशं परिच्छिन्नत्वम् आत्मनि वर्तते। परिच्छिन्नत्वं च अनुमाने (प्रपञ्चो मिथ्या, परिच्छिन्नत्वात्)हेतु:।मिथ्यात्वरूपसाध्याभववति आत्मनि स: वर्तते।अत: हेतौ व्यभिचारदोष:|
‘संयोगसम्बन्धेन अत्यन्ताभावप्रतियोगित्वम्’ इति परिच्छिन्नत्वस्य अर्थ: मत: चेत् तादृशं परिच्छिन्नत्वम् आकाशे दिशि काले च न वर्तते यतो हि एतानि विभुद्रव्याणि। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम्।अत: संयोगसम्बन्धेन एषाम् अभाव: कुत्रापि नास्तीति तत्र परिच्छिन्नत्वरूप: हेतु: नास्ति।एवं तत्र मिथ्यात्वमपि न सिद्ध्यति इति असिद्ध: हेतु:।
एतं दोषं जिहीर्षु: अद्वैती यदि ‘अमूर्तनिष्ठ-अत्यन्ताभावप्रतियोगित्वं परिच्छिन्नत्वम्’ इति अङ्गीकरोति, तर्हि तादृशं परिच्छिन्नत्वम् आत्मनि अपि विद्यते।आत्मा अमूर्तनिष्ठ-संयोगसम्बन्धावच्छिन्न-प्रतियोगिताक-अत्यन्ताभाव-प्रतियोगी भवति।तेन तत्र परिच्छिन्नत्वम् इति हेतु: वर्तते।मिथ्यात्वाभाववति आत्मनि हेतो: सत्त्वात् व्यभिचारदोष:
सर्वनिष्ठ-सर्वसम्बन्धावच्छिन्न-अभावप्रतियोगित्वं विवक्षितं चेत् शुद्धचैतन्यं सर्वनिष्ठ-सर्वसम्बन्धावच्छिन्नप्रतियोगि भवति।तत्र परिच्छिन्नत्वं प्राप्तम्।अत: पुन: साध्याभाववद्ववृत्तित्वं हेतो: आपन्नम्।
अज्ञानं सर्वत्र प्रपञ्चे केनचित् सम्बन्धेन वर्तते अत: सर्वनिष्ठात्यन्ताभावप्रतियोगित्वं तस्य नास्तीति परिच्छिन्नत्वरूपहेतो: अवर्तनात् तत्र मिथ्यात्वं न सिद्ध्यति इति असिद्ध: हेतु:।
इदानीं कालकृतपरिच्छेदं चिन्तयाम:।आकाशादौ ध्वंसाप्रतियोगित्वरूपं नित्यत्वं नैयायिकै: अभ्युपगतम्।अत: तत्र ध्वंसप्रतियोगित्वरूपं परिच्छिन्नत्वं नास्ति।मिथ्याभूते आकाशादौ तादृशं परिच्छिन्नत्वं नास्तीति असिद्ध: हेतु:।
इदानीं वस्तुपरिच्छेदं चिन्तयाम:।जडनिष्ठ-अन्योन्याभावप्रतियोगित्वम् आत्मनि विद्यते। अत: वस्तुकृतपरिच्छेद: आत्मनि अस्ति।तत: मिथ्यात्वाभाववति आत्मनि वस्तुपरिच्छेदरूपस्य हेतो: वर्तनात् व्यभिचारदोष:
यदि एवं न मन्यामहे (आत्मनि प्रपञ्चस्य भेदं नाङ्गीकुर्म:),तर्हि आत्मन: जडत्वापत्ति:

'उत्तरपक्ष':-
अत्यन्ताभावे (देशकृतपरिच्छेदे), अन्योन्याभावे (वस्तुकृतपरिच्छेदे) च प्रतियोगिसमसत्ताक: इति विशेषणं वयम् अङ्गीकुर्म:।तेन -
प्रतियोगि-समसत्ताक-अत्यन्ताभाव-प्रतियोगित्वं देशपरिच्छेद: ।
प्रतियोगि-समसत्ताक-अन्योन्याभाव-प्रतियोगित्वं वस्तुपरिच्छेद:।
