॥ तिक्तरसः ॥

पाञ्चभौतिकत्वम् -
तिक्तरसात्मके द्रव्ये पञ्च अपि महाभूतानि सन्ति, तथापि वायुः तथा आकाशः इति एतयोः महाभूतयोः प्राबल्यम् अस्ति। आकाशस्य सूक्ष्मः गुणः तिक्तरसे विद्यते। वायोः रूक्षता तथा लघुता अपि तिक्तरसे विद्यते। विशदगुणः अपि तिक्तरसे वर्तते। विशदता नाम क्षालनसामर्थ्यम्।
तिक्तरसस्य अभिज्ञानम् -
यदा तिक्तरसात्मकं द्रव्यं मुखे स्थापयामः तदा यानि लक्षणानि दृश्यन्ते, तैः वयं निर्णेतुं शक्नुमः यद् ’अयं तिक्तरसः’ इति । तानि लक्षणानि एवम् –
अ) मुखस्थं पैच्छिल्यं नश्यति। तेन मुखं स्वच्छं जातम् इति अनुभवः जायते।
आ) कतिपयक्षणान् यावत् जिह्वायाः रसग्रहणशक्तिः कुण्ठिता भवति। मुखे
बोधककफः अस्ति। रसबोधनकार्ये सः साहाय्यकरः। तिक्तरसं द्रव्यं बोधककफस्य -ह्रासं करोति। तेन कञ्चित् कालं यावत् रसबोधः न भवति।

विपाकः
पचनोत्तरं तिक्तरसस्य कटुरसे परिवर्तनं भवति। अतः तिक्तरसस्य विपाकः कटुः इति उच्यते।
वीर्यम् - तिक्तद्रव्याणि प्रायशः शीतवीर्याणि सन्ति।
शरिरे परिणामाः -
तिक्तरसः पित्तं शमयति, कफं च शमयति, । सः वातं वर्धयति । रसस्य रक्तस्य च शुद्धिं करोति । मासं, मेदः, मज्जा तथा शुक्रम् इति एते स्निग्धाः धातवः । तेभ्यः स्निग्धतायाः, द्रवतायाः च शोषणं तिक्तरसः करोति। मले विद्यमानस्य द्रवस्य शोषणं तिक्तरसेन भवति । सः मूत्रं तथा स्वेदः इति एतयोः मात्रां न्यूनां करोति ।मेधा नाम् ग्रन्थावधारणक्षमता । तिक्तरसेन मेधा वर्धते । मेधा उत्तमा तदा भवति यदा साधकपित्तं प्राकृतं भवति । अस्मिन् पित्ते द्रवता अधिका भवति चेत् मेधा मन्दा भवति । तिक्तरसः साधकपित्ते विद्यमानम् अतिरिक्तं द्रवं शोषयति । साधकपित्तं प्रसन्नं भवति । तेन मेधा वर्धते । तिक्तरसः अग्निमान्द्यं दूरीकरोति। यदा पित्ते द्रवता वर्धते तदा तस्य पचनसामर्थ्यं न्यूनं भवति । एतादृश्यां दशायां तिक्तरसः प्रयुज्यते । सः अधिकां द्रवतां शोषयति । पित्तस्य पचनसामर्थ्यं पुनः पूर्ववत् भवति । ज्वरः, रक्तपित्तं, विसर्पः इति एतादृशेषु रोगेषु अपक्वमन्नं पाचयितुं तिक्तस्य साहाय्यं भवति । ज्वरादयः एते रोगाः पित्तप्रकोपजन्याः सन्ति । तेषु उपचाराः अपि पित्तशामकाः अपेक्षिताः । कषायः तथा मधुररसः पित्तं शमयतः परं तौ अग्निमान्द्यं वर्धयतः । कटुः अम्लः तथा लवणः इति एते रसाः अग्निमान्द्यं नाशयन्ति परं पित्तं वर्धयन्ति । यः पित्तं च शमयेद् अग्निं च दीपयेद् इति एकः एव रसः - तिक्तरसः।तिक्तरसः स्वयम् अरोचिष्णुः। तथापि सः रुचिं जनयति । जिह्वायां यदि आमस्य वा कफस्य वा उपलेपः अस्ति, तर्हि रसबोधः न भवति । तदानीं स्वादु द्रव्यम् अपि न स्वदते। तिक्तद्रव्यं जिह्वायाः उपलेपं नाशयति । कतिपय-क्षणानन्तरं रसबोधनं सम्यग् भवति ।तिक्तरसः मुखं स्वच्छीकरोति अतः एव दन्तधावनार्थम् उत्तमः । दन्ताः, दन्तवेष्टाः, जिह्वा, तालु, कपोलयोः अन्तर्भागौ इति एतेषु स्थानेषु प्रभाते कफस्य उपलेपः अस्ति । तिक्तरसेन दन्तधावनं कुर्मः चेत्, सः नश्यति, मुखं स्वच्छं भवति ।क्वचित् किमपि विषं मुखद्वारा उदरं प्रविशति । तदा शीघ्रं तस्य शरीरात् निस्सारणं कर्तव्यम् । निराकरणार्थम् आसन्नं द्वारं मुखम् । अतः वमनेन् विषं बहिः निःसारयितुं शक्यते, युज्यते च । अस्मिन सङ्कटे , तिक्तरस्य क्वाथः पानार्थं दातव्यः । तेन झटिति वमनं भवति । विषं बहिरागच्छति । तिक्तरसः शीतः अस्तीति पूर्वमुक्तम् । विषद्रव्येण आमाशयस्य यः दाहः भवति; तम् अपि तिक्तरसः स्ववीर्येण शमयति ।कफजकृमिरोगे तिक्तरसः प्रयुज्यते । मधुरद्रव्यस्य अतियोगेन अन्नवहस्रोतसि क्लेदः वर्धते । अस्मिन् क्लेदे कृमयः प्रादुर्भवन्ति पुष्यन्ति च । तिक्तरसः क्लेदं शोषयति । तेन अनुकूलतायाः अभावात् कृमय: म्रियन्ते । किं च क्लेदनाशे सति कृमीणां पुनरुद्भवः न सम्भवति । ज्वरे तिक्तरसस्य प्रयोगः बाहुल्येन भवति । कफः तथा पित्तं यदा ज्वरं कुरुतः तदा तिक्तरसः उपयुज्यते । तिक्तरसः उभयोः अनयोः शमनं करोति । ज्वरे बहुधा आमस्य उपस्थितिः विद्यते । आमः नाम अपक्वः आहाररसः । एषः आमः स्रोतसाम् आवरणं करोति । तेन स्वेदस्य बहिः प्रवर्तनम् अवरुद्धं भवति । तेन ज्वरस्य मानं वर्धते । अङ्गमर्द: अपि जायते । अस्यां दशायां तिक्तरसः साहाय्यकरः भवति । सः आमं पचति । तेन अङ्गे लाघवं भवति । स्रोतोमुखानि विवृतानि भवन्ति । एवं नैकैः प्रकारैः ज्वरे तिक्तरसः उपयुक्तः भवति । अतः ’ज्वरप्रत्यनीकः रसः’ इति उच्यते ।यः कोऽपि ज्वरः भवतु तस्य शमने तिक्तरसस्य साहाय्यं भवति एव। ’ऊर्ध्वगं रक्तपित्तम्’ इति रोगावस्था अस्ति । तत्र मुखनासाद्वारा रक्तप्रवृत्तिः भवति । कफपित्तभ्याम् एषा रोगावस्था जायते । तत्र तिक्तरसः प्रयोज्यः । सः कफपित्ते शमयति।शीतवीर्यात् रक्तस्य स्तम्भनं करोति ।मूर्च्छा, दाहः, अतितृष्णा इत्यादयः विकाराः कुपितपित्तात् उद्भवन्ति।