वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्॥५६
प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले।नस्यकर्म यथाकालं यो यथोक्तं निषेवते॥५७
न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते।न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः॥५८
न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः।मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः॥५९
पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति।सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः॥६०
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्।मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्॥६१
सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्।न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः॥६२
जीर्यतश्चोत्तमाङ्गेषु जरा न लभते बलम्।६३

पदच्छेदः -
वर्षे वर्षे अणुतैलं च कालेषु त्रिषु ना चरेत्॥५६
प्रावृट्शरद्वसन्तेषु गतमेघे नभस्-तले।नस्यकर्म यथाकालं यः यथोक्तं निषेवते॥५७
न तस्य चक्षुः न घ्राणं न श्रोत्रम् उपहन्यते।न स्युः श्वेताः न कपिलाः केशाः श्मश्रूणि वा पुनः॥५८
न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः।मन्यास्तम्भः शिरःशूलम् अर्दितं हनुसङ्ग्रहः॥५९
पीनस-अर्धावभेदौ च शिरःकम्पः च शाम्यति।सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः॥६०
नावनप्रीणिताः च अस्य लभन्ते अभ्यधिकं बलम्।मुखं प्रसन्न-उपचितं स्वरः स्निग्धः स्थिरः महान्॥६१
सर्वेन्द्रियाणां वैमल्यं बलं भवति च अधिकम्।न च अस्य रोगाः सहसा प्रभवन्ति उर्ध्वजत्रुजाः॥६२
जीर्यतः च उत्तमाङ्गेषु जरा न लभते बलम्।६३

अन्वयः -
वर्षे वर्षे प्रावृट्शरद्वसन्तेषु च त्रिषु कालेषु ना अणुतैलं चरेत्॥यः गतमेघे नभस्-तले यथाकालं यथोक्तं नस्यकर्म निषेवते तस्य न चक्षुः न घ्राणं न श्रोत्रम् उपहन्यते।केशाः श्मश्रूणि वा पुनः न श्वेता न कपिलाः स्युः।केशाः च न प्रमुच्यन्ते, विशेषतः वर्धन्ते च ।मन्यास्तम्भः शिरःशूलम् अर्दितं हनुसङ्ग्रहः,पीनसः अर्धावभेदः च शिरःकम्पः च शाम्यति।अस्य नावनप्रीणिताः सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः च अभ्यधिकं बलं लभन्ते।मुखं प्रसन्न-उपचितं (भवति) स्वरः स्निग्धः स्थिरः महान् (भवति)। सर्वेन्द्रियाणां वैमल्यं बलं च अधिकम् भवति ।अस्य च उर्ध्वजत्रुजाः रोगाः सहसा न प्रभवन्ति ॥६२जीर्यतः च उत्तमाङ्गेषु जरा बलं न लभते

सरलार्थः
प्रतिवर्षं प्रावृषि, शरदि, तथा वसन्ते त्रिषु कालेषु नरः अणुतैलं चरेत्॥यः निरभ्रगगने सति यथाकालं यथोक्तं नस्यकर्म निषेवते,तस्य न चक्षुः न घ्राणं न श्रोत्रम् उपहन्यते।केशाः श्मश्रूणि वा पुनः न श्वेता न कपिलाः स्युः।केशाः च न प्रमुच्यन्ते, विशेषतः वर्धन्ते च ।मन्यास्तम्भः शिरःशूलम् अर्दितं हनुसङ्ग्रहः, पीनसः अर्धावभेदः च शिरःकम्पः च शाम्यति।अस्य नावन-प्रीणिताः सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः च अभ्यधिकं बलं लभन्ते। मुखं प्रसन्नम् उपचितं च (भवति)स्वरः स्निग्धः स्थिरः महान् (भवति)। सर्वेन्द्रियाणां वैमल्यं बलं च अधिकम् भवति ।अस्य च उर्ध्वजत्रुजाः रोगाः सहसा न प्रभवन्ति ॥जीर्यतः च उत्तमाङ्गेषु जरा बलं न लभते

आयुर्वेददीपिका
धूमनस्ययोः नासाद्वारसामान्याद्धूमम् अनु नस्यं ब्रूते- वर्ष इत्यादि। अणूनां स्रोतसां हितम् इति अणुतैलं, तत् च अग्रे वक्ष्यमाणम्। शिरःकपालानाम् एव सिराः सन्धयः स्नायुकण्डराः च । उत्तमाङ्गेषु इति बहुवचनं शिरसोऽभ्यर्हितत्वात्; यदि वा जरा वलीपलित-आदिलक्षणा या सा उत्तमा प्रकर्षप्राप्ता अङ्गेषु मस्तक-आदिषु निषिध्यते॥५६-६२

