जन्माद्यस्य यत:... अवतरणिका

प्र.- जन्माद्यस्य यत: इति अस्य सूत्रस्य भामतीकारेण कृताम् अवतरणिकां लिखत।
उ.-पूर्वतनसूत्रे (अथातो ब्रह्मजिज्ञासा।) ब्रह्मजिज्ञासा कर्तव्या इति उक्तम्।इदानीं यस्य जिज्ञासा कर्तव्या, तस्य लक्षणमेव नास्ति इति आक्षेपं मनसि कृत्वा तस्योत्तरं वक्तुमस्य सूत्रस्य आरम्भ: सूत्रकारेण कृत: इति भामतीकार: प्रतिपादयति।
भामतीकारेण ब्रह्मण: लक्षणं न सम्भवतीति पूर्वपक्ष: एवम् उत्थापित:-
१ यद् यद् जगद् अनुभूयते, तत् तत् सर्वं परिमितम् अशुद्धम् अबुद्धं विद्धवंसि।लक्ष्यं यद् ब्रह्म , तत्तु नित्यं शुद्धं बुद्धं मुक्तं चास्ति।एवं विरुद्धस्य जगत: आधारेण ब्रह्मण: लक्षणं न शक्यम्।
२ ब्रह्मण: नित्यत्वादिभि: धर्मै: अपि ब्रह्म लक्षणं न शक्यम्।यतो हि एते नित्यत्वादयो धर्मा: लोके अप्रसिद्धा:।न हि अप्रसिद्धं लक्षणं सम्भवति।
३ शब्देनापि ब्रह्मलक्षणं न सम्भवति यतो हि ब्रह्म इति शब्दस्य अर्थ: अप्रसिद्ध:।तस्य वाक्ये प्रयोग: ब्रह्मबोधं न जनयति।तस्मात् लक्षणाभावात् ब्रह्म न जिज्ञास्यम्।

भामतीकार: अस्य समाधानम् अग्रे वक्ति-
जगत: सह तादात्म्येन ब्रह्मण: लक्षणं न स्यात्।जगद्धर्माणाम् आधारेण ब्रह्मण: लक्षणं न स्यात्।तथापि जगदुत्पत्त्या ब्रह्मलक्षणं सम्भवति।अत: तदाधारेण एव ‘जन्माद्यस्य यत:’ इति ब्रह्मलक्षणं वक्तुं शक्यते।
.................................................................................

भामत्यां लघूत्तरप्रश्ना: