तेजोधिकरणम्
तेजोऽतस्तथा ह्याह।२.३.१०
पू.- आम्नातं छान्दोग्ये तेजस: सन्मूलत्वम्, तैत्तिरीयके च वायुमूलत्वम्।अत: संशयो भवति यत् किंमूलकं तेज इति।तत्र ब्रह्ममूलकं तेज इति प्राप्तम्।
१ सदेव इत्युपक्रम्य तत्तेजो असृजत इत्युपदेशात्।
२ सर्वविज्ञानप्रतिज्ञाया: ब्रह्मप्रभवे सम्भवात्।
३ तज्जलान् इति चाविशेषश्रुते:।स तपस्तप्त्वा इदं सर्वमसृजत।यदिदं किञ्च (तैत्ति.३.६.१)
अत: वायोरग्नि: इति क्रमोपदेश: मन्तव्य:।वायोरनन्तरम् अग्नि: उत्पन्न: इति।
वे.- तेज: अत: मातरिश्वनो जायते।तथा हि आह श्रुति: वायोरग्नि: इति।
पू.-ननु क्रमबोधाय अयमुपदेश: इति उक्तम्।
वे.- न तद् योग्यम्।तस्माद्वैतस्मादात्मन: आकाश: सम्भूत:(तैत्ति.२.१.१)इति पूर्वं सम्भवति-क्रियाया: अपादानस्य आत्मन: पञ्चमीनिर्देश:।उत्तरत्र पृथिव्या: ओषधय:(तैत्ति.२.१.१) इत्यत्रापि सम्भवति-क्रियाया: अपादानभूता पृथिवी।तस्या: पञ्चम्या निर्देश:।अत: मध्येऽपि वायोरग्नि: इत्यत्र सम्भवतिक्रियाया: अपादानत्वेन एव वायो: पञ्चमीनिर्देशो युज्यते, न तु क्रमबोधकत्वेन।
२ वायो: अग्नि: इत्यत्र पञ्चम्या: क्रमबोधकत्वं कल्पनीयं, अपादानबोधकत्वं तु क्लृप्तम्।
अत: वायोरग्नि: इति श्रुति: तेजस: वायुयोनित्वं बोधयति।
पू.- ननु तत्तेजोऽसृजत इति श्रुति: तेजसो ब्रह्ममूलकत्वं वदति।
वे.- परम्परयापि अग्ने: ब्रह्ममूलकत्वं वक्तुं शक्यते।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये तृतीय: पाद: