पदम् अर्थस्य वाचकम् इति मतं .....
पदम् अर्थस्य वाचकम् इति मतं सविस्तरं लिखत ।
सन्दर्भः –
अर्थज्ञानं पदात् भवति वा न इति अस्मिन् विषये मीमांसा-व्याकरणयोः वैमत्यम् अस्ति।तत्र मीमांसापक्षः एवं यत् पदम् अर्थस्य वाचकम्।
पदस्य अर्थवाचकत्वम्
पाणिनिना सुप्तिङन्तं पदम् इति पदसंज्ञा उक्ता।गौतमेन अपि ‘ते विभक्त्यन्ताः पदम्’ इति पदसंज्ञा उक्ता।उभयत्र वर्णात्मकम् एव पदम् अनुमतम्।
‘अस्मात् पदात् अयम् अर्थः बोद्धव्यः’ इति सङ्केतः।अयं सङ्केतः ज्ञातः भवति चेत् पदात् अर्थः प्रतीयते।एवं पदमेव सङ्केतग्रहणेन सह अर्थस्य वाचकं भवति।
आक्षेपाः
वैयाकरणाः मतमेतद् न अनुमन्यन्ते।ते अत्र आक्षेपान् उद्भावयन्ति यथा -
अर्थज्ञानं वर्णेभ्यः एव भवति इति वचनं न युक्तम्।एकः एकः व्यस्तः वर्णः अर्थबोधने असमर्थः।एकः व्यस्तः वर्णः अर्थं बोधयति चेत् अन्येषां वर्णानाम् आनर्थक्यं भवति।
पुनः यथा पृथक् पृथक् पुष्पेभ्यः मालाप्रतीतिः न जायते तथा पृथक् पृथक् वर्णेभ्यः एकपदप्रतीतिः न जायते।जनस्य अनुभवः तु ‘अहं पदं श्रुतवान्’ इति अस्ति, न तु ‘अहं वर्णान् श्रुतवान्’ इति।
समस्ताः वर्णाः अर्थं बोधयन्ति इति अपि न शक्यम्।वर्णाः उत्पन्नाः क्षणेन नष्टाः भवन्ति।तेषां समूहः न सम्भवति।
‘क्षणिकानां वर्णानां समूहः साक्षात् न सम्भवति चेत् समूहं कल्पयामः’ इति अपि वचनं न योग्यं यतो हि अनेन अन्योन्याश्रयदोषः आपतति।वर्णानां समूहरूपस्य कल्पना किमर्थम् ? एते वर्णाः एकम् अर्थं वदन्ति इति साधयितुम्।एते वर्णाः एकम् अर्थं वदन्ति इति कुतः ज्ञायते? वर्णसमूहरूपात् पदात्।एषः अन्योन्याश्रयदोषः।
पदत्वसिद्धौ सत्याम् अर्थबोधः .......... अर्थबोधः भवति अतः वर्णसमूहरूपस्य पदस्य कल्पना
अतः कल्पितसमूहः इत्यपि विकल्पः न सम्भवति।
व्यस्ताश्च समस्ताश्च वर्णाः इति विकल्पः न सम्भवति।
एवं व्यस्ताः वर्णाः अर्थं न बोधयन्ति,समस्ताः वर्णाः न सम्भवन्ति, कल्पितस्य वर्णसमूहस्य अर्थबोधकत्वम् अन्योन्याश्रयदोषग्रस्तं, व्यस्तसमस्ताः वर्णाः न सम्भवन्ति इति एकः अपि विकल्पः न सम्भवति।
अपरोऽपि दोषः पदवाचकत्वपक्षे अस्ति।
वनम् इति पदे ये वर्णाः ते एव वर्णाः नवम् इति पदे सन्ति।तयोः अर्थौ भिन्नौ।यदि वर्णसमूहरूपात् पदाद् एव अर्थः ज्ञायते तर्हि वन-नवयोः अर्थभेदस्य प्रतीतिः न स्यात्, उभयत्र वर्णसमूहस्य समानत्वात्।
अर्थज्ञानं वर्णेभ्यो न भवति चेत् अन्यः कश्चित् अर्थप्रत्यायकः हेतुः अभ्युपगन्तव्यः।सः एव स्फोटः।
समाधानम्
‘वर्णसमूहरूपपदे अर्थबोधकत्वं’ इति अस्मिन् पक्षे ये दोषाः वैयाकरणेन उद्भाविताः, ते सर्वे ‘स्फोटः अर्थबोधकः’ इति तस्य पक्षे अपि उद्भवन्ति।वादस्य नियमः अयं यत्
यश्चोभयोः समो दोषः परिहारस्तयोः समः।
नैकः पर्यनुयोक्तव्यः तादृगर्थविचारणे॥
पदवाचकत्वपक्षे वन-नवयोः अर्थभेदप्रतीतिः न स्यात् इति आक्षेपः अपि न युक्तः।उभयपदयोः यद्यपि वर्णाः समानाः तथापि तेषां क्रमः भिन्नः।अतः क्रमभेदात् अर्थभेदस्य उपपादनं सुशकम्।
अतः पदस्य एव अर्थवाचकत्वम्।
सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्