नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः। हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः॥१३०॥
सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक्। न सुखं, कारणं तस्माद्योग एव चतुर्विधः॥१३१॥

पदच्छेदः-
न इन्द्रियाणि न च एव अर्थाः सुख-दुःखस्य हेतवः। हेतुः तु सुखदुःखस्य योगः दृष्टः चतुर्विधः॥१३०॥
सन्ति इन्द्रियाणि सन्ति अर्थाः योगः न च न च अस्ति रुक्। न सुखं, कारणं तस्माद् योगः एव चतुर्विधः॥१३१॥

अन्वयः-
सुख-दुःखस्य हेतवः न इन्द्रियाणि न एव च अर्थाः।सुखदुःखस्य हेतुः तु चतुर्विधः योगः दृष्टः ॥१३०॥इन्द्रियाणि सन्ति, अर्थाः सन्ति, (तेषां मिथः)योगः च न अस्ति, (तदा) रुक् च न अस्ति,न सुखम् (अस्ति)। तस्मात् चतुर्विधः योगः एव (सुखदुःखस्य) कारणम् ॥१३१॥

सरलार्थः-
सुख-दुःखस्य हेतवः न इन्द्रियाणि सन्ति न एव च अर्थाः।सुखदुःखस्य हेतुः तु चतुर्विधः योगः दृष्टः ॥१३०॥इन्द्रियाणि सन्ति, अर्थाः सन्ति, तेषां मिथः योगः च न अस्ति, चेत् सुखदुःखरूपा वेदना न भवति।तस्मात् चतुर्विधः योगः एव सुखदुःखस्य कारणम् ॥१३१॥

आयुर्वेददीपिका
सम्प्रति सम्यग्योगस्य उपादेयताम् अयोगादीनां च हेयतां दर्शयितुं योगम् एव चतुर्विधं कारणत्वेन दर्शयन् आह न इन्द्रियाणि इत्यादि।ननु कथम् इन्द्रिय-अर्थयोः सुखदुःखकारणत्वेन उपलभ्यमानयोः अपि अकारणत्वम् इति आह सन्ति इत्यादि।योगः न च इति इन्द्रिय-अर्थयोः सम्बन्धः न च। न सुखम् इति च्छेदः। इन्द्रियार्थयोः योग-अभावे अकारणत्वेन, सति तु योगे कारणत्वेन, योग एव अन्वयव्यतिरेकाभ्यां कारणम् अवधार्यते इति भावः।

अरुन्धतीपद्धतिः –
सुखस्य हेतुः समयोगः, दुःखस्य हेतुः अयोगादित्रयम् इति गतसूत्रे प्रतिपादितम्।अतः समयोगः सेव्यः, अयोगादित्रयं त्याज्यम् इति प्राप्तम्।
अत्र उद्भवति आशङ्काः यद् इन्द्रियम् तथा तेषाम् अर्थाः सुखदुःखानां हेतवः सन्ति इति साक्षात् प्रतीयते।तथापि तेषां कारणत्वं नास्ति, चतुर्विधः योगः एव सुखदुःखहेतुः इति किमर्थम् मुनिः वदति ? स्वयं मुनिः एव अस्य प्रश्नस्य उत्तरं प्रकृतसूत्रे वदति।
कार्यकारणभावः अन्वयव्यतिरेकाभ्यां निश्चीयते।तत्सत्त्वे तत्सत्त्वम् अन्वयः। तदभावे तदभावो व्यतिरेकः।
तन्तुः अस्ति चेत् पटः भवति इति अन्वयः।तन्तवः न सन्ति चेत् पटः न भवति इति व्यतिरेकः।एवम् अन्वयव्यतिरेकाभ्यां निश्चितं भवति यत् तन्तुः पटस्य कारणम्।
‘अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य विनिश्चयः’ इति एतं न्यायम् आदाय अत्र मुनिः वदति, यत् योगः अस्ति चेत् सुखदुःखे भवतः।योगः नास्ति चेत् सुखदुःखे न भवतः।एवम् अन्वयव्यतिरेकाभ्यां निश्चितं यद् इन्द्रियार्थयोगः एव सुखदुःखानां कारणम् इति।

आयुर्वेददीपिका
अयं च योगः इन्द्रियार्थौ अधिकृत्य स्पष्टत्वेन उक्तः; तेन, प्रज्ञाकालयोः अपि बोद्धव्यः। एतत् च इन्द्रियम् अर्थं च अनुपादेयं कृत्वा चतुर्विधयोगस्य कारणत्वं योगानाम् एव हेयोपादेयत्व-उपदर्शनार्थं कृतम्॥१३०,१३१॥

अरुन्धतीपद्धतिः –
इन्द्रियाणि सुखदुःखानां कारणभूतानि न, अर्थाः सुखदुःखानां कारणभूतानि न, इन्द्रियार्थयोगः सुखदुःखानां कारणम् इति उक्तम्।
अत्र प्रश्नः उद्भवति यत् तुल्यन्यायेन प्रजापराधविषये अपि ‘योगः एव कारणम्’ इति मन्तव्यं न वा?यथा भ्रष्टा धीः दुःखस्य कारणं न, तया सह आत्मनः योगः दुःखस्य कारणम् इति किमर्थं न मन्तव्यम्?स्वस्था धीः सुखस्य कारणं न, तया सह आत्मनः योगः सुखस्य कारणम् इति किमर्थं नोच्यते?
तुल्यनायेन कालविषये अपि ‘योगः कारणम्’ इति वक्तव्यम्। हीनस्वलक्षणः कालः दुःखहेतुः न, हीनलक्षणेन कालेन आत्मनः योगः दुःखहेतुः इति वक्तव्यम्।कालस्य समः कालः सुखहेतुः न, समकालस्य आत्मना सह योगः सुखहेतुः इति वक्तव्यम्।
अस्य प्रश्नस्य उत्तरं चक्रपाणिः ब्रूते अयं च योगः इत्यादिना।सत्यमेतत्।योगः एव सर्वत्र सुखदुःखहेतुः।असात्म्येन्द्रियसंयोगविषये एतत् स्पष्टतया उक्तम्।तथापि प्रज्ञापराधविषये अपि कालविषये अपि तद् ग्राह्यम् एव।
चतुर्विधयोगस्य एव स्वास्थ्य-अस्वास्थ्य-हेतुत्वं किमिति महता आटोपेन प्रतिपाद्यते?

