जानुनी ...रामोऽखिलं वपुः

मूलम्
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥९॥

पदच्छेदः
जानुनी सेतुकृत् पातु जङ्घे दशमुख-अन्तकः ।पादौ बिभीषण-श्रीदः पातु रामः अखिलं वपुः ॥९॥

अन्वयः
सेतुकृत् जानुनी पातु। दशमुख-अन्तकः जङ्घे (पातु)।बिभीषण-श्रीदः पादौ पातु। रामः अखिलं वपुः (पातु)॥९॥

सरलार्थः
सेतोः रचयिता रामः मम जानुद्वयं रक्षतु।रावणस्य अन्तकरः रामः मम जङ्घे रक्षतु। बिभीषणाय येन श्रीः दत्ता, सः रामः मम पादद्वयं रक्षतु।रामः मम सकलं शरीरं रक्षतु॥९

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
दशमुखान्तकः दशमुख-अन्तकः अकः सवर्णे दीर्घः।६.१.९९
रामोऽखिलं रामस् अखिलं ससजुषो रुः।८.२.६६

अतो रोरप्लुतादप्लुते।६.१.१११
आद्गुणः।६.१.८६
एङः पदान्तादति।६.१.१०७

समासविग्रहः ९
सेतुकृत्
सेतुं करोति इति।... उपपदमतिङ् ।२.२.१९

दशमुखान्तकः
दश मुखानि यस्य सः दशमुखः।...अनेकमन्यपदार्थे।२.२.२४
दशमुखस्य अन्तकः दशमुखान्तकः।...षष्ठी ।२.२.८

बिभीषणश्रीदः
श्रियं ददाति इति श्रीदः।... उपपदमतिङ् ।२.२.१९
बिभीषणस्य श्रीदः बिभीषणश्रीदः।...षष्ठी ।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्