परसवर्णलेखनम्
संस्कृतभाषां देवनागरीलिप्या लेखनावसरे केषुचित् विषयेषु अवधातव्यं भवति । तेषु अनुस्वार-मकारयोः लेखनं कश्चन विषयः। अपरः अंशः अस्ति परसवर्णलेखनम् । अत्र सः विषयः प्रस्तूयते ।
नित्यम्
सम्पाद्यताम्अधः लिखितानि पदानि परिशीलयत ।
- अंगणम् पंकजम्, क्रौंचः,
- गांधारम्, किंतु, गच्छंति,
- चिंतयति, चंद्रः, शांतिः,
- परंपरा, चंपकम्, तंबूरम्
- कंटकः, अंडम्, कंडोलः
किम् एतानि शुद्धानि ? न ।
- अनुस्वारस्य पुरतः वर्गीयव्यञ्जनानि यवलाश्च यदा भवन्ति तदा सदृशः परसवर्णः लेखनीयः ।
सूत्रम् - अनुस्वारस्य ययि परसवर्णः (८-४-५८) इति पाणिनिसूत्रम् ।
एतादृशेषु स्थलेषु परसवर्णरहितानि (अनुस्वारसहितानि) रूपाणि असाधूनि एव । अतः उपरिलिखितानां शब्दानां शुद्धानि रूपाणि एवं सन्ति -
- अङ्गणम् पङ्कजम्, क्रौञ्चः,
- गान्धारम्, किन्तु, गच्छन्ति,
- चिन्तयति, चन्द्रः, शान्तिः,
- परम्परा, चम्पकम्, तम्बूरम्
- कण्टकः, अण्डम्, कण्डोलः
इदं नित्यं सम्भवति ।
विकल्पेन
सम्पाद्यताम्पदान्ते तु परसवर्णः विकल्पेन ।
सूत्रम् - अनुस्वारस्य ययि परसवर्णः (८-४-५८) इति पाणिनिसूत्रम् ।
अतः
- सङ्घटनम् / संघटनम्
- सञ्चयः / संचयः
- सम्भवति / संभवति
इति रूपद्वयमपि साधु एव । उपसर्गस्य पदत्वं (पदसंज्ञा) अस्ति इत्यतः ।
अभ्यासः
सम्पाद्यताम्अधः दत्तान् शब्दान् शुद्धं लिखत ।
- किंचित्
- भूखंडः
- गंतुम्
- पारांतरितम्
- संक्षिप्तम्
- दंपती
- संबंधः