नात्मेन्द्रियं मनो बुद्धिं गोचरं कर्म वा विना। सुखदुःखं, यथा यच्च बोद्धव्यं तत्तथोच्यते॥१३२॥

पदच्छेदः-
न आत्मा-इन्द्रियं मनः बुद्धिं गोचरं कर्म वा विना। सुखदुःखं, यथा यत् च बोद्धव्यं तत् तथा उच्यते॥१३२॥

अन्वयः-
आत्मा-इन्द्रियं विना मनः विना बुद्धिं विना गोचरं विना कर्म वा विना सुखदुःखं न (भवति)। यत् यथा च बोद्धव्यं तत् तथा उच्यते॥१३२॥

सरलार्थः-
आत्मा इन्द्रियं मनः बुद्धिः अर्थः, अदृष्टकर्म इति एतेषाम् अभावे न सुखं भवति, न दुःखं भवति।(अस्मिन् शास्त्रे)यः पदार्थः यथा ज्ञातव्यः तथा उच्यते।

आयुर्वेददीपिका
परमार्थतः तु आत्म-इन्द्रिय-मनः-बुद्धि-अर्थ-अदृष्टानि एव तथायुक्तानि सुखदुःखकारणानि इति दर्शयन् आह- नात्मेत्यादि। गोचरः इन्द्रियार्थः। कर्म अदृष्टम्। तत्र आत्मानं विना न लोष्टादौ सुखदुःखे भवतः। इन्द्रियार्थ-आदीनां च सुखदुःखकारणत्वं स्पष्टम् एव। कर्म अपि च शुभं सुखकारणम्, अशुभं च दुःखकारणम्। यदि आत्मादयः एव कारणं, तर्हि किमर्थं कालादि-अयोग-अतियोग-आदयः इह उच्यन्ते इति आह- यथा इत्यादि। यद् बोद्धव्यं सुखदुःखं यथा बोद्धव्यं कार्यवशाद् भवति, तत् तथा एव उच्यते न अन्यथा। तेन सात्म्य-असात्म्य-इन्द्रियार्थजन्यत्वेन सुखदुःखे इह प्रतीयमाने चिकित्सायामुपयुक्ते भवतः, न आत्मादिजन्यत्वेन इह सुखदुःखे अभिधीयेते; न हि आत्म-आदयः दुःखहेतुतया प्रतिपन्नाः अपि इह हेयतया प्रतिपाद्यन्ते; किन्तु असात्म्येन्द्रियार्थयोग-आदयः एव दुःखहेतवः त्यज्यन्ते, सुखहेतवः सात्म्य-इन्द्रियार्थयोगादयः तु उपादीयन्ते इति भावः॥१३२॥व
अरुन्धतीपद्धतिः –
तत्त्वतः आत्मा इन्द्रियं मनः बुद्धिः अर्थः तथा अदृष्टम् इति एतानि एव सुखदुःखकारणानि।इह आयुर्वेदव्यवहारे तु चतुर्विधयोगः सुखदुःखकारणम्।किमर्थम् अयं द्विविधः कार्यकारणभावः उच्यते?
ब्रूमः।क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्यशेषतः इति अग्निवेशस्य प्रश्नः अस्ति।तस्य समाधानम् अग्रे वक्तव्यम्।सुखदुःखरूपवेदनायाः कारणम् आत्मेन्द्रियादयः पदार्थः इति परमार्थतः उचितः एव कार्यकारणभावः।यदि वेदनानिवृत्तिः अपेक्षिता तर्हि एतेषां कारणानां नाशः कार्यः।यतो हि कारणनाशात् कार्यस्य अशेषतः नाशः इति न्यायः।परम् आत्मादीनां स्वरूपतः नाशः न शक्यः।हन्त! तर्हि वेदनानिवृत्तिः असम्भवा।
नैवम्।पटस्य कारणं तन्तवः।पटः नाशनीयः चेत् तन्तुनाशः करणीयः।तदशक्यं चेत् तन्तुसंयोगस्य नाशः करणीयः।तन्तवः पटस्य समवायिकारणम्।समवायिकारणनाशात् कार्यनाशः भवति।तन्तुसंयोगः पटस्य असमवायि कारणम्।असमवायिकारणनाशाद् अपि कार्यनाशः शक्यः।
तुल्यन्यानेन आत्मेन्द्रियादयः सुखदुःखवेदनानां समवायिकारणम्।वेदनानाशाय तेषां नाशः करणीयः।सः न शक्यते।अतः तेषां योगस्य नाशः कार्यः।तेषां चतुर्विधः योगः सम्भवति। सः योगः वेदनारूपकार्यस्य असमवायि कारणम्।तस्य नाशाद् अपि वेदनानिवृत्तिः सिद्ध्यति।
एष एव अभिप्रायः चक्रपाणिना उक्तः ‘तेन सात्म्य-असात्म्य-इन्द्रियार्थजन्यत्वेन’ इत्यादिभिः वचनैः।

स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च। द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः॥१३३॥

पदच्छेदः-
स्पर्शनेन्द्रिय-संस्पर्शः स्पर्शः मानसः एव च। द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः॥१३३ ॥

अन्वयः-
स्पर्शनेन्द्रिय-संस्पर्शः, मानसः स्पर्शः एव च द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः॥१३३ ॥

