ध्रुवं कश्चित्...
मूलम्
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं।
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव।
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता।। ९।।
पदच्छेदः-
ध्रुवं कश्चित् सर्वं सकलम् अपरः तु अध्रुवम् इदं।परः ध्रौव्य-अध्रौव्ये जगति गदति व्यस्तविषये।।
समस्ते अपि एतस्मिन् पुरमथन तैः विस्मितः इव।स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता।। ९।।
अन्वयः-
हे पुरमथन, कश्चित् ‘सर्वं ध्रुवं’ (इति)गदति। अपरः तु ‘सकलम् इदम् अध्रुवम्’ (इति) गदति।परः ‘जगति ध्रौव्य-अध्रौव्ये व्यस्तविषये’ (इति) गदति।एतस्मिन् समस्ते, तैः विस्मितः इव अपि, त्वां स्तुवन् (अहं) न जिह्रेमि।ननु मुखरता धृष्टा खलु ! ।। ९।।
सरलार्थः-
एतत् सर्वं विश्वं शाश्वतम् इति कश्चिद् वदति। एतत् सर्वं विश्वम् अशाश्वतम् इति कश्चिद् वदति।अपरः कश्चिद् वदति यद् जगति केचन पदार्थाः शाश्वताः, केचन अशाश्वताः इति विभागः अस्ति।अस्मिन् समस्ते मतजाले हे पुरमथन, तैः मतैः अहं विस्मितः।तथापि तव स्तुतिं कुर्वन् लज्जां नानुभवामि।मुखरता धृष्टा अस्ति ननु !९