जडत्वं नाम अज्ञानत्वम्

प्र.- ‘जडत्वं नाम अज्ञानत्वम् ’ चर्चां कुरुत।
उ.-
सन्दर्भ:- विमतं मिथ्या, जडत्वात् इति अनुमानं सिद्धान्तेन प्रतिपादितम्।तत्र जडत्वहेतो: अर्थ: अज्ञानत्वम् इति स्वीकृत:।अस्मिन् अर्थे पूर्वपक्षेण केचन आक्षेपा: उद्भाविता:।
आक्षेप:१-
जडत्वं नाम अज्ञानत्वमिति द्वितीय: अर्थ: सिद्धान्ते अभिप्रेत: वा?अज्ञानं नाम ज्ञानाभाव: अथवा ज्ञानभेद:।ज्ञानं च अन्त:करणपरिणामविशेष:, न चैतन्यमात्रं न वा वृत्तिमात्रम्। अत: चैतन्ये ज्ञानभेद: प्राप्त:। ज्ञानभेद: जडत्वम्। अत: चैतन्ये जडत्वरूप: हेतु: स्थित:।तथापि चैतन्ये मिथ्यात्वरूपं साध्यं नास्ति। एवं साध्याभाववति चैतन्ये पुन: जडत्वरूपहेतो: सत्त्वात् व्यभिचारी हेतु: जात:।
समाधानम्-
अस्मन्मते अर्थप्रकाश: ज्ञानम्।वृत्त्युपलक्षितमात्रचैतन्यस्य ज्ञानरूपेण अङ्गीकार: क्रियते, न तु वृत्तिविशिष्टस्य चैतन्यस्य।अत: ‘चैतन्यमात्रे ज्ञानभेद:’ इति उक्तदोष: नास्ति।मोक्षावस्थायामपि एतादृशं चैतन्यं विद्यते एव।

आक्षेप:२
एवं चेद् मोक्षावस्थायामपि कस्यचिद् विषयस्य सत्ता मन्तव्या।अन्यथा मोक्षे विषयबाधे सति ज्ञानस्यापि बाधो मन्तव्य:।यतो हि यथा अभाव: सदा सप्रतियोगिक: भवति, यथा इच्छा सदा सविषया भवति तथा ज्ञानं सदा सविषयं भवति।निर्विषया इच्छा नोपलभ्यते।
समाधानम्-
निर्विषया इच्छा नोपलभ्यते,यतो हि इच्छा तथा इच्छाविषययो: मिथ: सम्बन्ध: इति एतद् द्वयमपि आध्यासिकम्।ज्ञानं ज्ञानविषययो: सम्बन्ध: इति एतयो: तथा समसत्ताकत्वं नास्ति।ज्ञानविषययो: सम्बन्ध: आध्यासिक:। ज्ञानं पारमार्थिकम्। अत: ज्ञानविषययो: सम्बन्धाभावेऽपि ज्ञानं तिष्ठति।

आक्षेप:३ -
निर्विषयं ज्ञानं मोक्षे तिष्ठति चेत् आनन्दस्य ज्ञानं न स्यात्। यदि आनन्दभानं न भवति तर्हि आनन्दावाप्ति: पुरुषार्थ: एव न भविष्यति।यस्य आनन्दस्य भानमेव न भवति, स: आनन्द: पुरुषार्थरूप: कथमिव स्यात्?
समाधानम्-
आनन्दस्य ज्ञानमिति नैव स्वीक्रियते। मोक्षदशायाम् आनन्द: एव ज्ञानम्।

आक्षेप:४
मोक्षदशायां शुद्धचैतन्यं भवता अङ्गीक्रियते। तत्र ज्ञातृताधर्म: नास्ति।ज्ञातृता नास्ति चेद् ज्ञानं कथमिव स्यात्?भोक्ता नास्ति चेद् भोजनक्रिया न सम्भवति।
समाधानम्-
भोजनं क्रिया। सा उत्पाद्या। अत: तत्र कश्चन भोक्ता अनिवार्य:।ज्ञानं न क्रिया। ज्ञानं नित्यम् अत: तत्र ज्ञातु: आवश्यकता नास्ति।ज्ञातृनिरपेक्षमेव ज्ञानं सम्भवति, तस्य अजन्यत्वात्।

आक्षेप:५
यद् अजन्यं तद् अनपेक्षम् इति व्याप्तिरेव न सम्भवति।प्रागभाव: अनादि:,तथापि स: प्रतियोगिनमपेक्षते।जाति: नित्या तथापि सा व्यक्तिमपेक्षते।जीवेशभेद: अनादि: तथापि स: जीवेशरूपौ अनुयोगिप्रतियोगिनौ अपेक्षते।
समाधानम्-

दीर्घोत्तरप्रश्ना: