परमार्थ-संविल्लक्षण-सत्ताजातिरेव सर्वेषां शब्दानाम् अर्थः।
स्पष्टीकुरुत – परमार्थ-संविल्लक्षण-सत्ताजातिरेव सर्वेषां शब्दानाम् अर्थः।
सन्दर्भः –
जातिसमुद्देशप्रकरणाद् पाणिनिदर्शने उद्धृतमिदं वचनम्।
शब्दस्य सङ्केतः जातौ एव भवति इति व्याकरणे एकीयं मतम्।जातिः सत्ता सामान्यम् इति अनर्थान्तरम्।एतत् सामान्यं द्विविधं, परम् अपरं च।अपरं द्रव्यत्वादिकम्।परं सत्ता।एषा परसामान्यरूपा सत्ता एव सर्वैः शब्दैः उच्यते।सर्वेषां शब्दानां वाच्यभूता, एष सत्ता एव परमार्थरूपा संवित् अस्य इति वचनस्य सारः।
एषा सत्तारूपा संविदेव सर्वेषां प्रातिपदिकानाम् अर्थः,एषा एव सर्वेषां धातूनाम् अर्थः। अस्याः न उत्पत्तिः भवति न वा विनाशः।अतः सा नित्या अस्ति।एषा संविद् देश-काल-वस्तु-परिच्छेदरहिता अस्ति।अतः ‘महान् आत्मा’ इति शब्देन एषा उच्यते।
वाजप्यायनेन इदं जातिशब्दार्थमतम् एवं प्रतिपादितम्-
गोशब्दस्य अर्थः नानागोद्रव्याश्रिता गोत्वजातिः एव।गोत्वे ज्ञाते गोत्वाश्रयभूतं गोद्रव्यम् अवगम्यते।
शुक्लगुणस्य अर्थः शुक्लगुणाश्रिता शुक्लत्वजातिः एव।शुक्लत्वजातौ ज्ञातायां सत्यां शुक्लत्वाश्रयभूतः शुक्लगुणः अवगम्यते।
गच्छतिक्रियायाः अर्थः क्रियारूपा जातिः एव।गमनं करोति, पठनं करोति लेखनं करोति इति सर्वासु क्रियासु करोति इति अनुवृत्तिप्रत्ययः जायते।सा एव गच्छति-पठत्यादिक्रियाश्रिता कर्मत्वजातिः। तस्यां ज्ञातायां गच्छति-आश्रयभूता गमनक्रिया अवगम्यते।
देवदत्तः इति संज्ञाशब्दः।तत्रापि बाल्ये, कौमारे, यौवने प्रौढत्वे, वार्धक्ये च स एव अयं देवदत्तः इति अनुवृत्तिप्रत्ययो जायते।सा जातिः देवदत्तशब्दस्य अर्थः।
एवं सर्वेषां शब्दानां जातिरेवार्थः।
आक्षेपः- १
यदि सर्वेषां शब्दानां संवित् इति एकः एव अर्थः, तर्हि सर्वे शब्दाः पर्यायभूताः भवन्ति।तथा सति द्वित्रशब्दानां युगपत् समभिव्याहारः निरर्थकः भवेत्।देवदत्तः ग्रामं गच्छति इति वचने सर्वे शब्दाः संविद्बोधकाः जाताः चेत् ते परस्परं पर्यायभूताः मन्तव्याः।तथा सति ते पर्यायरूपम् एव अर्थं बोधयन्ति।वाक्यस्य संहतम् अर्थं न बोधयिष्यन्ति।
उत्तरम्
सत्ता द्रव्यगुणकर्माश्रिता भवति।मूलतः एका एव सत्ता आश्रयभेदेन तथा तथा उपरञ्जिता भवति।अत्र दृष्टान्तः स्फटिकस्य।शुभ्रं स्फटिकं नीलरक्तपीताश्रयेण तथा तथा भाति।एवम् एका एव संविद्रूपा सत्ता सम्बन्धिभेदात् भिन्नाकारेण भाति।अतः सर्वेषां शब्दानां पर्यायत्वप्रसङ्गः न सम्भवति।
आक्षेपः २
केषाञ्चिद् वैयाकरणानां मतेन शब्दस्य सङ्केतः द्रव्ये वर्तते, न जातौ।तदा ‘सर्वशब्दानाम् अर्थः परमसत्तारूपा संविद्’ इति सिद्धान्तः बाध्यते।
उत्तरम्
व्याडिमतेन द्रव्यं शब्दार्थः।गोशब्देन गोव्यक्तिः बोध्यते।गोत्वजातिः गोद्रव्यस्य उपलक्षणत्वेन (गौणत्वेन) प्रतीयते।
तथापि द्रव्यपदार्थवादिमते अपि संविद् एव सर्वेषां शब्दानाम् अर्थः।यतो हि द्रव्यशब्देन ब्रह्मतत्त्वम् एव तैः अङ्गीक्रियते।तदेव ब्रह्म सर्वेषां शब्दानाम् अर्थः।एतत् सत्यं ध्रुवं ब्रह्म एव घटपटादीनाम् असत्यपदार्थानाम् आकारेण भासते।अतः घटशब्दस्य अर्थरूपेण यः कम्बुग्रीवादिमान् पदार्थः भासते, सः उपाधिः एव।अनेन उपाधिना शुद्धं ब्रह्म एव अभिधीयते।
तस्मात् सर्वेषां शब्दानाम् एकः एव अर्थः- ब्रह्म।सः एव अर्थः उपाधिभेदात् बहुरूपः प्रकाशते।कुण्डलात् विकारः अपगतः चेत् सुवर्णम् एव सत्यम् अवशिष्यते।तथा विकारापगमे सति सर्वं जगत् सत्यसंविद्रूपेण अवशिष्यते।
आक्षेपः ३
यदि संविद् इति एकमेव सत्यं तत्त्वम् ,तर्हि संविद्वाचकशब्दानां का व्यवस्था?
उत्तरम्
संविद् इति एकः एव सत्यः पदार्थः अभ्युपगम्यते।अतः वाच्यवाचकयोः अपि अभेदः मन्तव्यः अस्मन्मते।
आक्षेपः
वाचकशब्दाः तथा वाच्यसंविद् इति एतयोः अभेदः स्वीकृतः चेत् तयोः वाच्यवाचकसम्बन्धः न सम्भवति।
उत्तरम्
सम्भवति।यथा जीवात्मा तथा परमात्मा इति एतयोः परमार्थदृष्ट्या ऐक्यं वर्तते, तथापि व्यवहारदशायां सेव्यसेवकसम्बन्धः उपास्योपासकसम्बन्धो वा उपपद्यते तथा एव वाच्यवाचकयोः परमार्थतः ऐक्यं, व्यवहारदशायां तु पृथक्त्वं मिथः वाच्यवाचकसम्बन्धः च उपपद्यते।
सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि सर्वदर्शनसङ्ग्रहे पाणिनिदर्शनम्