मूलम्
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः।
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः।
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः।। २९।।

पदच्छेदः-
नमः नेदिष्ठाय प्रियदव दविष्ठाय च नमः।नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।।
नमः वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः।नमः सर्वस्मै ते तद् इदम् इति सर्वाय च नमः।। २९।।

अन्वयः-
हे प्रियदव, नेदिष्ठाय नमः दविष्ठाय च नमः।हे स्मरहर, क्षोदिष्ठाय नमः महिष्ठाय च नमः।।हे त्रिनयन, वर्षिष्ठाय नमः यविष्ठाय च नमः।सर्वस्मै ते नमः ।तद् इदम् इति च सर्वाय नमः।। २९।।

सरलार्थः-
हे वनप्रिय, त्वम् अत्यन्तं समीपे असि, तुभ्यं नमः।त्वम् अत्यन्तं दूरे असि।तुभ्यं नमः।हे स्मरहर, त्वम् अत्यन्तं लघुः असि, तुभ्यं नमः।त्वम् अत्यन्तं महान् असि, तुभ्यं नमः।हे त्रियनय, त्वम् अत्यन्तं वृद्धः असि, तुभ्यं नमः।त्वम् अत्यन्तं तरुणः असि, तुभ्यं नमः।त्वं सर्वात्मकः असि तुभ्यं नमः।त्वं परोक्षः असि ,तुभ्यं नमः।त्वम् अपरोक्षः असि तुभ्यं नमः॥२९
शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्

"https://sa.wikibooks.org/w/index.php?title=नमो_नेदिष्ठाय...&oldid=6198" इत्यस्माद् प्रतिप्राप्तम्