तेषां शमनाय तिक्तरसस्य प्रयोगः भवति । पित्तस्य उष्णगुणेन एते रोगाः भवन्ति । तिक्तरसः स्वस्य शीतवीर्येण पित्तं समीकरोति ।रसः तथा रक्तम् इति द्वौ द्रवरुपौ धातू । तयोः अतिरिक्तः जलांशः , पित्तं, कफः च रोगान् जनयन्ति । तेषां शोषणम् आवश्यकम् । तिक्तरसः तेषां शोषणं करोति । तेन रोगेभ्यः रक्षणं भवति । यदि एते अतिरिक्ताः जलपित्तकफा: न शोष्यन्ते, तर्हि कण्डूः जायते ।क्वचित् स्तन्यं कफेन पित्तेन वा दुष्टं भवति । तस्याम् अवस्थायाम् तिक्तरसः प्रयुज्यते । स्तन्यम् इति रसधातोः उपधातुः । तिक्तरसः रसधातुं शुद्धं करोति, कफपित्तयोः अपि समतां प्रस्थापयति । अतः स्तन्यशुद्ध्यर्थं तिक्तरसः नितराम् उपयुक्तः ।बालकः कफदुष्टं पित्तदुष्टं वा स्तन्यं यदि पिबति तर्हि तस्य छर्दिः अतीसारः विस्फोटाः इति एतादृशाः विकाराः भवन्ति । तत्रापि तिक्तरसः उपयुज्यते।
तिक्तरस्य अतियोगः -
तिक्तरसः शरीरस्थां स्निग्धतां नाशयति । तेन धातूनां क्षयः भवति । देहबलं न्यूनं भवति । ग्लानिः, भ्रमः, शिरशूलः इति एतादृशाः व्याधयः जायन्ते । शुक्रधातुः न्यूनः भवति , तेन मैथुनक्षमता न्यूना भवति ।
तिक्तद्रव्याणि -
पटोलं, कारवेल्लं, मेथिकाबीजं, मेथिकाशाकं, गुडूची, चन्दनं, मुस्ता, कैरातं, कुटकी, उशीरं, निम्बः, कुटजं, तगरम्, अगुरु, करञ्जः, हरिद्रा, आम्रगन्धहरिद्रा, मूर्वा, वासा इति एतानि कानिचन तिक्तरसात्मकानि द्रव्याणि ।
तिक्तरसापवादः -
प्रायशः तिक्तरसात्मकं द्रव्यं वातं वर्धयति; शुक्रं क्षपयति । तथापि पटोलं तथा गुडूची इति द्रव्यद्वयम् अपवादभूतम् । एतद् द्रव्यद्वयं तिक्तम् अस्ति, तथापि वातं न वर्धयति; शुक्रं न क्षपयति । अतः एतद् द्रव्यद्वयं तिक्तरसस्य अपवादभूतम् ।
भोजने स्थानम् -
भोजने तिक्तरसः अन्ते भवेत् । भोजनोत्तरं कफवृद्धिः भवति । भोजनान्ते तिक्तरसः भक्षितः अस्ति चेत् कफे नियन्त्रणं भवति । मुखे अन्नस्य उपलेपः न भवति । मुखं स्वच्छं, शुद्धं भवति ।
तिक्तरसः ऋतुदृष्ट्या -
शरदि पित्तं वर्धते । वसन्ते कफः वर्धते । अतः एतयोः ऋत्वोः तिक्तरसः अधिकः सेवनीयः यतो हि सः कफपित्तशामकः अस्ति ।
तिक्तरसः प्रकृतिदृष्ट्या -
तिक्तरसः वातवर्धकः, अतः वातलैः जनैः सः अल्पमात्रया सेव्यः । तिक्तेन पित्तकफयोः शमनं भवति, अतः पित्तलैः श्लेष्मलैः जनैः सः अधिकमात्रया सेव्यः ।


षड्रसविज्ञानम्

"https://sa.wikibooks.org/w/index.php?title=तिक्तरसविज्ञानम्&oldid=6234" इत्यस्माद् प्रतिप्राप्तम्