सरलार्थः-
स्पर्शनेन्द्रियेण कृतः स्पर्शः तथा मनसा कृतः स्पर्शः इति अयं द्विविधः स्पर्शः सुखरूप-वेदनायाः प्रवर्तकः तथा दुःखरूपवेदनायाः प्रवर्तकः भवति।

आयुर्वेददीपिका
इदानीं सकलकारणव्यापकं योगं व्युत्पादयितुम् ऐन्द्रियकं मानसं च स्पर्शं दर्शयितुम् आह - स्पर्शनेत्यादि। स्पर्शनेन्द्रिय-संस्पर्श इति अनेन इन्द्रियाणाम् अर्थेन सम्बन्धं स्पर्शनेन्द्रियकृतं दर्शयति; चक्षुरादीनि अपि स्पृष्टम् एव अर्थं जानन्ति; यदि हि अस्पृष्टम् एव चक्षुः श्रोत्रं घ्राणं वा गृह्णाति, तदा विदूरमपि गृह्णीयात्, न च गृह्णाति, तस्मात् स्पृष्ट्वा एव इन्द्रियाणि अर्थं प्रतिपद्यते; मानसस्तु स्पर्शः चिन्त्यादिना अर्थेन समं सूक्ष्मः अस्ति एव, येन मनः किञ्चिद् एव चिन्तयति, न सर्वं; तेन यद् मनसा स्पृश्यते तद् एव मनः गृह्णाति इति स्थितिः॥१३३॥

अरुन्धतीपद्धतिः –
स्पर्शनेन्द्रिय-संस्पर्शः इति सूत्रस्थपदस्य विवरणं ‘स्पर्शनेन्द्रियकृतम्’ इति कृतं चक्रपाणिना।तेन स्पर्शनेन्द्रियेण कृतः संस्पर्शः स्पर्शनेन्द्रियसंस्पर्शः इति मध्यमपदलोपः समासः सूचितः भवति।
प्रत्यक्षस्य ये दोषाः सन्ति, तेषु अन्यतमः दोषः ‘अतिदूरत्वम्’।अतिदूरं वर्तमानः विषयः इन्द्रियाभिमुखः सन् अपि इन्द्रियेण न गृह्यते, समीपस्थः विषयः तु गृह्यते।अतः किञ्चित् कारणं कल्पनीयं यस्मिन् सति इन्द्रियेण अर्थः गृह्यते, यस्मिन् असति, इन्द्रियेण अर्थः न गृह्यते।स्पर्शः इति तत्कारणम् इति मुनिना उक्तम्।इन्द्रियम् अर्थं स्पृशति अनन्तरं तं गृह्णाति। अयं च स्पर्शः स्पर्शनेन्द्रियकृतः भवति।
मनः अपि कञ्चन चिन्त्यं विषयं गृह्णाति। तदा अन्येऽपि चिन्त्यविषयाः सन्ति एव। येन विषयेण सह स्पर्शः जायते, तम् एव चिन्तयति मनः, न अस्पृष्टविषयान्।अतः मनसः चिन्त्यादिभिः विषयैः सह स्पर्शः भवति अनन्तरं तस्य विषयस्य ग्रहणं मनसा भवति इति ज्ञेयम्।

इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते। तृष्णा च सुखदुःखानां कारणं पुनरुच्यते॥१३४॥
उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्। स्पृश्यते नानुपादाने नास्पृष्टो वेत्ति वेदनाः॥१३५॥

पदच्छेदः-
इच्छाद्वेष-आत्मिका तृष्णा सुखदुःखात् प्रवर्तते। तृष्णा च सुखदुःखानां कारणं पुनः उच्यते॥१३४॥
उपादत्ते हि सा भावान् वेदनाश्रयसञ्ज्ञकान्। स्पृश्यते न अनुपादाने न अस्पृष्टः वेत्ति वेदनाः॥१३५॥

अन्वयः-
इच्छाद्वेष-आत्मिका तृष्णा सुखदुःखात् प्रवर्तते। पुनः तृष्णा सुखदुःखानां कारणं च उच्यते॥१३४॥ हि सा वेदनाश्रयसञ्ज्ञकान् भावान् उपादत्ते । अनुपादाने (सति) न स्पृश्यते। अस्पृष्टः वेदनाः न वेत्ति ॥१३५॥

सरलार्थः-
इच्छा तथा द्वेषः इति तृष्णायाः स्वरूपम्।एषा तृष्णा सुखात् तथा दुःखात् उद्भवति।पुनः एषा तृष्णा सुखस्य दुःखस्य कारणम् अपि भवति।यतो हि सा तृष्णा वेदनाकारणभूतान् कालादीनाम् अयोगादीन् सेवते।यदि स्पर्शकारणभूतः अर्थः न विद्यते तर्हि इन्द्रियार्थस्पर्शः अपि न सम्भवति।स्पर्शाभावे वेदना अपि न सम्भवति।

आयुर्वेददीपिका
सुखदुःख-उत्पत्तिक्रमम् आह इच्छा इत्यादि सुखाद् इच्छारूपा तृष्णा, दुःखात् च द्वेषरूपा तृष्णा प्रवर्तते। इयं च उत्पन्ना तृष्णा ईप्सिते अर्थे प्रवर्तयन्ती द्विष्टे च निवर्तयन्ती प्रवृत्तिनिवृत्ति-विषयस्य सुखदुःखहेतुताम् अपेक्ष्य सुखदुःखे जनयति इति वाक्यार्थः। यथोक्तं तृष्णायाः सुखदुःखहेतुत्वं दर्शयन् आह उपादत्ते हि इत्यादि।वेदनाश्रयसञ्ज्ञकान् इति वेदनाकारणत्वेन उक्तान् कालादि-अयोगादिरूपान्।

