दक्षिणे ... वन्दे रघुनन्दनम्

मूलम्
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा। पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥

पदच्छेदः
दक्षिणे लक्ष्मणः यस्य वामे तु जनक-आत्मजा । पुरतः मारुतिः यस्य तं वन्दे रघुनन्दनम् ॥३१॥

अन्वयः
यस्य दक्षिणे लक्ष्मणः (अस्ति), वामे तु जनक-आत्मजा (अस्ति), यस्य पुरतः मारुतिः (अस्ति), तं रघुनन्दनम् (अहं) वन्दे ॥३१॥

सरलार्थः यस्य दक्षिणपार्श्वे लक्ष्मणः अस्ति, वामपार्श्वे सीता अस्ति, यस्य पुरतः मारुतिः अस्ति, तं रघुनन्दनम् अहं वन्दे ॥३१

सन्धिविग्रहः ३१

सन्धिः विग्रहः सूत्रम्
लक्ष्मणो यस्य लक्ष्मणस् यस्य ससजुषो रुः।८.२.६६

हशि च।६.१.११२

जनकात्मजा जनक-आत्मजा अकः सवर्णे दीर्घः।६.१.९९
पुरतो मारुतिः पुरतस् मारुतिः ससजुषो रुः।८.२.६६

हशि च।६.१.११२

मारुतिर्यस्य मारुतिस् यस्य ससजुषो रुः।८.२.६६

समासविग्रहः ३१
जनकात्मजा
आत्मनः जाता आत्मजा।... उपपदमतिङ् ।२.२.१९
जनकस्य आत्मजा जनकात्मजा।... षष्ठी।२.२.८

रघुनन्दनम्
रघूणां नन्दनः रघुनन्दनः।... षष्ठी।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्