मूलम्
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशोऽसि महादेव तादृशाय नमो नमः।। ४१।।

पदच्छेद:-
तव तत्त्वं न जानामि कीदृशः असि महेश्वर।यादृशः असि महादेव तादृशाय नमः नमः।।

अन्वयः-
हे महेश्वर, त्वं कीदृशः असि? तव तत्त्वम् (अहं) न जानामि महादेव (त्वं) यादृशः असि तादृशाय (तुभ्यं) नमः नमः।। ४१।।

सरलार्थः -
हे महेश्वर त्वं कीदृशः असि इति अहं न जानामि।तव तत्त्वं न जानामि।यथा त्वम् असि, तादृशाय तुभ्यं वारं वारं नमामि।४१


शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=तव_तत्त्वं_न...&oldid=6193" इत्यस्माद् प्रतिप्राप्तम्