अरुन्धतीपद्धतिः –
‘कारणं वेदनानां किम्’ इति प्रश्नस्य चर्चा प्रवर्तते।पूर्वं दुःखस्य कारणं तृष्णा इत्युक्तम् - उपधा हि परो हेतुः दुःखदुःखाश्रयप्रदः । (च.शा.१.९५)
अनन्तरं सुखदुःखानां हेतुः ‘अयोगातियोगमिथ्यायोगसमयोगरूपः चतुर्विधः योगः’ इति अपि उक्तम् -
हेतुस्तु सुखदुःखस्य योगो दृष्टः चतुर्विधः।च.शा.१.१३०
एवं वेदनानां कारणं किम् इति प्रश्नस्य उत्तरद्वयमत्र दृश्यते उपधा (तृष्णा) तथा चतुर्विधः योगः। एतयोः उत्तरयोः समञ्जनम् अस्मिन् सूत्रे मुनिः करोति।एतत् समञ्जनं सुखदुःखोत्पत्तिक्रमस्य वर्णने स्पष्टं भवति।स उत्पत्तिक्रमः एवम्-
तृष्णा द्विविधा इच्छारूपा द्वेषरूपा च ।‘अयं विषयः मम सुखं जनयिष्यति’ इति पुरुषस्य अध्यवसायः भवति। तस्मात् इच्छा जायते ‘ मम अयं विषयः अस्तु’ इति। ततः पुरुषः तस्य विषयस्य प्राप्त्यर्थं प्रवर्तते।एषा प्रवृत्तिः चतुर्विधयोगेषु काचिद् भवति।प्रवृत्तिः क्वचित् समयोगरूपा स्यात्, क्वचिदयोगरूपा स्यात्, क्वचितदतियोगरूपा स्यादथवा क्वचिन्मिथ्यायोगरूपा स्यात्। तदनुसारं तस्मात् तस्माद् योगात् क्वचित् सुखं जायते, क्वचिद् दुःखं जायते।
‘अयं विषयः मम दुःखं जनयिष्यति’ इति पुरुषस्य निश्चयः भवति।तस्माद् द्वेषः जायते यद् ‘मम अयं विषयः मास्तु‘ इति। ततः पुरुषः तस्य विषयस्य परिहारार्थं प्रयतते।अयं प्रयत्नः चतुर्विधयोगेषु कश्चिद् भवति।अयं प्रयत्नः कदाचित् समयोगरूपः स्यात्, कदाचितदयोगरूपः स्यात्, कदाचिदतियोगरूपः स्यातदथवा कदाचिन्मिथ्यायोगरूपः स्यात्।तदनुसारं तस्मात् तस्माद् योगात् क्वचित् सुखं जायते, क्वचिद् दुःखं जायते।
तृष्णातः चतुर्विधः योगः प्रवर्तते।चतुर्विधयोगात् सुखदुःखरूपा वेदना जायते इति एषः वेदनानाम् उत्पत्तिक्रमः अत्र प्रतिपादितः। वेदनायाः निश्चितं कारणं किम्? तृष्णा अथवा चतुर्विधः योगः इति सन्देहः आसीत्।सः अनेन उत्पत्तिक्रमप्रतिपादनेन समाहितः भवति।
अपरः एकः विषयः अस्मिन् सूत्रे मुनिना उक्तः – तृष्णा-वेदनयोः अन्योन्यं कार्यकारणभावः।तृष्णातः सुखदुःखरूपा वेदना जायते।वेदनातः पुनः तृष्णा जायते इति।तदेवं भवति- तृष्णातः चतुर्विधयोगः जायते इति दृष्टम्।चतुर्विधयोगात् सुखं वा दुःखं वा जायते।यदि सुखं भवति तर्हि पुनः सुखेच्छा। तया इच्छया सुखजनके तस्मिन् विषये पुनः इच्छारूपा तृष्णा।यदि दुःखं भवति, तर्हि पुनः दुःखद्वेषः।तेन द्वेषेण दुःखजनके तस्मिन् विषये पुनः द्वेषरूपा तृष्णा।
एवं तृष्णातः सुखदुःखरूपवेदना, वेदनातः पुनः तृष्णा इति एतत् चक्रम् पुनः पुनः आवर्तते। सूत्रे वेदनाश्रयसंज्ञकान् इति पदमस्ति।वेदनानाम् आश्रयः वेदनाश्रयः।आश्रयशब्दः अत्र कारणवाचकः।तेन वेदनाश्रयः इत्युक्ते वेदनाकारणभूतः।वेदनाश्रयः इति संज्ञा यस्य सः वेदनाश्रयसंज्ञकः। स एव चतुर्विधो योगः इति उपरि स्पष्टीकृतम्।

आयुर्वेददीपिका
अथ तृष्णा चेत् सुखदुःखकारणं, तत् किम् इन्द्रियार्थेन अपरेण कारणेन इति आह स्पृश्यते इत्यादि।अनुपादाने इति अविद्यमान-अर्थरूपे स्पर्शकारणे, अर्थं विना न अर्थस्य स्पर्शो भवति। अथ न भवतु अर्थस्पर्शः, ततः किम् इति आह न अस्पृष्टः वेत्ति वेदनाः इति।अर्थस्पर्शशून्यः सन् न सुखदुःखे अनुत्पन्नत्वाद् एव वेत्ति इति अर्थः॥१३४-१३५॥

वेदनानामाधिष्ठानं मनो देहश्च सेन्द्रियः। केशलोमनखाग्रान्नमलद्रवगुणैर्विना॥१३६॥

पदच्छेदः-
वेदनानाम् अधिष्ठानं मनः देहः च सेन्द्रियः। केश-लोम-नखाग्र-अन्न-मल-द्रव-गुणैः विना॥१३६॥

