धी: =
ग्रहः।ज्ञानम् ।प्रतीतिः।प्रत्ययः।बुध्दिः।बोधः।संवित्।
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटधीः,घटग्रहः, घटज्ञानम् , घटप्रतीतिः, घटप्रत्ययः, घटबुध्दिः, घटबोधः, घटसंवित् वास्ति ।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरधीः, शरीरग्रहः, शरीरज्ञानम् , शरीरप्रतीतिः, घटप्रत्ययः, शरीरबुध्दिः, शरीरबोधः, शरीरसंवित् वास्ति ।

ध्वंसः =
नाशः।निवृत्तिः।प्रध्वंसाभावः।विनाशः।
यथा दण्डाघाताद् घटस्य ध्वंसः, नाशः, निवृत्तिः, प्रध्वंसाभावः, विनाशः वा।
यथा उष्णेन कफस्य ध्वंसः, नाशः, निवृत्तिः, प्रध्वंसाभावः, विनाशः वा।

ध्वंसप्रतियोगित्वम् =
सान्तत्वम्।नाशवत्त्वम्।नाशप्रतियोगित्वम्।ध्वंसवत्त्वम्।
यथा घटे ध्वंसप्रतियोगित्वं, सान्तत्वं, नाशवत्त्वं, नाशप्रतियोगित्वं, ध्वंसवत्त्वं वा विद्यते।
यथा शरीरे ध्वंसप्रतियोगित्वं सान्तत्वं नाशवत्त्वं नाशप्रतियोगित्वं, ध्वंसवत्त्वं वा विद्यते।

ध्वंसवत्त्वम् =
सान्तत्वम्।नाशवत्त्वम्।नाशप्रतियोगित्वम्।ध्वंसप्रतियोगित्वम्।
यथा घटे ध्वंसवत्त्वं, सान्तत्वं, नाशवत्त्वं, नाशप्रतियोगित्वं,ध्वंसप्रतियोगित्वं वा विद्यते।
यथा शरीरे ध्वंसवत्त्वं, सान्तत्वं, नाशवत्त्वं, नाशप्रतियोगित्वं,ध्वंसप्रतियोगित्वं वा विद्यते।

ध्वंसशून्यत्वम् =
अनन्तत्वम्।ध्वंसाप्रतियोगित्वम्।नाशाप्रतियोगित्वम्।नाशशून्यत्वम्। यथा आत्मनि ध्वंसशून्यत्वम्, अनन्तत्वं, ध्वंसाप्रतियोगित्वं, नाशाप्रतियोगित्वं, नाशशून्यत्वं वा विद्यते

ध्वंसाप्रतियोगित्वम् =
अनन्तत्वम्।नाशाप्रतियोगित्वम्।ध्वंसशून्यत्वम्।नाशशून्यत्वम्।
यथा आत्मनि ध्वंसाप्रतियोगित्वम्, अनन्तत्वं,नाशाप्रतियोगित्वं,ध्वंसशून्यत्वं, नाशशून्यत्वं वा विद्यते।

ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वम् =
नित्यत्वम्।
यथा आत्मनि ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वं नित्यत्वं वा विद्यते।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=ध...&oldid=7294" इत्यस्माद् प्रतिप्राप्तम्