मूलम्
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः।
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं।
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि।। २६।।

पदच्छेदः-
त्वम् अर्कः त्वं सोमः त्वम् असि पवनः त्वं हुतवहः।त्वम् आपः त्वं व्योम त्वम् उ धरणिः आत्मा त्वम् इति च।।
परिच्छिन्नाम् एवं त्वयि परिणता बिभ्रतु गिरं।न विद्मः तत् तत्त्वं वयम् इह तु यत् त्वं न भवसि।। २६।।

अन्वयः-
परिणताः त्वम् अर्कः असि, त्वं सोमः, त्वम् पवनः, त्वं हुतवहः, त्वम् आपः, त्वं व्योम, त्वम् उ धरणिः, त्वम् आत्मा इति च एवं परिच्छिन्नाम् गिरं त्वयि बिभ्रतु। वयम् तु इह तत्तत्त्वं न विद्मः यत् त्वं न भवसि।। २६।।

सरलार्थः-
पण्डिताः तव वर्णनं विविधैः प्रकारैः कुर्वन्ति।यथा त्वम् अर्कः असि, त्वं सोमः असि, त्वं पवनः असि, त्वम् अग्निः असि, त्वं जलम् असि, त्वम् आकाशः असि त्वं भूमिः असि, त्वम् आत्मा असि इति।एतानि सर्वाणि सङ्कुचितानि वचनानि।ते पण्डिताः एवं सङ्कुचितां वाणीं वदन्तु नाम।वयं तु एकम् अपि तत्त्वं न पश्यामः, यत् त्वं न भवसि॥२६


शिवस्तोत्राणि     शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=त्वमर्क:...&oldid=7160" इत्यस्माद् प्रतिप्राप्तम्