जडत्वहेतुविषये आक्षेपा:

प्र.- जडत्वहेतुविषये आक्षेपा: के?
उ.-
विमतं मिथ्या, जडत्वात् इति अनुमानम् अद्वैतसिद्धिकारेण प्रतिपादितम्। तत्र जडत्वहेतुविषये प्रतिपक्षेण केचन आक्षेपा: उद्भाविता:, त एवम्-
जडत्वस्य त्रय: अर्था: सम्भवन्ति,-
अज्ञातृत्वम् २ अज्ञानत्वम् ३ अनात्मत्वम्
एतेषु क: अर्थ: सिद्धान्ते अपेक्षित:?
जडत्वं नाम अज्ञातृत्वम् इति प्रथमे अर्थे स्वीकृते अहंपदवाच्ये अन्त:करणवृत्तिविशिष्टे चैतन्ये जडत्वं प्रसक्तं भवति।अन्त:करणविशिष्टं चैतन्यं ज्ञातृपदेन उच्यते, न अन्त:करणमात्रं, न वा चैतन्यमात्रम्।अत: चैतन्ये अज्ञातृत्वम् आपततितम्।अज्ञातृत्वं नाम जडत्वं चेत् चैतन्ये जडत्वहेतु: प्राप्त:।न तु चैतन्ये मिथ्यात्वरूपं साध्यम् अस्ति।एवं साध्याभाववति चैतन्ये जडत्वहेतो: अभावात् व्यभिचारी अयं हेतु:।

‘अहंपदवाच्यं शुद्धचैतन्यम्’ इत्यपि न युज्यते वक्तुम्। तत्र ज्ञातृता नास्ति इति सिद्धान्तिन: मतम्। तेन तत्र जडत्वं प्रसक्तम्। तत्र मिथ्यात्वरूपं साध्यं नास्ति परं जडत्वरूप: हेतु: प्राप्त:। साध्याभाववृत्ति: हेतु: व्यभिचारी भवति।
जडत्वं नाम अज्ञानत्वमिति द्वितीय: अर्थ: सिद्धान्ते अभिप्रेत: वा?अज्ञानं नाम ज्ञानाभाव: अथवा ज्ञानभेद:।ज्ञानं च अन्त:करणपरिणामविशेष:, न चैतन्यमात्रं न वा वृत्तिमात्रम्। अत: चैतन्ये ज्ञानभेद: प्राप्त:। ज्ञानभेद: जडत्वम्। अत: चैतन्ये जडत्वरूप: हेतु: स्थित:।तथापि चैतन्ये मिथ्यात्वरूपं साध्यं नास्ति। एवं साध्याभाववति चैतन्ये पुन: जडत्वरूपहेतो: सत्त्वात् व्यभिचारी हेतु: जात:।

अनात्मत्वं जडत्वमिति चेत् तस्य ज्ञानाय आत्मत्वज्ञानम् आवश्यकम्।किं नाम आत्मत्वम्? जाति: तु न सम्भवति, यतो हि व्यक्तेरभेद: जातिबाधक:। एकस्य एव आत्मन: जाति: न सम्भवति।
‘शुद्धचैतन्यं यद्यपि एकं तथापि अन्त:करणविशिष्टचैतन्यानि नाना सन्ति अत: आत्मत्वजाति: सम्भवति’ इति वचनमपि न युक्तम्।अन्त:करणचैतन्येषु यदि आत्मत्वजाति: सिद्ध्यति, तर्हि तेषाम् अनात्मत्वं न सम्भवति।अनात्मत्वं जडत्वम्। अत: तेषु जडत्वमपि न स्यात्। परन्तु तेषु सिद्धान्तमते मिथ्यात्वम् अस्ति। अत: स्वरूपासिद्धदोषग्रस्तोऽयं हेतु:।
‘आत्मत्वं नाम आनन्द:’ इति अपि स्वीकर्तुं न शक्यते।वैषयिक: आनन्द: अप्यानन्द एव। तत्र आत्मत्वं स्यात्। तत: अनात्मत्वरूपं जडत्वं तत्र न भवति। मिथ्यात्वरूपं साध्यं तु विषयानन्दे भवति एव। एवं साध्यवदवृत्तित्वं हेतो:।स च स्वरूपासिद्धि: नाम दोष:।
एवं जडत्वहेतुविषये आक्षेपा: पूर्वपक्षेण कृता:।

लघूत्तरप्रश्ना: