तदभावो नाडीषु तच्छ्रुतेरात्मनि च।३.२.७
विषय:- १ तद्यत्रैतत्सुप्त: समस्त: सम्प्रसन्न: स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति। (छा.८.६.३)
२ ताभि: (नाडीभि:) प्रत्यवसृप्य पुरीतति शेते(बृ.२.१.१९)
३ तासु (नाडीषु) तदा भवति यदा सुप्त: स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति(कौषी.४.१९)
४ य एषोऽन्तर्हृदये आकाशस्तस्मिन् शेते (बृ.२.१.१७)
५ सता सोम्य तदा सम्पन्नो भवति, स्वम् अपीतो भवति(छा.६.८.१)
६ प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्।(बृ.४.३.२१)
विशय:- एतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानानि अथवा परस्परापेक्षया एकं सुषुप्तिस्थानम्?
पू.प.- भिन्नानि एतानि सुषुप्तिस्थानानि, एकार्थत्वात्।एकार्थानां परस्परापेक्षत्वं नास्ति यथा व्रीहियवादीनाम्।नाड्यादीनां सप्तमीनिर्देशेन एकार्थता स्पष्टा यथा ‘नाडीषु सृप्तो भवति’, ‘पुरीतति शेते’
वे.-ननु सता सोम्य तदा सम्पन्नो भवति इति वचने सप्तमीनिर्देशो नास्ति।
पू.प.- तथापि तत्र सप्तम्यर्थ: गम्यते।
वे.- कथम्?
पू.प.- वाक्यशेषात्।
१ अन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते।(छा.६.८.२) इति वाक्यशेष:।प्राणशब्देनात्र सत्पदार्थो ग्राह्य:, प्रकृतत्वात्।आयतनमिति सप्तम्यर्थ:।
२ वाक्यशेषे साक्षात्सप्तमीनिर्देशोऽपि वर्तते- ‘सति सम्पद्य न विदु: सति सम्पद्यामहे’ (छा.६.९.२) इति
सर्वत्र विशेषविज्ञानोपरमलक्षणं समानं सुषुप्तम्।अत: एकार्थत्वम्।अत: नाड्यादीनां विकल्पेन कदाचित् किञ्चित् स्थानं स्वापाय उपसर्पति।
वे.- तदभावो नाडीष्वात्मनि चेति।तस्याभाव: तदभाव: तच्छब्देन प्रकृतं स्वप्नदर्शनच ग्राह्यम्। स्वप्नदर्शनस्याभाव: इति सुषुप्तम्।नाडीषु आत्मनि चेति समुच्चय:।समुच्चयेन एतानि नाड्यादीनि स्थानानि स्वापाय उपसर्पति, न विकल्पेन। तत्र हेतु: तच्छ्रुते:।नाड्यादीनां सर्वेषां सुषुप्तिस्थानं विकल्पेन श्रुतम्।विकल्पे सति तेषां पक्षे बाध: स्यात्।
पूर्वपक्ष:- नाड्यादीनां विकल्पसद्भाव:, एकार्थत्वात्, व्रीहियवादिवत्।
नाड्यादीनाम् एकार्थत्वम्, समानविभक्तिकत्वात्, यथा व्रीहिभिर्यजेत यवैर्यजेत।३.२.७
वे.- यत्र एकविभक्तिकत्वं तत्र एकार्थत्वमिति नास्ति नियम:।‘प्रासादे पर्यङ्के शेते’ इत्यत्र प्रासादपर्यङ्कयो: एकविभक्तिकत्वमस्ति तथापि एकार्थत्वं नास्ति।एवमेव इहापि ‘नाडीषु पुरीतति ब्रह्मणि च स्वपिति’ इति नानार्थत्वम् एकविभक्तिकत्वेऽपि।
पू.प.- समानविभक्तिकत्वेऽपि नानार्थत्वं तदानीमेव कल्पनीयं यदा समुच्चयेन प्रतिपादनं विद्यते। प्रकृते नाड्यादीनां समुच्चयेन प्रतिपादनं नास्ति।
वे.- प्रकृते नाड्यादीनां समुच्चयेन प्रतिपादनं अस्ति- ‘तासु तदा भवति यदा सुप्त: स्वप्नं न कञ्चन पश्यति अथ अस्मिन् प्राणे एवैकधा भवति।(कौषी.४.१९)।एकवाक्योपादानात् सुषुप्तौ नाडीनां प्राणस्य च समुच्चय: गम्यते।प्राणस्य ब्रह्मत्वं ज्ञापितम्-‘प्राणस्तथानुगमात्’ (ब्र.सू.१.१.२८) इत्यत्र।
पू.प.- अस्तु अत्र समानविभक्तिकत्वानामपि नानार्थकत्वं, समुच्चयबलात्।यत्र सुषुप्तिस्थानत्वेन केवलं नाडीनां प्रतिपादनमस्ति (आसु तदा नाडीषु सृप्तो भवति।छा.८.६.३), तत्र नानार्थत्वं कथं सिद्ध्येत्?