अत्यन्ताभाव: अन्योन्याभावश्च अस्मन्मते व्यावहारिकौ।तयो: प्रतियोगि ब्रह्म इति पूर्वपक्षस्य मतम्।परं ब्रह्मण: सत्ता पारमार्थिकी।अत: ब्रह्मणि अभावसमसत्ताकात्यन्ताभावस्य प्रतियोगित्वं नास्ति न वा अभावसमसत्ताक-अन्योन्याभावस्य प्रतियोगित्वं विद्यते।अत: न व्यभिचारदोष: भवति।अस्मिन् पक्षे प्रतियोगितावच्छेदकसम्बन्धस्य चिन्ता नास्ति। प्रतियोग्यभावयो: सत्ता तावत् चिन्तनीया।
आकाशे अज्ञाने च मिथ्यात्वस्य या असिद्धि: पूर्वपक्षेण दर्शिता, सेदानीं विमृश्यते।
अज्ञानं व्यावहारिकम्। अज्ञानाभाव: व्यावहारिक:।एवं च अज्ञान-समसत्ताक-अभाव-प्रतियोगित्वम् अज्ञाने अस्ति।अत: अज्ञाने परिच्छिन्नत्वम् अस्ति।
आकाश: व्यावहारिक:। आकाशाभाव: व्यावहारिक:। एवं च आकाश-समसत्ताक-अभाव-प्रतियोगित्वम् आकाशे अस्ति।अत: आकाशे परिच्छिन्नत्वम् अस्ति।
एतद् विवरणं ‘ व्यावहारिकप्रतियोगिन: अभाव: व्यावहारिक: भवति’ इति पक्षम् आदाय कृतम्।
‘ व्यावहारिकप्रतियोगिन: अभाव: पारमार्थिक: भवति’ इति पक्षम् आदायापि विवरणं शक्यम्।अस्मिन् पक्षे ‘स्व-अन्यूनसत्ताक:’ इति अभावस्य विशेषणं देयम्।स्वं नाम प्रतियोगि। स्वान्यूनसत्ताकाभावप्रतियोगित्वं परिच्छिन्नत्वम्।
अज्ञानं व्यावहारिकम्। अज्ञानाभाव: पारमार्थिक:।प्रतियोगिसत्तापेक्षया अस्य अभावस्य सत्ता न्यूना नास्ति इति प्रतियोग्यन्यूनसत्ताकत्वम् अस्ति।एवं च अज्ञान-अन्यूनसत्ताक-अभाव-प्रतियोगित्वम् अज्ञाने अस्ति।अत: अज्ञाने परिच्छिन्नत्वम् अस्ति।
आकाश: व्यावहारिक:। आकाशाभाव: पारमार्थिक:। प्रतियोगिसत्तापेक्षया अस्य अभावस्य सत्ता न्यूना नास्ति इति प्रतियोग्यन्यूनसत्ताकत्वम् अस्ति।एवं च आकाश-अन्यूनसत्ताक-अभाव-प्रतियोगित्वम् आकाशे अस्ति।अत: आकाशे परिच्छिन्नत्वम् अस्ति।
आकाश: नित्य:।ध्वंसप्रतियोगित्वं तत्र नास्ति इति यदाक्षिप्तं तस्योत्तरमेवं यद् आकाश: न नित्य:।तस्माद्वैतस्माद् आत्मन: आकाश: सम्भूत: () इति अनया श्रुत्या आकाशस्य कालकृत: परिच्छेद: सिद्ध्यति।
आक्षेप:-
आकाशवत् सर्वगतश्च नित्य: () इत्यनया श्रुत्या आत्मन: उपमानत्वेन आकाश: अभिहित:।उभयो: नित्यत्वं च सादृश्यत्वेन उक्तम्।कथं तर्हि आकाश: अनित्य: उच्यते?
समाधानम्-
आकाशवद् इति श्रुति: आकाशस्य नित्यत्वं यद् वदति, तद् ‘आभूतसम्प्लवम्’ अस्ति।आत्मन: नित्यत्वं भूतोत्पत्ते: पूर्वम् अस्ति, आभूतसम्प्लवम् अस्ति, भूतसम्प्लवोत्तरमपि अस्ति।अत: आकाशे परिच्छिन्नत्वं हेतु: अस्ति। मिथ्यात्वमपि अस्ति अत: न असिद्धिदोष: अत्र उद्भावनीय:।

दीर्घोत्तरप्रश्ना: