नातिचिरेण विशेषम्।३.१.२३
विषय:- व्रीह्यादिप्रतिपत्ते: प्रागाकाशादिप्रतिपत्ति: भवति।
विशय:- किं दीर्घकालं पूर्वपूर्वसादृश्येन अवस्थाय उत्तरोत्तरसादृश्यं गच्छति अथवा अल्पमल्पं कालम्?
पूर्वपक्ष:- अत्र अनियम:,नियमकारिण: शास्त्रवचनस्याभावात्।
वेदान्ती- नातिचिरेण आकाशादिभावाद् अग्रे यान्ति। वर्षधाराभि: सह इमां भुवमापतन्ति, विशेषदर्शनात्।व्रीह्यादिभावापत्ते: अनन्तरं विशेषणं दर्शयति श्रुति:- ‘अतो वै खलु दुर्निष्प्रपतरम्’ (छा.५.१०.६) इति।अस्माद् व्रीह्यादिभावाद् नि:सरणं दुर्निष्प्रपतरम् दुर्निष्क्रमतरं भवतीत्यर्थ:।अत्र दु:खेन निष्प्रपतनं दर्शितम् अत: इत: पूर्वं सुखेन निष्प्रपतनं प्राप्तम्।तस्माद् व्रीह्यादिभावापत्ते: प्राग् अचिरेण एव कालेन अवरोह: भवति।
पू.-ननु दुष्प्रपततरम् इत्यस्य अर्थ: दुर्निष्क्रमतरम् इति भवति।प्रकृते दुष्प्रपतरम् इति शब्द: श्रूयते।
वे.-छान्दसप्रक्रियायामेक: तकार: लुप्त:।
पू.- व्रीह्यादिनिष्पत्ते: प्राक् सुखेनावरोह: भवति इति एतावदेव प्रकृतविशेषणात् ज्ञायते। अचिरेणावरोह: भवतीति कथमुच्यते?
वे.- सुखदु:खे भोगविशेषरूपे।ते च शरीरमन्तरेण न सम्भवत:।अवरोहे शरीरस्याभाव:।अत: सुखदु:खयो: अल्पकालचिरकालौ इत्येवार्थौ तदा उचितौ।

तृतीयाध्याये प्रथम: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्
"https://sa.wikibooks.org/w/index.php?title=नातिचिराधिकरणम्&oldid=5659" इत्यस्माद् प्रतिप्राप्तम्