वे.- अन्येषु वचनेषु नाडीभि: सह ब्रह्म समुच्चयेन उक्तम्।अस्मिन् वचने ब्रह्मण: प्रतिषेध: न कृत:।अत: सुषुप्तौ नाडीद्वारेण ब्रह्मणि एवावतिष्ठते इति प्रतीयते।
पू.प.- नातिमनोरममिदं स्पष्टीकरणम्।
वे.- भवतु।अपरमुच्यते।अत्र नाडीषु इति सप्तमी अधिकरणार्था।यदा नाडीद्वारा जीव: ब्रह्मोपसर्पति, तदा नाडीषु अपि स: सृप्त: भवति।यथा गङ्गाद्वारा सागरं गच्छन् गङ्गां गत: भवति एव।
पू.प.- ब्रह्मणि एव सृप्ति: विवक्षिता चेत् नाडीषु सृप्त: इति निर्देश: किमर्थम्?
वे.-नाडीस्तुत्यर्थम्।नाडीषु सृप्तो भवति, तं न कश्चन पाप्मा स्पृशति इति नाडी प्रशंसिता।
एवं प्रकारेण प्रदेशान्तरप्रसिद्धं ब्रह्म तथा नाड्य: इति एतेषां समुच्चय: समभिगम्यते।
पू.प.- पुरीतत् तथा ब्रह्म इति एतयो: समुच्चय: कथं शक्य:?
वे.-पुरीतत् इति हृदयपरिवेष्टनम् – य एषोऽन्तर्हृदय: आकाश:, तस्मिन् शेते’(बृ.२.१.१७) इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते ‘पुरीतति शेते’ इति श्रुत्योक्तम्।
पू.प.-आकाशे शेते इति वचनाद् ‘ब्रह्मणि शेते’ इति अर्थ: कथमिव ज्ञायते?
वे.- दहर उत्तरेभ्य: (ब्र.सू.१.३.१४)इत्यत्र हृदयाकाशस्य ब्रह्मत्वं साधितम्।एवं ब्रह्मपुरीततो: समुच्चय: सिद्ध्यति।
पू.प.- अस्तु एतत्।नाडीपुरीतत्समुच्चय: कथं सिद्ध्येत्?
वे.- ‘ताभि: प्रत्यवसृत्य पुरीतति शेते(बृ.२.१.१९) इति एकस्मिन् वाक्ये उभयो: उपादानं कृतम्।तत: नाडीपुरीततो: समुच्चय: सिद्ध्यति। एवमाहत्य श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि वर्णितानि – नाड्य:, पुरीतत्, ब्रह्म च।तत्र नाड्य: पुरीतत् द्वारमात्रम्।साक्षात् सुषुप्तिस्थानं ब्रह्म एव। अपरमपि विद्यते कारणं येन जीवस्य नाडीषु पुरीतति वा आधार: न स्यात्।
पू.प.- किं तत्?
वे. जीवस्य उपाधि: करणानि।करणानामाधार: पुरीतत्, नाड्य: वा।सुषुप्तौ करणानामेव उपसंहारो भवति।अत: करणरूपोपाधिं विना जीवस्य नाडीभि: सह पुरीतता सह वा सम्बन्धो न सम्भवति।स्वमहिमप्रतिष्ठितत्वात् जीवस्य ब्रह्मैव आधारो भवितुमर्हति।
पू.प.- जीवब्रह्मणो: आधाराधेयभावेन सम्बन्ध: स्वीक्रियते वा?
वे.- न । तादात्म्याभिप्रायेण।
पू.प.-किमत्र प्रमाणम्?
वे.- ‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा.६.८.१)स्वशब्दोऽत्र आत्मार्थक:।
वे.- सुषुप्तौ जीवो ब्रह्मस्वरूप: भवतीति किमर्थं विशिष्य उच्यते? स्वप्ने वा जागरिते वा जीवो ब्रह्मस्वरूप: नास्ति वा?
