मूलम्
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति।
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां।
नृणामेको गम्यस्त्वमसि पयसामर्णव इव।। ७।।

पदच्छेदः-
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवम् इति।प्रभिन्ने प्रस्थाने परम् इदम् अदः पथ्यम् इति च।।
रुचीनां वैचित्र्याद् ऋजु-कुटिल-नानापथजुषां।नृणाम् एकः गम्यः त्वम् असि पयसाम् अर्णवः इव।

अन्वयः
त्रयी, साङ्ख्यं, योगः, पशुपतिमतं, वैष्णवम् इति प्रभिन्ने प्रस्थाने ‘इदम् परम्’ ‘अदः पथ्यम्’ इति च रुचीनां वैचित्र्याद् ऋजु-कुटिल-नानापथजुषां नृणाम्, पयसाम् अर्णवः इव त्वम् एकः गम्यः असि।। ७।।

सरलार्थः-
मोक्षार्थं त्रयः वेदाः, साङ्ख्यमतं, योगमतं, पशुपतिमतं वैष्णवमतम् इति भिन्नाः भिन्नाः विचाराः सन्ति।तेषां रुचयः भिन्नाः।स्वरुचिम् अनुसृत्य एतद् हितकरं, तत् श्रेयस्करम् इति ते ब्रुवन्ति।एवं सरलैः वा कुटिलैः वा नाना मार्गैः जनाः प्रवृत्ताः।यथा नानाविधानां जलप्रवाहाणाम् अन्तिमं स्थानं सागरः, तथा एतेषां जनानाम् अन्तिमं गन्तव्यस्थानं त्वम् असि।७


शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=त्रयी_साङ्ख्यं...&oldid=6162" इत्यस्माद् प्रतिप्राप्तम्