सन्दर्भः
गौडपादकारिकायाः प्रथमे पद्ये आत्मनः त्रैविध्यम् उपक्रान्तम्।तत्र अन्यतमः तैजसः।

विवरणम्
स्वप्नस्थानः आत्मा तैजसः इति अनया संज्ञया उच्यते।अयं तैजसः अन्तःप्रज्ञः अस्ति। अन्तः मनोवासनारूपा एव प्रज्ञा यस्य,सः अन्तःप्रज्ञः।
जागरितदशायां ये बाह्यविषयाः अनुभूताः, तेषां वासनारूपाः संस्काराः मनसि तिष्ठन्ति।मनः एतैः संस्कारैः चित्रितम् इव भवति।तादृशं विचित्रसंस्कारैः चित्रितं मनः स्वप्नकाले अविद्यया प्रेरितं भवति। तदा इन्द्रियाणां साहाय्यं विना तदेव मनः जगद्वद् अवभासते।इदम् अन्तर्जगद् एव प्रज्ञा यस्य सः अन्तःप्रज्ञः।
अस्य तैजसस्य प्रज्ञा बाह्यविषयशून्या अस्ति।केवलप्रकाशस्वरूपा प्रज्ञा अस्य अतः तैजसः इति अस्य नामधेयम्।
प्रविविक्ताः इत्युक्ते सूक्ष्माः।बाह्यविषयाणाम् अपेक्षया अन्तर्गताः वासनामयाः भोगाः सूक्ष्माः। तान् सूक्ष्मान् भोगान् तैजसः भुङ्क्ते इति प्रविविक्तभुक् सः।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः
"https://sa.wikibooks.org/w/index.php?title=तैजसः।-_टिप्पनीं_लिखत&oldid=6305" इत्यस्माद् प्रतिप्राप्तम्