ज्ञाधिकरणम्
ज्ञोऽत एव।२.३.१८
पू.(काणादा:)- आत्मा आगन्तुकचैतन्य:, अथवा नित्यचैतन्यस्वरूप: इति सन्देहे कणादमतमेवं यदात्मा आगन्तुकचैतन्य:।आत्ममन:संयोगजमात्मन: चैतन्यम्।अग्निघटसंयोगाद् रोहितादिगुणवत्।
वे.- नित्यचैतन्यमात्मन: किमिति नाङ्गीक्रियते?
पू.- सुषुप्तमूर्च्छितग्रहाविष्टेषु जनेषु चैतन्य-लोपदर्शनात्।
वे.- एतेषु चैतन्यस्य लोप: भवतीत्यत्र किं प्रमाणम्?
पू.-(काणादा:) – ते पृष्टा: सन्त: वदन्ति, ‘न वयं किमपि अचैतयमहि’ इति।यदा स्वस्था: भवन्ति, तदा चेतयमाना: दृश्यन्ते।एवं कादाचित्कचैतन्याद् आगन्तुकचैतन्य: आत्मा।
वे.- अस्य परिहार: श्रुत्या एवोक्त:।सुषुप्तं प्रकृत्य ‘यद्वै तन्न पश्यति,पश्यन्वै तन्न पश्यति।न हि द्रष्टुर्दृष्टे: विपरिलोपो विद्यते, अविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद् विभक्तं यत्पश्येत् (बृ. ४.३.२३)।सुषुप्तादीनां विषयाभावादचेतयमानता, न तु चैतन्याभावात्।
वैशेषिकानां तर्कश्च श्रुतिविरुद्ध:।
पू.- कथम्?
वे.- ज्ञ: आत्मा अत: एव कारणात्।जीवस्य नित्यत्वसाधनाय य: हेतु: उक्त:, तस्मादेव हेतो: स: ज्ञानस्वरूप: इति सिद्ध्यति।नित्यत्वसाधनाय तस्य ब्रह्मणा सह अभेद: हेतुत्वेनोक्त:। तस्माद् एव कारणात् स: ज्ञ:।परस्य ब्रह्मण: चैतन्यस्वरूपं तु बहुत्र आम्नातम्-
१ विज्ञानमानन्दं ब्रह्म।(बृ.३.९.२८)
२ सत्यं ज्ञानमनन्तं ब्रह्म।(तैत्ति.२.१.१)
३ अनन्तरोऽबाह्य: कृत्स्न: प्रज्ञानघन एव।(बृ. ४.५.१३)
तदेव परं ब्रह्म जीव:।अत: जीवोऽपि नित्यचैतन्यस्वरूप:।अग्न्यौष्ण्यप्रकाशवत्।
पू.(काणादा:)- आत्मन: नित्यस्वरूपचैतन्ये घ्राणाद्यानर्थक्यप्रसङ्ग:।
वे.- गन्धादिविषयविशेषपरिच्छेदार्थानि घ्राणादीनि।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये तृतीय: पाद: