मूलम्
तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः।
परिच्छेतुं यातावनिलमनलस्कन्धवपुषः।।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्।
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति।। १०।।

पदच्छेदः-
तव ऐश्वर्यं यत्नाद् यद् उपरि विरिञ्चिः हरिः अधः।परिच्छेतुं यातौ अनलम् अनलस्कन्धवपुषः।।
ततः भक्ति-श्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्।स्वयं तस्थे ताभ्यां तव किम् अनुवृत्तिः न फलति।।

अन्वयः-
हे गिरिश, अनलस्कन्धवपुषः तव ऐश्वर्यं परिच्छेतुं यत्नाद् यद् उपरि विरिञ्चिः हरिः अधः यातौ अनलम् ।ततः ताभ्यां भक्ति-श्रद्धा-भरगुरु-गृणद्भ्यां यत् स्वयं तस्थे (तत्) तव अनुवृत्तिः न फलति किम्?।। १०।।

सरलार्थः-
हे गिरिश, तव देहः तेजोमयः।तस्य परिमाणं गणयितुं ब्रह्मदेवः उपरि गतः, विष्णुः च अधः गतः।तथापि तव परिमाणं गणयितुं तौ न शक्तवन्तौ। अनन्तरं भक्तिभरेण श्रद्धाभरेण च तौ तव स्तुतिं कृत्वा स्थितौ।तव अनुसरणं न फलति किम्? १०

शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=तवैश्वर्यं_यत्नाद्...&oldid=6165" इत्यस्माद् प्रतिप्राप्तम्