अन्वयः-
वेदनानाम् अधिष्ठानं मनः, केश-लोम-नखाग्र-अन्न-मल-द्रव-गुणैः विना सेन्द्रियः देहः च ।॥१३६॥

सरलार्थः-
मनः वेदनानाम् अधिष्ठानम् अस्ति, तथा केशलोमनखाग्रान्नमलद्रवगुणैः विना अवशिष्टः सेन्द्रियः देहः वेदनानाम् अधिष्ठानम् अस्ति।

आयुर्वेददीपिका
‘वेदनानां किमधिष्ठानम्’ इति अस्य उत्तरम् आह वेदनानाम् इत्यादि।देहः सेन्द्रियः इति अनेन निरिन्द्रियः देहः केशलेमादिकः निरस्तः। तद् एव स्पष्टार्थं विवृणोति केशेत्यादि।किंवा, इन्द्रियाणि अपि प्राधान्य-ख्यापनार्थं पृथग् वेदना-आश्रयत्वेन इन्द्रियग्रहणेन उच्यन्ते।

अरुन्धतीपद्धतिः –
इन्द्रियाणाम् अधिष्ठानं मनः तथा देहः इति वचनं पर्याप्तम् आसीत्।परं मुनिना इन्द्रियपदमपि तत्र योजितम्।तत् किमर्थम् इति प्रकारद्वयेन प्रतिपादयति टीकाकारः।
सेन्द्रियः देहः इति वचनात् इन्द्रियरहितः देहदेशः केशलोमादिकः निरस्तः भवति। तदभिप्रेम्।यतो हि केशादिषु वेदनाः न सन्ति।
एवं केशलोमादिकः देहदेशः सेन्द्रियपदेन निरस्तः चेत् पुनः ‘केशलोमनखाग्रान्नमलद्रवगुणैः विना’ इति वचनं किमर्थम्? तत्र वदति चक्रपाणिः स्पष्टार्थम् इति।सेन्द्रियः देहः नाम कः इति प्रश्नः न सम्भवेत् इति एतदर्थः सेन्द्रियदेहपदस्य व्याख्यानरूपम् इदं वचनं ‘केशलोमनखाग्रान्नमलद्रवगुणैः विना’ इति।
अपरं प्रतिपादनं ब्रूते टीकाकारः किं वा इति अनेन।वेदनानाम् अधिष्ठानं मनः अस्ति, देहः अस्ति तथा इन्द्रियाणि अपि सन्ति।देहशब्देन इन्द्रियाणाम् अपि ग्रहणं भवति अतः इन्द्रियवचनं पृथक् किमर्थम्? ‘प्राधान्यात्’ इति चक्रपाणेः उत्तरम्।
ब्राह्मणवसिष्ठन्यायेन दत्तम् इदम् उत्तरम्।वसिष्ठः ब्राह्मणः। अतः ‘ब्राह्मणाः आगताः’ इति वचनेन तस्य अपि आगमनं सूचितं भवति।परं वक्ता निवेदयति ‘ब्राह्मणाः आगताः, वसिष्ठोऽपि आगतः’ इति।अत्र सः वसिष्ठस्य पृथग् उल्लेखेन तस्य ब्राह्मणेषु प्राधान्यं सूचयितुम् इच्छति। एवमेव प्रकृते वेदनानाम् अधिष्ठानं देहः इति वचनेन इन्द्रियस्य अपि वेदनाधिष्ठानत्वं ज्ञायते, तथापि मुनिः ‘देहश्च सेन्द्रियः’ इति इन्द्रियस्य पृथग् उल्लेखं करोति।तेन सः इन्द्रियाणां देहे प्राधान्यं सूचयितुम् इच्छति।

आयुर्वेददीपिका
वेदनायाः देहेन्द्रियगतत्वं तद्-आधारत्वेन प्रतीयमानत्वाद् ज्ञेयम्।

अरुन्धतीपद्धतिः –
ननु सुख च दुःखं च एतौ न्यायवैशेषिकमते आत्मगुणौ, साङ्ख्यमते बुद्धिगुणौ। तेन ‘वेदना मनोऽधिष्ठाना अस्ति’ इति साङ्ख्यमते अङ्गीकृतमेव।अतः तद्विषये आक्षेपः नास्ति।परं कस्मिन् अपि मते देहः वा इन्द्रियाणि वा सुखदुःखयोः अधिष्ठानं न सम्भवति।
अस्य उत्तरं चक्रपाणिना उक्तं ‘वेदनायाः’ इत्यादिना।देहः वा इन्द्रियाणि वा सुखदुःखय़ोः अधिष्ठानं तत्त्वतः न सम्भवतीति सत्यम्।तथापि सुखदुःखयोः प्रतीतिः देहाधारेण इन्द्रियाधारेण वा सम्भवति।यथा ‘जानुनि वेदना’ इत्यत्र दुःखरूपा वेदना अस्ति आत्मनि, परं तस्याः प्रतीतिः भवति जान्वाधारेण।जानुशूलः इति जान्ववच्छेदेन प्रतीतं दुःखम्।अरसज्ञता इति वेदना अस्ति आत्मनि, तथापि सा प्रतीयते रसनेन्द्रियाधारेण।अरसज्ञता नाम रसनेन्द्रियावच्छेदेन प्रतीतं दुःखम्। अतः प्रतीतिबलादस्मिन् शास्त्रे ‘वेदनानाम् अधिष्ठानं मनो देहश्च सेन्द्रियः’ इति वचनं सङ्गच्छते।

आयुर्वेददीपिका
द्रवं मूत्रम्। गुणाः शब्दादयः। शरीरगताः एते हि केशादयः न वेदनाधाराः इति अनुभवः एव प्रमाणम्। या तु मूत्रपुरीषगता वेदना ग्रहणीमूत्रकृच्छ्रादौ वक्तव्या, सा मूत्रपुरीषाधार-शरीरप्रदेशस्य एव बोध्या॥१३६॥

अरुन्धतीपद्धतिः –
केशलोमनखाग्रान्नमलद्रवगुणैर्विना॥१३६॥
इत्यस्य वचनस्य प्रमाणम् उपस्थापयति चक्रपाणिः- शरीरगताः एते हि केशादयः न वेदनाधाराः इति अनुभवः एव प्रमाणम्।
ननु केशादयः न वेदनाधाराः इति सर्वेषाम् अनुभवः अस्ति।तस्मात् केशादयः न वेदनाधाराः इति अनुभवः प्रमाणम् इति एतावद् वचनं पर्याप्तम्।एवकारेण अन्यप्रमाणव्यवच्छेदं करोति चक्रपाणिः। तद् न उचितम्।यतो हि ‘केश-लोम-नखाग्र-अन्न-मल-द्रव-गुणैः विना’ इति आप्तवचनम् अपि अत्र प्रमाणम् अस्ति एव।तत्किमर्थं वदति टीकाकारः अनुभवः एव प्रमाणम् इति?
उच्यते। ‘अज्ञाते शास्त्रम् अर्थवत्’ इति न्यायः अस्ति अतः चक्रपाणिः वदति अनुभवः एव प्रमाणम् इति।यत् प्रमेयं शास्त्रवचनं विना प्रमाणान्तरेण ज्ञातुं सर्वथा अशक्यं तत्र एव शास्त्रस्य प्रमाणरूपेण प्रवृत्तिः अस्तु इति दार्शनिकाः।‘क्षुधितः अन्नं भुञ्जीत’ इति एतत् शास्त्रं विना अपि ज्ञायते।अतः तस्य प्रतिपादने शास्त्रस्य तात्पर्यं न भवति।एवमेव अत्र केशादयः न वेदनाधाराः इति पुरुषाणाम् अनुभवः अस्ति।अतः तत्र आप्तवचनस्य प्रवृत्तिः नास्ति।‘केश-लोम-नखाग्र-अन्न-मल-द्रव-गुणैः विना’ इति आप्तवचनं तु जनानाम् अनुभवस्य अनुवादमात्रम् अस्ति।

योगे मोक्षे च सर्वासां वेदनानामवर्तनम्। मोक्षे निवृत्तिर्निःशेषा योगो मोक्षप्रवर्तकः॥१३७॥

पदच्छेदः-
योगे मोक्षे च सर्वासां वेदनानाम् अवर्तनम्। मोक्षे निवृत्तिः निःशेषा योगः मोक्षप्रवर्तकः॥१३७॥

अन्वयः-
योगे मोक्षे च सर्वासां वेदनानाम् अवर्तनं भवति।मोक्षे निःशेषा निवृत्तिः भवति। योगः मोक्षप्रवर्तकः॥१३७॥

सरलार्थः-
य़ोगे तथा मोक्षे सर्वासां वेदनानाम् अभावः भवति।मोक्षे सर्वासां वेदनानां निःशेषा निवृत्तिः भवति।योगः मोक्षजनकः अस्ति।१३७

आयुर्वेददीपिका
‘क्व चैता वेदनाः सर्वा’ इत्यादिप्रश्नस्य उत्तरं- योगः इत्यादि। योगः ‘अनारम्भात्’ इत्यादि-ग्रन्थ-वक्ष्यमाणः। मोक्षः आत्यन्तिकशरीरादि-उच्छेदः। निःशेषेति न पुनः भवति। एतेन, योगे निवृत्ता वेदना पुनः भवति इति सूचयति। मोक्षप्रवर्तकः इति मोक्षकारणम्।

अरुन्धतीपद्धतिः –
योगे तथा मोक्षे वेदनानिवृत्तिः भवति।तत्र मोक्षे वेदनानिवृत्तिः निःशेषा भवति इति एतावद् मुनिना उक्तम्।एतस्माद् उक्ताद् अर्थाद् अपरः अनुक्तः अर्थः आपद्यते यत् योगे वेदनानिवृत्तिः निःशेषा न भवति।निवृत्ता अपि वेदना तत्र पुनरुद्भवति।अर्थापत्तिः तन्त्रयुक्तिः अत्र चक्रपाणिना उपयुक्ता।ततः अनुक्तः अर्थः स्फुटीकृतः।

आयुर्वेददीपिका
किंवा, ‘योगमोक्षौ निवर्तकौ’ इति पाठः; तदा अस्मिन् पक्षे यद्यपि योगमोक्षयोः वेदनानिवर्तकत्वं ‘योगे मोक्षे च’ इत्यादिना श्लोकार्धेन उक्तं, तथा अपि योगमोक्षयोः इह कर्तृता वेदनानिवृत्तिं प्रति दृश्यते इति न पौनरुक्त्यम्॥१३७॥

