नीवाराः..... -रेखाङ्किताः ॥१.१४॥

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धा क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥१.१४॥

पदच्छेदः-
नीवाराः शुकगर्भकोटरमुखभ्रष्टाः तरूणाम् अधः
प्रस्निग्धाः क्वचिद् इङ्गुदीफलभिदः सूच्यन्ते एव उपलाः ।
विश्वासोपगमात् अभिन्नगतयः शब्दं सहन्ते मृगाः
तोयाधारपथाः च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥१.१४॥

अन्वयः-
तरूणाम् अधः शुकगर्भकोटरमुखभ्रष्टाः नीवाराः (दृश्यन्ते)। क्वचित् इङ्गुदीफलभिदः प्रस्निग्धाः उपलाः सूच्यन्ते एव ।विश्वासोपगमात् अभिन्नगतयः मृगाः शब्दं सहन्ते ।तोयाधारपथाः च वल्कल-शिखा-निष्यन्द-रेखाङ्किताः सन्ति ॥१.१४॥

सन्दर्भः-
आश्रमदर्शनेन प्रसन्नः दुष्यन्तः आश्रमं वर्णयति।

सरलार्थः-
अस्मिन् आश्रमे वृक्षकोटरेषु वसन्तः नीवारं खादन्तः शुकाः सन्ति।तेषां मुखेभ्यः भ्रष्टाः धान्यकणाः तरूणाम् अधः पतिताः दृश्यन्ते।क्वचित् इङ्गुदीफलानां भेदकाः स्निग्धाः पाषाणाः दृश्यन्ते।अत्रत्यानां मृगाणां जनेषु विश्वासः वर्तते।अतः जनानां शब्दं श्रुत्वा अपि ते न पलायन्ते, शब्दं सहन्ते।जलाशयं प्रति गच्छत्सु मार्गेषु वल्कलप्रान्तदेशात् स्यन्दिताः जलरेखाः सन्ति।॥१.१४

वृत्तम् –
शार्दूलविक्रीडितम्

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि            अभिज्ञानशाकुन्तले शार्दूलविक्रीडित-वृत्तनिबद्धानि पद्यानि
रम्याः तपोधनानां..... -अङ्कः इति ॥१.१३॥    कुल्याम्भोभिः …..चरन्ति॥१.१५॥