ध्यायेदाजानुबाहुं ... रामचन्द्रम्

मूलम्
ॐ श्रीगणेशाय नमः ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य।बुधकौशिक ऋषिः।श्रीसीतारामचन्द्रो देवता ।अनुष्ठुप् छ्न्दः। सीता शक्तिः ।श्रीमद्धनुमान् कीलकम् ।श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः।

पदच्छेदः
ॐ श्रीगणेशाय नमः ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य।बुधकौशिकः ऋषिः।श्रीसीतारामचन्द्रः देवता ।अनुष्ठुप् छ्न्दः । सीता शक्तिः ।श्रीमत्-हनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।

मूलम्
अथ ध्यानम् ।
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारुढसीता मुखकमलमिलल्लोचनं नीरदाभं । नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥
इति ध्यानम्

पदच्छेदः
अथ ध्यानम् ।
ध्यायेत् आजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारुढसीता-मुखकमलमिलत्-लोचनं नीरदाभं । नाना-अलङ्कारदीप्तं दधतम् उरु-जटामण्डनं रामचन्द्रम् ॥
इति ध्यानम्

अन्वयः
आजानुबाहुं, धृतशरधनुषं, बद्धपद्मासनस्थं, पीतं वासो वसानं, नवकमलदलस्पर्धिनेत्रं, प्रसन्नं, वामाङ्कारुढसीता-मुखकमलमिलत्-लोचनं, नीरदाभं, नाना-अलङ्कारदीप्तं, उरु-जटामण्डनं दधतं रामचन्द्रम् ध्यायेत् ॥

सरलार्थः-
नरः एतादृशस्य रामस्य ध्यानं कुर्यात्।यथा - रामेण शरः तथा धनुः धृतम्।सः पद्मासने स्थितः।तेन पीतं वस्त्रं धृतम्।तस्य नेत्रे नवकमलस्य दलेन सह स्पर्धां कुरुतः। तस्य वामे अङ्के सीता अस्ति।तस्याः मुखकमले रामस्य लोचने लग्ने स्तः।रामस्य वर्णः जलपूर्णमेघसदृशः अस्ति।सः नानाविधैः अलङ्कारैः शोभते। प्रदीर्घजटारूपम् अलङ्कारं सः धारयते।

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
ध्यायेदाजानुबाहुं ध्यायेत् आजानुबाहुं झलां जशोऽन्ते।८.२.३९
पद्मासनस्थं पद्म-आसनस्थं अकः सवर्णे दीर्घः।६.१.९९
वामाङ्क वाम-अङ्क अकः सवर्णे दीर्घः।६.१.९९
अङ्कारुढ अङ्क-आरुढ अकः सवर्णे दीर्घः।६.१.९९
मिलल्लोचनं मिलत्-लोचनं झलां जशोऽन्ते।८.२.३९

तोर्लि।८.४.६०

नीरदाभं नीरद-आभं अकः सवर्णे दीर्घः।६.१.९९
नानालङ्कार नाना-अलङ्कार अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः (ध्यानम्)
आजानुबाहुम्
आ जानुनोः आजानु।... आङ् मर्यादाभिविध्योः।२.१.१३
आजानु बाहू यस्य सः आजानुबाहुः, तम्।...अनेकमन्यपदार्थे।२.२.२४

धृतशरधनुषम्
शरः च धनुः च शरधनुषी।...चार्थे द्वन्द्वः।२.२.२९
धृते शरधनुषी येन सः धृतशरधनुः, तम्।...अनेकमन्यपदार्थे।२.२.२४

बद्धपद्मासनस्थम्
पद्मं नाम यस्य तत् पद्मनाम।...अनेकमन्यपदार्थे।२.२.२४
पद्मनाम आसनं पद्मासनम्।...शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसङ्ख्यानम्।(वार्तिकम्)
बद्धं पद्मासनं बद्धपद्मासनम्।...विशेषणं विशेष्येण बहुलम्।...२.१.५७
बद्धपद्मासने तिष्ठति इति बद्धपद्मासनस्थः, तम्।…उपपदमतिङ्।२.१.१९

नवकमलदलस्पर्धिनेत्रम्
नवं कमलं नवकमलम्।... विशेषणं विशेष्येण बहुलम्।...२.१.५७
नवकमलस्य दलं नवकमलदलम्।...षष्ठी।२.२.८
नवकमलदलस्य स्पर्धि नवकमलदलस्पर्धि।...षष्ठी।२.२.८
नवकमलदलस्पर्धि नेत्रं नवमकलदलस्पर्धिनेत्रम्।...विशेषणं विशेष्येण बहुलम्।२.१.५७

वामाङ्कारुढसीता-मुख-कमल-मिलत्-लोचनम्
वामः अङ्कः वामाङ्कः।... विशेषणं विशेष्येण बहुलम्।२.१.५७
वामाङ्कम् आरूढा वामाङ्कारूढा।...द्वितीया श्रितातीत...।२.१.२४
वामाङ्कारूढा सीता वामाङ्कारूढसीता।...विशेषणं विशेष्येण बहुलम्।२.१.५७
वामाङ्कारूढसीतायाः मुखं वामाङ्कारूढसीतामुखम्।...षष्ठी।२.२.८
वामाङ्कारूढसीतामुखम् कमलम् इव वामाङ्कारूढसीतामुखकमलम्।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।२.१.५६
वामाङ्कारूढसीतामुखकमलेन मिलत् लोचनं यस्य सः वामाङ्कारूढसीतामुखकमल-मिल्लोचनः तम्।...अनेकमन्यपदार्थे।२.२.२४

नीरदाभम्
नीरं ददाति नीरदः।... उपपदमतिङ् ।२.२.१९
नीरदस्य आभा इव आभा यस्य सः नीरदाभः, तम्।...अनेकमन्यपदार्थे।२.२.२४

नाना-अलङ्कारदीप्तम्
नाना अलङ्काराः नानालङ्काराः।...सह सुपा।२.१.४
नानालङ्कारैः दीप्तः नानालङ्कारदीप्तः,तम्।... कर्तृकरणे कृता बहुलम्।२.१.३२

उरु-जटामण्डनम्
ऊर्व्यः जटाः ऊरुजटाः।...विशेषणं विशेष्येण बहुलम्।२.१.५७
ऊरुजटाः मण्डनं यस्य सः ऊरुजटामण्डनः, तम्।...अनेकमन्यपदार्थे।२.२.२४

रामचन्द्रम्
रामः चन्द्रः इव, तम्।...उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६

रामरक्षास्तोत्रम् - सान्वयं सार्थम्