अरुन्धतीपद्धतिः –
चक्रपाणेः पुरतः चरकसंहितायाः यानि पुस्तकानि आसन् तेषु कुत्रचित् -
मोक्षे निवृत्तिर्निःशेषा योग-मोक्षौ निवर्तकौ।
इति पाठभेदः आसीत्।तं पाठम् आदाय इदानीं सः व्याख्यानं करोति।अस्य पाठभेदस्य अर्थः एवं भवति –
मोक्षे वेदनायाः निःशेषा निवृत्तिः भवति।योगः च मोक्षः च वेदनानिवर्तकौ भवतः।
अनेन पाठेन प्रश्नः उद्भवति यत् श्लोकस्य पूर्वार्धः तथा अन्तिमचरणः इति एतयोः अर्थे भेदः कः? पूर्वार्धे उक्तं-
योगे मोक्षे च सर्वासां वेदनानामवर्तनम्।
अन्तिमे चरणे उक्तम् –
योग-मोक्षौ (वेदनायाः) निवर्तकौ।
उभयोः अर्थः समानः।
अस्य समाधानमग्रे वदति टीकाकारः ‘यद्यपि’ इत्यादिना।
योगे मोक्षे च सर्वासां वेदनानामवर्तनम्
इत्यत्र योगे तथा मोक्षे इति सप्तम्यन्तपदे।
सप्तम्यधिकरणे च ।अष्टाध्यायी २.३.३६
इति सूत्रबलात् योगः तथा वेदनानिवृत्तिः इति एतयोः अर्थयोः आधाराधेयभावः भासते। योगावस्थायां वेदनानिवृत्तिः भवति इति।एवं मोक्षः तथा वेदनानिवृत्तिः इति एतयोः अर्थयोः अपि आधाराधेयभावः भासते। मोक्षदशायां वेदनानिवृत्तिः भवति इति।
योग-मोक्षौ (वेदनायाः) निवर्तकौ।
इति वचने निपूर्वक-वृतिधातोः कर्तरि ण्वुल्-प्रत्ययः कृतः।
ण्वुलतृचौ।अष्टाध्यायी३.१.१३३
इति सूत्रेण अयं प्रत्ययः कर्तरि उक्तः। तेन ‘निवृत्तिक्रियायाः कर्ता’ इति निवर्तकशब्दस्य अर्थः ज्ञायते।योगः तथा मोक्षः इति एतौ उभौ अपि वेदनानिवृत्त्या सह कर्तृतासम्बन्धेन अन्वितौ।योगमोक्षौ वेदनानिवृत्तेः कर्तारौ इति पिण्डार्थः।
वेदनानिवृत्तेः द्वे अधिकरणे योगमोक्षौ इति श्लोकस्य पूर्वार्धात् ज्ञायते। वेदनानिवृत्तेः कर्तारौ योगमोक्षौ इति अन्तिमचरणात् ज्ञायते।तस्मात् पौनरुक्त्यदोषः अत्र न भवति।

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते। सुखदुःखमनारम्भादात्मस्थे मनसि स्थिरे॥१३८॥
निवर्तते तदुभयं वशित्वं चोपजायते। सशरीरस्य योगज्ञास्तं योगमृषयो विदुः॥१३९॥

पदच्छेदः-
आत्मा-इन्द्रिय-मनः-अर्थानां सन्निकर्षात् प्रवर्तते। सुख-दुःखम् अनारम्भाद् आत्मस्थे मनसि स्थिरे।।१३८।।
निवर्तते तद् उभयं वशित्वं च उपजायते। सशरीरस्य योगज्ञाः तं योगम् ऋषयः विदुः।।१३९।।

अन्वयः-
आत्मा-इन्द्रिय-मनः-अर्थानां सन्निकर्षात् सुख-दुःखं प्रवर्तते।(मनोव्यापारस्य) अनारम्भाद्, मनसि आत्मस्थे स्थिरे तद् उभयं (सुखं दुःखं च) निवर्तते। सशरीरस्य वशित्वं च उपजायते।योगज्ञाः ऋषयः तं योगं विदुः।।१३९।।

सरलार्थः-
आत्मा-इन्द्रिय-मनः-अर्थानां सन्निकर्षात् सुख-दुःखं जायते।यदि मनोब्यापारः न भवति, मनः आत्मनि स्थिरं भवति तदा न सुखं जायते, न वा दुःखं जायते।किञ्च शरीरे विद्यमाने अपि अयं पुरुषः वशी भवति।व्यापाररहितस्य मनसः आत्मनि स्थिरीकरणं नाम योगः इति योगज्ञाः ऋषयः वदन्ति।

आयुर्वेददीपिका
यथा योग: वेदना-निवर्तकः भवति, यः च योगः तम् आह आत्मा इत्यादि- अनारम्भाद् इति विषय-उपादानार्थं मनसा अनारम्भात् । आत्मस्थे मनसि इति विषये निवृते केवलात्मज्ञानस्थे। स्थिरे इति अचले, आत्मज्ञानप्रसक्ते एव इति यावत्। तद् उभयम् इति सुखदुःखे। योगे योगधर्मान्तरप्राप्तिम् आज वशित्वम् इत्यादि।वशित्वं वक्ष्यमाणम् अष्टविधम् ऐश्वर्यबलम्। सशरीरस्य इति पदेन शरीरेण सह एव वशित्वं भवति इति दर्शयति॥१३८-१३९॥

अरुन्धतीपद्धतिः –
योगः नाम कः? योगेन वेदनानिवृत्तिः कथं भवति? इति द्वयोः प्रश्नयोः उत्तरमत्र उक्तम्।योगेन लभ्यम् अवान्तरफलमपि प्रसङ्गात् उक्तं ‘वशित्वम् उपजायते’ इति।एतद् वशित्वम् अग्रिमे सूत्रे आवेशश्चेतसः इत्यादिना वर्णितम्।

आवेशश्चेतसो ज्ञानमर्थानां छन्दतः क्रिया। दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम्।।१४०।।
इत्यष्टविधमाख्यातं योगिनां बलमैश्वरम्। शुद्धसत्त्वसमाधानात्तत् सर्वमुपजायते।।१४१।।

पदच्छेदः-
आवेशः चेतसः ज्ञानम् अर्थानां छन्दतः क्रिया। दृष्टिः श्रोत्रं स्मृतिः कान्तिः इष्टतः च अपि अदर्शनम्।।१४०।।
इति अष्टविधम् आख्यातं योगिनां बलम् ऐश्वरम्। शुद्ध-सत्त्व-समाधानात् तत् सर्वम् उपजायते।।१४१।

अन्वयः-
आवेशः, चेतसः ज्ञानम्, अर्थानां छन्दतः क्रिया।दृष्टिः, श्रोत्रं, स्मृतिः, कान्तिः, इष्टतः च अपि अदर्शनम्।।१४०।। इति योगिनाम् अष्टविधम् ऐश्वरम् बलम् आख्यातं । तत् सर्वम् शुद्धसत्त्वसमाधानात् उपजायते।।१४१।

