प्र.- ज्योतिरधिकरणं साङ्गम् आरचयत।
उत्तरम् –
सन्दर्भ: - प्रथमाध्याये प्रथमपादे इदमधिकरणं विद्यते।अस्मिन् अधिकरणे एतानि सूत्राणि सन्ति –
ज्योतिश्चरणाभिधानात्।
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पण निगदात् तथा हि दर्शनम्।
भूतादिपादव्यपदेशोपपत्तेश्चैवम्।<br> उपदेशभेदान्नेति चेत् न उभयस्मिन्नप्यविरोधात्।

विषय:- अथ यदत: परो दिवो ज्योति: दीप्यते, विश्वत: पृष्ठेषु सर्वत: पृष्ठेषु अनुत्तमेषूत्तमेषु लोकेषु इदं वाव तद्यदिदमस्मिन्नन्त: पुरुषज्योति:।
विशय: - इह ज्योति:शब्देन आदित्यादिकं ज्योति: ग्राह्यम् अथवा परमात्मा?
पूर्वपक्ष: - इह ज्योति:शब्देन आदित्यादिकं ज्योति: एव ग्राह्यम्।यतो हि –
१ प्रकृतवाक्ये किमपि ब्रह्मलिङ्गं न विद्यते।
२ पूर्वमथवा उत्तरमपि किमपि ब्रह्मलिङ्गं न विद्यते।
३ दीप्यते ज्योति: इति एतयो: शब्दयो: प्रयोग: अस्ति ।एतौ शब्दौ प्रसिद्धतेजोविषये एव रूढौ।रूपादिरहितं ब्रह्म ‘दीप्यते’ इति वचनं न युक्तम्।
४ परि दिव: ज्योतिष: मर्यादा दर्शिता।एषा मर्यादा ज्योतिष: विद्यते, न तु ब्रह्मविषये। ब्रह्म तु सर्वगतम्।
५ विश्वत: पृष्ठेषु सर्वत: पृष्ठेषु अनुत्तमेषु लोकेषु उत्तमेषु लोकेषु इति ज्योतिष: बहुविधा: आधारा: उक्ता:।एतादृशा: आधारा: तेजस: सम्भवन्ति, न तु ब्रह्मण:।
६ तद् यद् इदम् अस्मिन् पुरुषे ज्योति: इति उदरस्थाग्निना सहास्य ज्योतिष: ऐक्यं प्रतिपादितम्।एतद् ऐक्यं ज्योतिष: विषये शक्यं, न ब्रह्मविषये।
७ अस्य ज्योतिष: उपासनाया: फलं दर्शयति श्रुति:।तत्र सुन्दररूपं तथा कीर्ति: इति एतयो: फलयो: समावेशोऽस्ति।एतादृशं क्षुद्रं फलं ब्रह्मोपासनाया: न सम्भवति।
एतेभ्य: कारणेभ्य: प्रकृते ज्योतिश्शब्देन तेज: ग्राह्यं न तु ब्रह्म।

उत्तरपक्ष:-
पूर्वपक्षस्य युक्तिवादस्य क्रमश: उत्तरम् एवम्-
१ अस्मिन् वाक्ये ब्रह्मलिङ्गं नास्तीति मान्यम्।तथापि पूर्ववाक्ये ब्रह्मलिङ्गं विद्यते।पूर्वतनवाक्ये चतुश्चरणात्मकं ब्रह्म निर्दिष्टम्।तत्र त्रिपादस्यामृतं दिवि इति उल्लेख: अस्ति।दिवि यद् ब्रह्म अस्ति तदस्मिन् विषयवाक्ये ‘दिव: परो ज्योति:’ इति परामृष्टम्।यदि एवं न मन्यामहे तर्हि प्रकृतहानं तथा अप्रकृतप्रक्रिया इति दोषौ भवत:।

२ एतस्माद् वाक्याद् उत्तरं शाण्डिल्यविद्या वर्णिता।तत्रापि ब्रह्मण: निर्देशो विद्यते। अत: पूर्ववाक्ये तथा उत्तरवाक्ये ब्रह्मलिङ्गं नास्तीति पूर्वपक्षेण यदुक्तं तद् नोचितम्।

३ दीप्यते इति शब्द: दीप्यमानस्य पदार्थस्य कारणे लक्षणया प्रयोक्तुं शक्यते।यथा ‘येन सूर्यस्तपति तेजसा इद्ध:’ ज्योति: इति शब्दस्य अर्थ: अस्ति ‘ अवभासकम्’। यथा ‘तस्य भासा सर्वमिदं विभाति’।ब्रह्म सर्वावभासकमस्ति। अत: ज्योति: इति शब्दस्य ब्रह्मपर: प्रयोग: सम्भवति।

४ यद्यपि ब्रह्म सर्वगतं तथापि उपासनार्थं तस्य प्रदेश: कल्प्यते।यथा आदित्ये ब्रह्म, चक्षुषि ब्रह्म हृदये ब्रह्म इति।अत: अत्र या द्युमर्यादा उक्ता सा उपासनार्थं ब्रह्मण: सम्भवति।

५ सर्वगतस्य ब्रह्मण: उपासनानिमित्तमाधार: अपि सम्भवति।अत: आधारकल्पना न ब्रह्मबाधिका।

६ उदस्थाग्ने: ब्रह्मणा सह ऐक्यं प्रतीकोपासनायां सम्भवति।उदरस्थाग्ने: ब्रह्मरूपेण उपासना युज्यते।

७ ब्रह्मोपासनाया: फलं द्विविधं सम्भवति।निर्गुणब्रह्मोपासनाया: फलं मोक्ष:।एतत् फलमेकविधम् उत्तमं च।प्रतीकोपासनाया: फलं सांसारिकम्। एतत् फलं बहुविधम् उच्चावचं च।
निर्णय: - अत्र ज्योति:शब्देन ब्रह्म एव ग्राह्यं नादित्यादिकं तेज:॥

ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह: १.१.
"https://sa.wikibooks.org/w/index.php?title=ज्योतिरधिकरणम्...&oldid=5670" इत्यस्माद् प्रतिप्राप्तम्