वे.- अस्ति।स्वप्नेऽपि जागरितेऽपि सुषुप्तेऽपि च जीव: ब्रह्मस्वरूप: अस्ति। स्वप्नजागरितयो: उपाधिसम्पर्क: भवति।तेन जीव: ब्रह्मभिन्न: इव भवति।तां दशामपेक्ष्य सुषुप्तौ स्वरूपापत्ति: उच्यते।अत एव सुषुप्ते जीव: कदाचित् सता सम्पद्यते, कदाचित् न इति सम्भवति। अपरापि एका युक्तिरत्र विद्यते।सुषुप्ते विशेषविज्ञानस्य उपशम: भवति।जीव: सता सम्पन्न: भवति चेदेव एतत् शक्यम्, एकत्वात्।एकत्वे विशेषविज्ञानं न सम्भवति।
पू.प.- किमत्र प्रमाणम्?
वे.- तत्केन कं विजानीयात्? (बृ. २.४.१४) नाडीषु पुरीतति वा शयानस्य विशेषविज्ञानाभावस्य कारणं वक्तुं न शक्यते – ‘यत्र वा अन्यदिव स्यात् तत्रान्येन अन्यत् पश्येत् (बृ.४.३.३१) इति श्रुते:।
पू.प.- नाड्यां पुरीतति वा शयानस्य विशेषविज्ञानं नास्ति, अतिदूरत्वात्। वे.- अतिदूरत्वं विशेषविज्ञानाभावस्य कारणं स्याद् यदि जीव: परिच्छिन्न: स्यात्।यथा विष्णुमित्र: ग्रामान्तरं गत: सन् स्वगृहं न पश्यति।
जीवस्य ब्रह्मण: व्यतिरेक: उपाधिकृत: एव। अत: तत्र दूरत्वादिकारणं न सम्भवति।
पू.प.- उपाधिकृतमेव दूरत्वादि मन्तव्यम्।
वे-उपाधिस्तु सुषुप्तौ उपशान्त: एव भवति।अत: ‘सति सम्पन्न: न विजानाति’ इत्येव मन्तव्यम्।
पू.प.-नाड्यादीनां योऽयं समुच्चय: प्रतिपाद्यते, स तुल्यवान् वा?
वे.-न ।यतो हि ‘नाड्य: सुषुप्तिस्थानम्’ अथवा ‘पुरीतत् सुषुप्तिस्थानम्’ इति एतयो: विज्ञानयो: किमपि फलं न श्रूयते।न चैते विज्ञाने ‘कस्यचित् अपरस्य फलवत: अङ्गम्’ इति प्रतिपाद्यते।अत: ब्रह्म अनपायि सुप्तिस्थानम् इत्येव अस्माभि: प्रतिपाद्यते।
पू.प.- ‘ब्रह्म सुषुप्तिस्थानम्’ इत्यस्य विज्ञानस्यापि फलं किम्?
वे.-प्रयोजनद्वयं विद्यते-
१ सुषुप्ते जीवस्य ब्रह्मात्मत्वावधारणम्।
२ सुषुप्ते जीवस्य स्वप्नजागरितव्यवहारविमुक्तत्वावधारणम्।
तस्माद् आत्मैव सुप्तिस्थानम्।

अत: प्रबोधोऽस्मात्। ३.२.८
वे.- आत्मा इत्येव एकम् अनपायि सुषुप्तिस्थानम्।अत: एव अस्मात् आत्मन: प्रबोध: श्रुत्या प्रतिपादित:।कुत एतदागात् (बृ.२.१६) इत्यस्य प्रश्नस्य उत्तरमेवम् उक्तम्- ‘यथाग्ने: क्षुद्रा: विस्फुलिङ्गा व्युच्चरन्ति एवमेवैस्मादात्मन: सर्वे प्राणा:’(बृ.२.१.१६) ‘सत आगम्य न विदु: सत: आगच्छामहे (छा.६.१०.२) यदि नाड्य: च पुरीतत् च ब्रह्म चेति विकल्पेन सुप्तिस्थानं मन्यामहे तर्हि ‘कदाचित् नाडीभ्य:, कदाचित् पुरीतत: कदाचित् आत्मन: प्रतिबुद्ध्यते’ इति उत्तरम् अशासिष्यत्।अत: आत्मैव सुषुप्तिस्थानम्।

तृतीयाध्याये द्वितीय: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्
"https://sa.wikibooks.org/w/index.php?title=तदभावाधिकरणम्&oldid=5663" इत्यस्माद् प्रतिप्राप्तम्