सरलार्थः-
परशरीरप्रवेशः,परचित्तस्य ज्ञानम् ,स्वेच्छया अर्थसाधनं, अतीन्द्रियदर्शनं, अतीन्द्रियश्रवणं, स्मरणं, अमानुषं तेजः,स्वेच्छया दर्शनम् अदर्शनं वा इति अष्टविधं योगिजनानाम् ऐश्वरं बलम् उच्यते।तत् सर्वं शुद्धचित्तस्य आत्मनि स्थिरीकरणात् भवति।

आयुर्वेददीपिका
आवेश इत्यादि। आवेशः परपुरप्रवेशः। चेतसः ज्ञानम् इति परचित्तज्ञानम्। अर्थानां छन्दतः क्रिया इति अर्थानाम् इच्छातः करणम्। दृष्टिः अतीन्द्रियदर्शनम्। श्रोत्रम् अतीन्द्रिय-श्रवणम्। स्मृतिः सर्वभावतत्त्वस्मरणम्। कान्तिः अमानुषी कान्तिः। इष्टतः च अपि अदर्शनम् इति यदा इच्छति तदा दर्शनयोग्य एव न दृश्यते, यदा च इच्छति तदा दृश्यते। किंवा, आवेशः चेतसः इति परचेतसः प्रवेशः, ज्ञानम् इति सर्वम् अतीत-अनागत-आदिज्ञानं, शेषं पूर्ववत्। ऐश्वरमिति योगप्रभावाद् उपपन्नैश्वर्यकृतम्। शुद्धसत्त्वसमाधानाद् इति नीरजस्तमस्कस्य मनसः आत्मनि सम्यग् आधानात्।

अरुन्धतीपद्धतिः –
आवेशः चेतसः ज्ञानम् इति पदत्रयस्य द्विविधां योजनां दर्शयति चक्रपाणिः।आवेशः इति एकं भिन्नं योगिबलं, चेतसः ज्ञानम् इति एकं भिन्नं योगिबलम्।एषा एका पदयोजना।
अथवा आवेशः चेतसः इति एकं भिन्नं योगिबलं, ज्ञानम् इति एकं योगिबलम्।एषा अपरा पदयोजना।
ऐश्वरपदस्य अर्थं स्पष्टीकरोति चक्रपाणिः ऐश्वरमित्यादिना। ऐश्वरम् इति प्रकृते बलस्य विशेषणम्।तस्य व्याकरणसिद्धः अर्थः- ‘ईश्वरस्य इदम्’ इति।
तस्येदम्।-अष्टाध्यायी ४.३.२२०
इति अनेन सूत्रेण साधितः अयं तद्धितः शब्दः।
एवम् ऐश्वरशब्दस्य योगशक्त्या कृतः अर्थः ‘ईश्वरस्य इदम्’ इति।अतः यौगिकः अयं शब्दः। परन्तु प्रकृते अनेन पदार्थेन -
‘योगिनां यद् ईश्वरस्य बलम् ‘
इति वाक्यार्थः जायते।स च असङ्गतः।अतः चक्रपाणिः अत्र पदार्थतन्त्रयुक्तेः आधारेण ऐश्वरपदस्य अर्थं प्रतिपादयति -
‘ऐश्वरमिति योगप्रभावाद् उपपन्नैश्वर्यकृतम्’
इति ।अस्मिन् अर्थकरणे अयं शब्दः यौगिकरूढः अङ्गीकृतः, न यौगिकः।ऐश्वरशब्दस्य यौगिकः अर्थः यद्यपि ईश्वरस्य इदम् इति अस्ति तथापि रुढार्थः योगैश्वर्यजन्यं सामर्थ्यम् इति अस्ति। किमत्र प्रमाणम्?
अध्यवसायो बुद्धेर्धर्मो ज्ञानं विराग ऐश्वर्यम्। –साङ्ख्यकारिका २३
योगिनां वुद्धेः धर्मविशेषः ऐश्वर्यम् इति उच्यते।योगप्रभावात् एतद् ऐश्वर्यं प्राप्यते। ‘तस्माद् ऐश्वर्यात् उत्पन्नं बलम्’ इति ऐश्वरशब्दस्य रूढः अर्थः।
आवेशः चेतसाम् इत्यादिभिः उक्तं यद् ऐश्वरं बलं, तत् कथं जायते इति आकाङ्क्षायां वदति मुनिः
शुद्धसत्त्वसमाधानात् तत् सर्वम् उपजायते
इति। अत्र सत्त्वं मनः।शुद्धम् इति रजस्तमोरहितं सत्त्वमात्रम्।तादृशस्य रजस्तमोरहितस्य मनसः आत्मनि स्थिरीकरणं शुद्धसत्त्वसमाधानम्।तस्माद् एतद् ऐश्वरं बलमुपजायते इत्यर्थः।
याज्ञवल्क्येन मुनिना ऐश्वरं बलमेवम् अभिहितम् –
अन्तर्ध्यानं स्मृतिः कान्तिः दृष्टिः श्रोत्रज्ञता तथा।
निजं शरीरमुत्सृज्य परकायप्रवेशनम्॥२०२
अर्थानां छन्दतः सृष्टिः योगसिद्धेश्च लक्षणम्।
सिद्धे योगे स्मरन् देहम् अमृतत्वाय कल्पते॥२०३याज्ञ.स्मृति: यतिधर्मप्र.

च.शा.१.११८-१२९  चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः     च.शा.१.१४२-१४९
"https://sa.wikibooks.org/w/index.php?title=च.शा.१.१३०-१४१&oldid=7330" इत्यस्माद् प्रतिप्राप्तम्