मूलम्
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्।
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।।
अभव्यानामस्मिन् वरद रमणीयामरमणीं।
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः।। ४।।

पदच्छेदः-
तव ऐश्वर्यं यत् तद् जगद्-उदय-रक्षा-प्रलयकृत्।त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।।
अभव्यानाम् अस्मिन् वरद रमणीयाम् अरमणीं।विहन्तुं व्याक्रोशीं विदधते इह एके जडधियः।। ४।।

अन्वय:-
हे वरद, जगद्-उदय-रक्षा-प्रलयकृत्, त्रयीवस्तु, गुणभिन्नासु तिस्रुषु तनुषु व्यस्तं तव यत् ऐश्वर्यं, तद् विहन्तुम् इह एके जडधियः अस्मिन् (ऐश्वर्ये)अभव्यानाम् रमणीयाम् , (साधूनाम्) अरमणीं व्याक्रोशीं विदधते ।। ४।।

सरलार्थः -
हे वरद, तव ऐश्वर्यं जगतः उदयं करोति, रक्षां करोति, प्रलयं चापि करोति। एतद् ऐश्वर्यं वेदत्रयस्य विषयवस्तु अस्ति।एतद् ऐश्वर्यं सात्विक-राजस-तामसभेदेन भिन्नेषु त्रिषु शरीरेषु विभक्तम् अस्ति।एतद् ऐश्वर्यं नाशयितुं केचन मतिमन्दाः जनाः प्रयतन्ते।तदर्थं ते मूर्खाणां कृते रमणीयां परं साधूनां कृते अरमणीम् ऐश्वर्यनिन्दां कुर्वन्ति।४


शिवस्तोत्राणि शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=तवैश्वर्यं_यत्तद्...&oldid=6159" इत्यस्माद् प्रतिप्राप्तम्