अरुन्धती पद्धतिः
धूमप्रतिपादनाद् अनन्तरं नस्यप्रतिपादनम् अधिक्रियते।
कात्र सङ्गतिः?
निर्वाहैक्यसङ्गतिः अत्र द्रष्टव्या।धूमः नासाद्वारेण पीयते, तेनैव द्वारेण नस्यमपि दीयते। अतः धूमप्रतिपादनाद् अनन्तरं नस्यप्रतिपादनं सङ्गतम्।
सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः।नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्। अस्मिन् सूत्रे शिरःकपालानाम् इति विशेषणम्।सिराः, सन्धयः, तथा स्नायुकण्डराः इति त्रीणि विशेष्याणि।केन विशेष्येण सह शिरःकपालानाम् इति विशेषणस्य अन्वयः कार्यः?
शिरःकपालानाम् एव सिराः सन्धयः स्नायुकण्डराः च ।-चक्रपाणिः
किमत्र प्रमाणम्?
साहचर्यमेव अत्र प्रमाणम्।विशेष्ये श्रुते किमस्य विशेषणम् इति आकाङ्क्षा उत्पद्यते। निकटे वर्तमानेन विशेषणेन सा पूरणीया।
जीर्यतश्चोत्तमाङ्गेषु जरा न लभते बलम्।६३
इति सूत्रे उत्तमाङ्गशब्दस्य बहुवचनं प्रयुक्तम्।उत्तमाङ्गं शिरः।तत्तु एकमेव वर्तते।कथं बहुवचनप्रयोगः साधुः?
उत्तमाङ्गेषु इति बहुवचनं शिरसोऽभ्यर्हितत्वात्...।चक्रपाणिः
अस्य प्रश्नस्य अपरमेकं समाधानं वदति चक्रपाणिः-
यदि वा जरा वलीपलित-आदिलक्षणा या सा उत्तमा प्रकर्षप्राप्ता अङ्गेषु मस्तक-आदिषु निषिध्यते
अस्मिन् समाधाने सूत्रस्य अन्वयः चक्रपाणिना एवं कृतः -
जीर्यतः च उत्तमा जरा अङ्गेषु बलं न लभते ।६३
वृद्धत्वं प्रति गच्छतः नरस्य शरीरे वलयः प्रादुर्भवन्ति, चलनं मन्दं भवति,त्वग् रूक्षा भवति। शनैः शनैः एतानि जरालक्षणानि प्रकर्षं गच्छन्ति।एवम् उत्तमदशां प्रकर्षदशां प्राप्नोति जरा देहे। तथापि यदि नस्यशीलिनां नराणाम् मस्तकादिषु अवयवेषु सा जरा बलं न लभते।मस्तकादिषु तस्याः लक्षणानि न प्रादुर्भवन्ति इत्याशयः।
द्वयोः समाधानयोः तुलना एवम्-

उत्तमाङ्गेषु समाधानम्१ उत्तमाङ्गेषु समाधानम्२
सन्धिविग्रहः उत्तम-अङ्गेषु उत्तमा अङ्गेषु
समासः उत्तमम् अङ्गम् उत्तमाङ्गम्।कर्मधारयः नास्ति
विशेष्यविशेषणभावः उत्तमम् अङ्गम् उत्तमा जरा
अन्वयः उत्तमाङ्गेषु (शिरसि) जरा बलं न लभते उत्तमा जरा अङ्गेषु (मस्तकादिषु) बलं न लभते।
सङक्षेपतः उत्तमाङ्गम् इति शिरसः पर्यायशब्दः

।शिरः एकमस्ति, तथापि पूज्यमस्ति अतः बहुवचनम्।जरा शिरसि बलं न लभते इत्यर्थः

उत्तमा इति जराविशेषणम्।अन्यस्मिन् देहे प्रकर्षप्राप्ता अपि जरा मस्तक-इन्द्रिय-कपालादिषु अङ्गेषु बलं न लभते इत्यर्थः


चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.५६-६२&oldid=7184" इत्यस्माद् प्रतिप्राप्तम्