ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव:
स्पष्टीकुरुत- ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव:।
उ.-
सन्दर्भ:
अद्वैतसिद्धिकारेण ‘विमतं मिथ्या, जडत्वात् शुक्तिरजतवत्’ इति अनुमानं प्रतिपादितम्।तत्र विद्यमान: हेतु: जडत्वम्।तस्य लक्षणं कृतम् अज्ञानत्वम् इति।
इदानीं पूर्वपक्षोऽत्राक्षिपति यद् मोक्षदशायां न ज्ञेयं विद्यते, न वा ज्ञाता।तदा ज्ञानस्यापि अभाव: मन्तव्य: यतो हि ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव:। ज्ञातृज्ञेयाभावे तन्निरूप्यं ज्ञानमपि न सम्भवति।तथा सति केवलस्य (वृत्तिरहितस्य) आत्मन: अज्ञानत्वं (जडत्वं) प्राप्तम्।मिथ्यात्वाभाववति आत्मनि जडत्वरूपहेतो: सत्त्वात् व्यभिचारदोष:।
ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव: इति नियमं पूर्वपक्ष: एवं प्रतिपादयति-
१ यथा भोक्तृहीना भुजिक्रिया न प्रवर्तते, तथा ज्ञातृविना ज्ञानक्रियापि न प्रवर्तते।अत: ज्ञानकाले ज्ञाता अवश्यं स्वीकार्य:।
२ यत्र क्रियाजन्यत्वं तत्रैव सापेक्षत्वम्।ज्ञानं क्रियाजन्यं नास्ति अत: तत्र अन्यापेक्षा नास्ति इति मतं नोचितं यत:
अ) प्रागभाव: अनादि: अस्ति तथापि प्रतियोगिन: अपेक्षा अस्ति।
आ) जाति: अनादि:, तथापि व्यक्ते: अपेक्षा अस्ति।
इ) जीवब्रह्मणो: भेद: अनादि: तथापि तस्य भेदस्य अनुयोगिप्रतियोगिनो: अपेक्षा अस्ति।
ई) सत्ता अनादि: तथापि तस्या: कृते कर्तु: अपेक्षा अस्ति।
अत: ज्ञानं क्रियाजन्यं नास्ति चेदपि ज्ञातृज्ञानापेक्षमस्ति।
३ सत्ताया: कृते कर्तु: अपेक्षा कथमिति न शङ्कनीयं यतो हि ‘ब्रह्म अस्ति’ इति व्यवहारे कर्तरि लकार: (अस्-ति) दृश्यते।
४ ‘इदमहं जानामि’ इति व्यवहार: ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वे प्रमाणम्। इदमिति ज्ञानस्य विषय:, अहमिति ज्ञानस्य आश्रय:।यदि ज्ञानं ज्ञातृज्ञेयनिरपेक्षं स्यात् तर्हि एतादृश: प्रयोग: अपि न स्यात्।
५ ज्ञातुरर्थप्रकाश: ज्ञानम् इति विवरणकाराचार्यस्य वचनमपि ज्ञानस्य ज्ञातृज्ञेयापेक्षत्वे स्वीकृते एव सङ्गच्छते।
अत: ज्ञानस्य ज्ञातृज्ञेयनिरूप्यत्वं स्वभाव: इति पूर्वपक्ष:।
- - - - - - - - - - -
लघूत्तरप्रश्ना: