धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता॥७६
जातीकटुकपूगानां लवङ्गस्य फलानि च।कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा। तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च॥७७

पदच्छेदः -
धार्याणि आस्येन वैशद्यरुचिसौगन्ध्यम् इच्छता॥७६
जातीकटुकपूगानां लवङ्गस्य फलानि च।कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा। तथा कर्पूरनिर्यासः सूक्ष्म-एलायाः फलानि च॥७७

अन्वयः -
वैशद्य-रुचि-सौगन्ध्यम् इच्छता जातीकटुकपूगानां लवङ्गस्य फलानि च कक्कोलस्य फलं तथा ताम्बूलस्य शुभं पत्रं तथा कर्पूरनिर्यासः च सूक्ष्म-एलायाः फलानि आस्येन धार्याणि।

सरलार्थः -
यः वैशद्यं, रुचिं, सौगन्ध्यम् इच्छति,सःजातीकटुकपूगानां फलानि, लवङ्गस्य फलानि, कक्कोलस्य फलं तथा ताम्बूलस्य शुभं पत्रं तथा कर्पूरनिर्यासः च सूक्ष्म-एलायाः फलानि च इति एतत् मुखेन धारणीयम्।

आयुर्वेददीपिका
कटुकं लताकस्तूरी। यदि अपि लवङ्गस्य वृन्तम् अभिप्रेतं तथा अपि बहूनां फलस्य ग्राह्यत्वात् छत्रिणो गच्छन्ति इति न्यायेन सामान्येन फलम् इति उक्तम्॥७६-७७

अरुन्धती पद्धतिः
जातीकटुकपूगानां लवङ्गस्य फलानि च इति सूत्रवचनम्।लवङ्गस्य तु वृन्तम् उपयुज्यते, न फलम्।
सत्यम्।तथापि अन्येषां फलानि उपयुज्यन्ते।अतः फलानि इति सर्वेषामेव सामान्यतः उल्लेखः कृतः। ‘छत्रिणः गच्छन्ति’ इति अजहत्स्वार्थलक्षणायाः उदाहरणम्।मार्गेण छत्रधारिणः अपि गच्छन्ति, छत्रविरहिणः अपि गच्छन्ति।छत्रधारिणां सङ्ख्या अधिका अस्ति।तदा छत्रिणः गच्छन्ति इति वाक्यप्रयोगः भवति।अस्मिन् प्रयोगे छत्रिणः इति पदेन छत्रधारिणां बोधः विवक्षितः, तथा छत्रविरहिणामपि बोधः विवक्षितः।छत्रिपदस्य स्वस्य अर्थः न त्यक्तः (अजहत्सवार्थः)।अतः एषा जहत्स्वार्थलक्षणा।


हन्वोर्बलं स्वरबलं वदनोपचयः परः।स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा॥७८
न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्।न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च॥७९
न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च।परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्॥८०
नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते।न खालित्यं न पालित्यं न केशाः प्रपतन्ति च॥८१
बलं शिरःकपालानां विशेषेणाभिवर्धते।दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च॥८२
इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम्।निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्॥८३
न कर्णरोगा वातोत्था न मन्याहनुसङ्ग्रहः।नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्॥८४
स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्।भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा॥८५
तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते।प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्॥८६
स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्।त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः॥८७
न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः।विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्॥८८
सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः।भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च॥८९

पदच्छेदः -
हन्वोः बलं स्वरबलं वदन-उपचयः परः।स्यात् परं च रसज्ञानम् अन्ने च रुचिः उत्तमा॥७८
न च अस्य कण्ठशोषः स्यात् न ओष्ठयोः स्फुटनाद् भयम्।न च दन्ताः क्षयं यान्ति दृढमूलाः भवन्ति च॥७९
न शूल्यन्ते न च अम्लेन हृष्यन्ते भक्षयन्ति च।परान् अपि खरान् भक्ष्यान् तैलगण्डूषधारणात्॥८०
नित्यं स्नेह-आर्द्रशिरसः शिरःशूलं न जायते।न खालित्यं न पालित्यं न केशाः प्रपतन्ति च॥८१
बलं शिरःकपालानां विशेषेण अभिवर्धते।दृढमूलाः च दीर्घाः च कृष्णाः केशाः भवन्ति च॥८२
इन्द्रियाणि प्रसीदन्ति सुत्वक् भवति च आननम्।निद्रालाभः सुखं च स्यात् मूर्ध्नि तैलनिषेवणात्॥८३
न कर्णरोगाः वातोत्थाः न मन्याहनुसङ्ग्रहः।न उच्चैः श्रुतिः न बाधिर्यं स्यात् नित्यं कर्णतर्पणात्॥८४
स्नेह्-अभ्यङ्गात् यथा कुम्भः चर्म स्नेहविमर्दनात्।भवति उपाङ्गात् अक्षः च दृढः क्लेशसहः यथा॥८५
तथा शरीरम् अभ्यङ्गात् दृढं सुत्वक् च जायते।प्रशान्तमारुत-आबाधं क्लेशव्यायामसंसहम्॥८६
स्पर्शने अभ्यधिकः वायुः स्पर्शनं च त्वक्-आश्रितम्।त्वच्यः च परम् अभ्यङ्गः तस्मात् तं शीलयेत् नरः॥८७
न च अभिघात-अभिहतं गात्रम् अभ्यङ्गसेविनः।विकारं भजते अत्यर्थं बलकर्मणि वा क्वचित्॥८८
सुस्पर्श-उपचित-अङ्गः च बलवान् प्रियदर्शनः।भवति अभ्यङ्गनित्यत्वात् नरः अल्पजरः एव च॥८९

अन्वयः -
तैल-गण्डूष-धारणात् हन्वोः बलं, स्वरबलं, परः वदन-उपचयः,परं च रसज्ञानम्, अन्ने च उत्तमा रुचिः स्यात्।
अस्य च कण्ठ-शोषः न स्यात्, ओष्ठयोः स्फुटनाद् भयं न स्यात्, दन्ताः क्षयं न च यान्ति, दृढमूला च भवन्ति, अम्लेन च न हृष्यन्ते,परान् अपि खरान् भक्ष्यान् च भक्षयन्ति, न शूल्यन्ते।
नित्यं मूर्ध्नि तैलनिषेवणात् स्नेह-आर्द्र-शिरसः शिरःशूलं न जायते ,न खालित्यं जायते, न पालित्यं जायते।केशाः च न प्रपतन्ति॥शिरःकपालानां बलं विशेषेण अभिवर्धते।केशाः दृढमूलाः च दीर्घाः च कृष्णाः च भवन्ति।इन्द्रियाणि प्रसीदन्ति, आननं च सुत्वक् भवति,निद्रालाभः स्यात्, सुखं च स्यात् ॥८३
नित्यं कर्णतर्पणात् कर्णरोगाः न, वातोत्थाः (रोगाः) न, मन्याहनुसङ्ग्रहः न, उच्चैः श्रुतिः न बाधिर्यं न स्यात् ॥८४
यथा कुम्भः स्नेह्-अभ्यङ्गात्, चर्म स्नेहविमर्दनात्, अक्षः च उपाङ्गात् दृढः भवति तथा शरीरम् अभ्यङ्गात् दृढं क्लेशसहं, सुत्वक् प्रशान्तमारुत-आबाधं क्लेशव्यायामसंसहं च जायते।स्पर्शने वायुः अभ्यधिकः, स्पर्शनं च त्वक्-आश्रितम्।
अभ्यङ्गः च परम् त्वच्यः तस्मात् नरः तं शीलयेत् ॥ अभ्यङ्गसेविनः च अभिघात-अभिहतं गात्रम् बलकर्मणि वा क्वचित् अत्यर्थं विकारं न भजते ॥८८
अभ्यङ्गनित्यत्वात् नरः सुस्पर्श-उपचित-अङ्गः च बलवान् प्रियदर्शनः अल्पजर एव च भवति ॥८९

सरलार्थः -
तैल-गण्डूष-धारणात् हन्वोः बलं, स्वरबलं, परः वदन-उपचयः,परं च रसज्ञानम्, अन्ने च उत्तमा रुचिः स्यात्।तैलगण्डूषं कुर्वाणस्य जनस्य कण्ठ-शोषः न स्यात्, ओष्ठयोः स्फुटनाद् भयं न स्यात्, दन्ताः क्षयं न यान्ति, ते दृढमूला च भवन्ति, अम्लेन च न हृष्यन्ते,परान् अपि खरान् भक्ष्यान् च भक्षयन्ति, न शूल्यन्ते।
नित्यं मूर्ध्नि तैलनिषेवणात् स्नेह-आर्द्र-शिरसः शिरःशूलं न जायते ,न खालित्यं जायते, न पालित्यं जायते।केशाः च न प्रपतन्ति॥शिरःकपालानां बलं विशेषेण अभिवर्धते।केशाः दृढमूलाः च दीर्घाः च कृष्णाः च भवन्ति।इन्द्रियाणि प्रसीदन्ति, आननं च सुत्वक् भवति,निद्रालाभः स्यात्, सुखं च स्यात् ।नित्यं कर्णतर्पणात् कर्णरोगाः न भवन्ति, वातोत्थाः रोगाः न भवन्ति, मन्याहनुसङ्ग्रहः न भवति, उच्चैः श्रुतिः न भवति, बाधिर्यं च न स्यात्।यथा कुम्भः स्नेह्-अभ्यङ्गात्, चर्म स्नेहविमर्दनात्, अक्षः च उपाङ्गात् दृढः भवति तथा शरीरम् अभ्यङ्गात् दृढं क्लेशसहं, सुत्वक् भवति।शरीरे वातरोगाः शाम्यन्ति।तत् क्लेशसहं व्यायामसहं च भवति। स्पर्शने वायुः अभ्यधिकः भवति।स्पर्शनं च त्वक्-आश्रितं भवति।अभ्यङ्गः च त्वचः अत्यन्तं हितः। तस्मात् नरः अभ्यङ्गं शीलयेत् ॥ अभ्यङ्गसेविनः गात्रे यदि आघातः भवति, तर्हि, तत् शरीरम् अत्यर्थं विकारं न भजते ।च अभिघात-अभिहतं गात्रम् बलकर्मणि अपि तत् शरीरम् अत्यर्थं विकारं न भजते।अभ्यङ्गनित्यत्वात् नरस्य स्पर्शः शोभनः भवति, तस्य अङ्गानाम् उपचयः भवति।सः बलवान् प्रियदर्शनः च भवति। तस्य जरा मन्दा भवति ॥८९

आयुर्वेददीपिका
हन्वोः इत्यादि स्नेहगण्डूषगुणाः। नित्यम् इत्यादि निषेवणात् इति-अन्तं शिरस्-तैलगुणाः। मूर्ध्नि तैलनिषेवणात् इति उक्ते अपि स्नेह-आर्द्रशिरस इति यत् करोति, तेन यावता तैलेन आर्द्रशिराः स्यात् तावत् मूर्ध्नि तैलं सेव्यम् इति दर्शयति। स्नेह-अभ्यङ्गात् इत्यादि। उपाङ्गस्नेहदानात्, अक्षः रथस्य चक्रनिबन्धनकाष्ठम्। बहुदृष्टान्तकरणं तु कस्यचित् किञ्चित् प्रसिद्धं भविष्यति न हि सर्वं सर्वत्र प्रसिद्धम् इति अभिप्रायेण; यदि वा स्नेहस्य नानाकार्यकरणशक्ति-उपदर्शनार्थम्। स्पर्शने स्पर्शनेन्द्रिये वायुः अधिकः; वैद्यकदर्शने पाञ्चभौतिकत्वात् इन्द्रियस्य इति अर्थः। त्वच्यः च परम् अभ्यङ्ग इति चकारात् वातहितः च, एतेन आश्रितस्य वात-अधिकस्य स्पर्शनेन्द्रियस्य, आश्रयस्य च त्वचो हित इति उक्तं भवति। बलेन सम्पाद्यं कर्म बलकर्म गुरुभारहरणादि॥७८-८९

अरुन्धती पद्धतिः

प्रतिपाद्यविषयः ग्रन्थः
स्नेहगण्डूषगुणाः हन्वोः बलम्... तैलगण्डूषधारणात्।
शिरस्तैलगुणाः शिरःशूलं न जायते...सुखं च स्यात् मूर्ध्नि तैलनिषेवणात्।
कर्णतर्पणगुणाः न कर्णरोगाः...न बाधिर्यं स्यात् नित्यं कर्णतर्पणात्।
अभ्यङ्गगुणाः स्नेह्-अभ्यङ्गात्... नरः अल्पजरः एव च।
दृष्टान्ताः दार्ष्टान्तिकः
१ यथा स्नेह-अभ्यङ्गात् कुम्भः दृढः जायते

२ यथा चर्म स्नेहविमर्दनात् दृढं जायते।
३ यथा रथचक्रकाष्ठम् उपाङ्गस्नेहनात् दृढं जायते

तथा अभ्यङ्गात् शरीरम् दृढं सुत्वक् च जायते।
वातः अभ्यङ्गः वातनियामकः
वातस्य आश्रयः स्पर्शनेन्द्रियम् एवम् उभयथा अभ्यङ्गः स्पर्शनेन्द्रियस्य हितकरः
स्पर्शनेन्द्रियस्य आश्रयः त्वक् अभ्यङ्गः त्वचः हितकरः

बलकर्मेति समासः कथं विग्रहणीयः?चक्रपाणिः सूचयति -
बलेन सम्पाद्यं बलसम्पाद्यम् इति तृतीयातत्पुरुषः।बलसम्पाद्यं कर्म बलकर्म।मध्यमपदलोपः समासः।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.७६-८९&oldid=7182" इत्यस्माद् प्रतिप्राप्तम्